संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ४२ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ४२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ४२ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं शिवराज्ञीश्रियं हरिः ।ततोऽपि विविधानाहाऽऽचारान् वदामि ते शुभात् ॥१॥नवान्नानि रसवन्ति दातव्यानि सदाऽर्थिने ।नवसस्येष्टिरेवाऽत्र दीर्घायुःसम्प्रदा यतः ॥२॥सर्वेऽपि मानवा नार्यो नराश्चापि नवेऽन्नके ।सति चाग्निं विशुद्धाऽन्नैर्यजेत परमेश्वरम् ॥३॥दघ्ना मिष्टाम्ब्लमधुरास्वादेन पयसा तथा ।मिष्टसारान्वितेनाऽपि यजेत परमेश्वरम् ॥४॥पायसान्नैः पयःपाकैः क्षीरैर्यजेत माधवम् ।घृतेन घृतपक्वेन घृताक्तैश्च शुभान्नकैः ॥५॥नवनीतैः शुभैः सद्योजातैः शर्करयाऽन्वितैः ।यजेत परमात्मानं दुग्धपुटीप्रपूरितैः ॥६॥पूरिकापोलिकायुक्तैर्गुप्तपुटकभोजनैः ।यजेत मां हरिं लक्ष्मि! येन तृप्तो भवामि च ॥७॥शर्कराभिश्च खण्डाद्यैर्मधुभिर्गुडकैसरैः ।सद्रसैश्चापि मां शीतपेयैर्यजेत सर्वथा ॥८॥आम्रफलैर्मिष्टफलैर्यजेत द्राक्षिकाफलैः ।कदलैश्चाऽमृतैश्चापि नारीकेलादिपाचनैः ॥९॥शीतफलैः रायणैश्च जम्बूभिः पनसैस्तथा ।नवचिर्भटकर्कटीभिर्यजेत वधूर्हि माम् ॥१०॥मानाऽवमानौ द्वावेतौ सदा बोध्यो विषाऽमृते ।तत्स्पर्शाभिभवं प्राप्य वधूवर्गोऽवसीदति ॥११॥तस्माद् दास्येन भावेन वर्तितव्यं वधूजनैः ।चक्षुःपूतं चरेन्मार्गं मनःपूतां चरेत् क्रियाम् ॥१२॥स्वामिपूतां चरेत् सेवां धर्मपूते वधूर्वसेत् ।स्वाम्याज्ञां पालयेन्नित्यं चाऽज्ञाभंगं न चाचरेत् ॥१३॥आज्ञाधर्मो हि पत्नीनां तेनेच्छेत् सिद्धिमुत्तमाम् ।कैतवं छद्म शाठ्यं च पैशुन्यं वर्जयेद् वधूः ॥१४॥अतिहास्यमवष्टंभं लीलां स्वेच्छाप्रवर्तनम् ।वर्जयेत् सर्वयत्नेन गुर्वीणां सन्निधौ वधूः ॥१५॥तद्वाक्यप्रतिकूलं च तथाऽयुक्तं गुरौ वचः ।न वदेद् गृहिणीवर्गो ह्यनिष्टं न स्मरेत् क्वचित् ॥१६॥रजस्वलां सूतिकां च न स्पृशेन्मलवाहिनीम् ।चतुर्थ्यां सुवधूर्नैव रतिकार्यकरी भवेत् ॥१७॥अल्पायुर्व्रतविद्याढ्यत्वादिहीनप्रसूस्तदा ।यतो जायेत तस्माद्वै बलवद्ग्रहगा भवेत् ॥१८॥सङ्गं सतीभिः कुर्वीत भवेत् सर्वार्थसाधिका ।असतीसंगमुज्जह्यात् परत्राऽत्र हितं न यत् ॥१९॥वर्जयेत् क्षुद्रसंगं च विरोधं स्वजनेषु च ।शत्रुसेवापरासंगं दुष्टायोगं च वर्जयेत् ॥२०॥उत्तमाभिर्हि सांगत्यं पण्डिताभिश्च सत्कथाम् ।अलुब्धाभिश्च मित्रत्वं कुर्वाणा नावसीदति ॥२१॥परसंगं परिहास्यं चाऽस्थाने नरयोषितोः ।परवेश्मनि वासं च न कुर्वीत कदाचन ॥२२॥पराऽपि हितकर्त्री चेद् बान्धवी सा न चेतरा ।अहितो देहजो व्याधिर्हितमारण्यकौषधम् ॥२३॥बान्धवी या हिता सैव स पिता यस्तु पोषकः ।तन्मित्रं यत्र विश्वासः स देशो यत्र जीव्यते ॥२४॥स भृत्यो यो विधिभृत्यस्तद्बीजं यत्प्ररोहति ।सा भार्या या पतिनिष्ठा स पुत्रो यः सुखाप्तये ॥२५॥सा जीवति गुणा यस्या धर्मो यस्याः सा जीवति ।गुणधर्मविहीनाया निष्फलं जीवनं यतः ॥२६॥सा भार्या या गृहे दक्षा प्रतिप्राणा प्रियंवदा ।हिता भक्ताऽनुकूला च सर्वसौभाग्यवर्धिनी ॥२७॥यस्य भार्या निःस्नेहाक्षी कपटा कलहप्रिया ।वादप्रियाऽन्यसंसक्ता त्यक्तलज्जा विमानिनी ॥२८॥कश्मला सेवया हीना सा जरा न जरा जरा ।यस्य भार्या समवृत्तिर्गुणज्ञा चानुगामिनी ॥२९॥पतिभाग्याऽल्पसन्तुष्टा प्रियभावा प्रियंकरी ।पतिधर्मा पत्यभिन्ना सा प्रिया न प्रिया प्रिया ॥३०॥दुष्टा भार्या शठं मित्रं भृत्यः स्वार्थपरायणः ।सर्पो यत्र च तत्र स्याद्वासो मृत्युप्रदः खलु ॥३१॥अगुणज्ञः पतिः क्रुद्धा सपत्नी दोषदायिनी ।सर्वसंशयिनी वासो यत्र तत्र न शं भवेत् ॥३२॥त्यजन्तु दुर्जनसंगं भजन्तु साधुसंगतिम् ।कुर्वन्तु पुण्यमनिशं स्मरन्तु मां हरिं पतिम् ॥३३॥आपदर्थे धनं रक्षेद् दारान् रक्षेद्धनादिभिः ।पतिं पुत्रं सतीं भार्यां रक्षेद् धनादिभिः सदा ॥३४॥त्यजेदेकं कुलस्यार्थे धर्मार्थं तु कुलं त्यजेत् ।धर्मं त्यजेच्च हर्यर्थे मोक्षार्थं सर्वमुत्सृजेत् ॥३५॥वरं वासोऽरण्यदेशे न तु दुष्टे गृहे क्वचित् ।दुश्चरितं गृहं क्लेशः प्रत्यक्षनरकावुभौ ॥३६॥चलत्येकेन पादेन तिष्ठत्येकेन धीमती ।न परीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत् ॥३७॥त्यजेद्दशमसद्वृत्तं वासं सोपद्रवं त्यजेत् ।कृपणं स्वामिनं मायामयं दुष्टं नरं त्यजेत् ॥३८॥पदस्थस्यैव मित्राणि यानि तानि न चांजसा ।अर्थपदविहीनस्य मित्राणि सार्थकानि वै ॥३९॥आपद्रक्षाकरं मित्रं क्षीणसम्पत्सु कामिनी ।दुर्भिक्षादौ सहयाना सा भार्या भाग्यशालिनः ॥४०॥द्रुमं क्षीणफलं शुष्कं सरः पतिं च निर्धनम् ।छाया मत्स्या धर्मपत्नी न त्यजन्ति कदाचन ॥४१॥विहगाः सारसाश्चापि गणिकास्तान् त्यजन्ति वै ।स्वार्थवशास्तथा बोध्या विश्वसेन्न तथाविधान् ॥४२॥लुब्धां द्रव्यप्रदानेन श्रेष्ठामञ्जलिना तथा ।मूर्खां छन्दानुवृत्त्या च याथातथ्येन पण्डिताम् ॥४३॥साध्वीं प्रसेवया बालां मिष्टवाण्या जयेद् वधूः ।साध्व्यश्च देवताश्चापि तुष्यन्ति शुद्धभावनैः ॥४४॥असती खाद्यपानाद्यैः शठा शाठ्येन तुष्यति ।यस्या यादृक्स्वभावः स्यात् तस्यां तथाऽऽविशेद् वधूः ॥४५॥नद्यश्च नखिनश्चापि शृंगिणः शस्त्रपाणयः ।राजकुलं च लुञ्चादो विश्वासार्हा न सर्वथा ॥४६॥द्रव्यहानिं समुद्वेगं गृहे दुश्चरितं तथा ।अवमानं वञ्चनं च प्रकाशयेन्न वै वधूः ॥४७॥स्वामित्यागो हीनसंगो वधूशीलविनाशकौ ।गर्वी दोषी व्यसनी च लाभनाशकरास्त्रयः ॥४८॥यत्र मानं न प्रीतिर्न विद्या शान्तिर्न सौहृदम् ।पतिस्नेहो न वै पत्न्यां तद् गृहं त्वनलालयम् ॥४९॥भयहीनं धनं त्वर्ज्यं भयहीनं च सौहृदम् ।भयहीना तथा प्रीतिर्निर्भयः स्वर्ग एव सः ॥५०॥दात्र्या भाव्य न त्वदात्र्या क्षन्त्र्या भाव्यं स्त्रिया सदा ।शीलिन्या च तथा भाव्यं पुण्यार्जिन्या सुखाय च ॥५१॥नग्ना रूक्षा भिक्षुकी च कृपणा याचनापरा ।अवस्थेयमदानस्य तस्माद् दात्री भवेद् वधूः ॥५२॥सञ्चितं याचितं प्राप्तं सत्कार्ये युज्यते न चेत् ।चौरपार्थिवपृथिवीहार्यं तद्वै भविष्यति ॥५३॥कदर्याया धनं याति भूमितस्करराजसु ।नार्या दण्डः पृथक् शय्या पत्युर्दण्डो ह्यसेवनम् ॥५४॥दुर्जना दासवर्गाश्च पटहाः पशवस्तथा ।ताडिता मार्दवं यान्ति दुष्टा स्त्री व्यसनी नरः ॥५५॥नद्यो नार्यः समभावा वेगवत्योऽतिनिम्नगाः ।कूलं कुलं पातयन्ति स्वच्छन्दगतिका यदि ॥५६॥न तृप्तिरस्ति कामस्य पुत्रस्य च धनस्य च ।सुखस्य जीवितस्यापि तानि जित्वा भजेद्धरिम् ॥५७॥शाश्वतं साधयेद् भावि देवपूजादिसाधनैः ।अशाश्वतं विदित्वैव त्यक्तव्यं दैहिकं तु यत् ॥५८॥ध्रुवमोक्षं परित्यज्य चाऽध्रुवं या हि सेवते ।अध्रुवं नाऽऽत्मना सार्धं गमिष्यति चरेद् ध्रुवम् ॥५९॥हविर्दुष्टकुलाद् ग्राह्यं बालादपि सुभाषितम् ।अमेध्यात् काञ्चनं ग्राह्यं मोक्षः सत्पुरुषात्तथा ॥६०॥स्थानेष्वेव प्रयोक्तव्या भृत्या भूषाः स्त्रियोऽपि च ।सती नारी सदश्वश्च वीरः सत्यपरो जनः ॥६१॥अनपेक्षो न सहते कषाघातं तथाऽनृतम् ।वैभवेन विहीनाऽपि सती नीचं न सेवते ॥६२॥सकृद्दुष्टं पुनर्मित्रं न सन्धीत कदाचन ।सन्धानाया भवेन्मृत्युर्वध्वास्तत्र विशेषतः ॥६३॥शत्र्वपत्यं विषपात्रं विश्वासपात्रमेव न ।विपत्प्रदं भवेत् काले विपरीते समागते ॥६४॥सानुकूलं यदा दैवं सर्वमन्यन्निरर्थकम् ।सानुकूले न दैवं चेत् कृतं सर्वं निरर्थकम् ॥६५॥धनार्जने व्यये विद्यार्जने प्रभोजने रतौ ।स्वकार्यसाधने त्यक्तलज्जा नारी सुखं लभेत् ॥६६॥लज्जा रक्षा जलं राजा गुरुर्देवालयो निजाः ।जना यत्र न वर्तन्ते स्थितिस्तत्र हि दुःखदा ॥६७॥साधुज्योतिर्विदो ज्ञानी वृद्धश्च मेलनं मिथः ।स्नेहश्चान्नं च वैद्यश्च यत्र नो तत्र नो वसेत् ॥६८॥स्वजनान् पालयेत् साध्वी वधूरन्नाम्बरादिभिः ।विष्णुं प्रपूजयेन्नित्यमायुःकीर्तिबलप्रदम् ॥६९॥क्षणेन विभवो नश्येन्नात्मायत्तं धनादिकम् ।क्षणं मत्वा साधयेद्वै मोक्षं प्रसेव्य मां सती ॥७०॥व्याघ्री जरा च रोगोऽरिः प्रसह्याऽऽगच्छतो हि तौ ।आयुर्भिन्नघटाभं च ज्ञात्वा मोक्षं प्रसाधयेत् ॥७१॥पितृवत्परपुरुषे परद्रव्येषु घासवत् ।निजवत् सर्वभूतेषु या पश्यति सती हि सा ॥७२॥द्रव्यवत्यास्तु मित्राणि द्रव्यवत्यास्तु बान्धवाः ।द्रव्यवती सुपूज्या स्याद् द्रव्यवती हि पण्डिता ॥७३॥शास्त्रहीना सदाऽन्धा स्यात् तस्माच्छास्त्रवती भवेत् ।शास्त्रचक्षुष्मती नारी स्वाराज्यसुखमेधते ॥७४॥यया सन्तोषितो देवः पतिर्दास्यः प्रतिप्रियाः ।कुटुम्बनारीवर्गाद्या जिता तेन वसुन्धरा ॥७५॥मनस्तापं न कुर्वीत क्वापि वधूर्महापदि ।समप्रज्ञा विवेकाढ्या सुखदुःखसमा भवेत् ॥७६॥परगृहं न मन्तव्यं पत्युर्गृहं निजं गृहम् ।यत्पत्युस्तन्निजं सर्वं मोदितव्यं विवेकतः ॥७७॥चापल्याद् वारयेद् दृष्टिं मिथ्यावाक्यं च वारयेत् ।मनो निवारयेच्छाठ्यात् संसारात् स्वां निवारयेत् ॥७८॥हुंकारं भ्रुकुटीं नैव तेजयेत् स्वजनान् प्रति ।सहस्त्रीवर्गमालोक्य रञ्जयेत् प्रणमेद् वधूः ॥७९॥उद्योगश्च विवेकश्च धैर्यं शक्तिः सुशीलता ।उत्साहश्चेति षट् नार्याः सिद्धिदाः सुखदाः सदा ॥८०॥मार्दवं दास्यभावश्च नम्रता क्षमता दया ।प्रसन्नता स्निग्धता च सप्त वध्वाः सुखप्रदाः ॥८१॥कुलशीलगुणोपेता सत्यधर्मपरायणा ।रूपवती प्रसन्ना च नार्यध्यक्षा भवेद्धि सा ॥८२॥बलाबलमतिज्ञात्री सैन्याऽध्यक्षा भवेद्धि सा ।इङ्गिताकारभावज्ञा प्रतीहारी भवेद् रमा ॥८३॥मेधाविनी च वाचाला सत्यव्रता जितेन्द्रिया ।बहुशास्त्रादिकुशला चोपदेष्ट्री भवेद्धि सा ॥८४॥बुद्धिमती परचित्तलक्षकी तथ्यवादिनी ।कुलीना प्रभुशक्त्याढ्या नारी दूती तु सा मता ॥८५॥समस्तनियमज्ञा या तर्कशक्तिसमुच्छ्रया ।देशकालादिविज्ञा च धर्माध्यक्षा भवेद्धि सा ॥८६॥मातृमातामहीदक्षा कृतपाकपरिश्रमा ।शुद्धा शुद्धिप्रविज्ञा च रसज्ञा पाचिका भवेत् ॥८७॥आयुर्वेदकृताभ्यासा सर्वेषां हितकारिणी ।निदानपद्धतिप्रज्ञा भिषग्वर्या भवेद्धि सा ॥८८॥वेदवेदाङ्गतत्त्वज्ञा ध्यानहोमजपान्विता ।हिताशीर्वादवक्त्री स्याद् गुर्वी तथा च शिक्षिका ॥८९॥आचारज्ञा नियमज्ञा देशकालादिबोधिनी ।कुशला चतुरा स्याद्वै लेखिका पाठिका गुरुः ॥९०॥द्विजिह्वा क्लेशदा नारी तथोद्वेगकरी शठा ।क्रूरा च दारुणा या स्यात् साऽपकारकरी मता ॥९१॥दुष्टा स्त्री परिहर्तव्या विद्ययाऽलंकृताऽपि तु ।दुर्जनी च वधूस्तद्वत् त्यक्तव्या व्यवहारके ॥९२॥तुल्यार्थां तुल्यसामर्थ्यां मर्मज्ञां व्यवसायिनीम् ।शूरां प्रभावयुक्तां च योजयेद् राज्यकर्मसु ॥९३॥निरालस्या च सन्तुष्टा सुखदा प्रतिबोधिका ।सुखदुःखसमा धीरा भृत्या सर्वत्र दुर्लभा ॥९४॥क्षान्तिसत्यविहिना च क्रूरा शठा च निन्दिका ।दांभिकी गृध्नभावा च त्यक्तव्या भक्ष्यलुञ्चिका ॥९५॥गुणयुक्ता नियुञ्जीत गृहे राज्ये शुभे स्थले ।अगुणां मोक्षमार्गे च दास्ये युञ्जीत वा प्रियाम् ॥९६॥सतीभिः सततं रामा ह्यासीत सङ्गतौ तथा ।असतीभिर्न चासीत मैत्रीं नो विदधीत च ॥९७॥पण्डिताभिर्वनिताभिः सत्यव्रताभिरित्यपि ।बन्धनस्थापि तिष्ठेत न खलाभिः कदाचन ॥९८॥सावशेषाणि कार्याणि कर्तव्यानि वधूजनैः ।अपूर्णे तु परित्यक्ते हानिः स्वस्या प्रजायते ॥९९॥मक्षिकावन्मधु ग्राह्यं पत्युर्वध्वा सुयोषिता ।अवन्ध्यं दिवसं कुर्याद् भक्तिसेवादिभिः सदा ॥१००॥रागं त्यजेन्नीतिवर्ज्यं स्नेहं कुर्याद् वृषान्वितम् ।ज्ञानं कुर्यादनालस्यं या सा जयेज्जगत्त्रयम् ॥१०१॥पत्या न वै गृहं प्रोक्तं गृहिण्या गृहमेव यत् ।तस्माद् गृहं सदा रक्ष्यं स्वामिन्या प्रतिमा यथा ॥१०२॥कर्तव्यमेतन्नारिणां वधूनां सुज्ञयोषिताम् ।सर्वं मत्वा निजं सेव्यं वर्धनीयं विशेषतः ॥१०३॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वधूगीतायां सदाचारप्रदर्शनादिनिरूपणनामा द्वाचत्वारिंशोऽध्यायः ॥४२॥ N/A References : N/A Last Updated : May 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP