संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः २३६

द्वापरयुगसन्तानः - अध्यायः २३६

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं सप्तदशमहोत्सवम् ।
मम जन्मदिवसस्य चतुर्व्यूहः करिष्यति ॥१॥
वासुदेवस्तथासंकर्षणोऽनिरुद्ध इत्यपि ।
प्रद्युम्नश्चेति ते सर्वे तथेश्वरा महर्षयः ॥२॥
कुंकुमवापिकाक्षेत्रेऽक्षरे दिव्ये महायते ।
आगत्य श्वो निवत्स्यन्ति सन्नद्धाः सन्तु सेविका ॥३॥
ऊर्जकृष्णस्य सप्तम्यां चान्द्रे मासे तु नोदिताः ।
लक्ष्म्यः सर्वा ब्रह्मपत्न्यः समारम्भं प्रचक्रिरे ॥४॥
सभादेव्यः सभास्थानं सभास्थानानि यानि च ।
प्रचक्रिरे हि सहसा येषु सृष्ट्यभिबिम्बनम् ॥५॥
शृंगारदेविका दिव्यशृंगाराणि प्रचक्रिरे ।
धामदेव्यः प्रकाशानि वनदेव्यो वनानि च ॥६॥
उद्यानानि तरुदेव्यो माया दृश्यानि चक्रिरे ।
रसदेव्यो रसान् सर्वान् गन्धदेव्यः सुगन्धिनः ॥७॥
सरस्वत्यो गायनानि निशा स्वर्गं प्रचक्रिरे ।
अन्नपूर्णा गरिष्टानि मिष्टान्नानि प्रचक्रिरे ॥८॥
कल्पलताः पुष्पपत्रदलानि संप्रचक्रिरे ।
कल्पमणयो भूषाश्च वह्निः स्वर्णं प्रचक्रिरे ॥९॥
भूदेवी रम्यशय्याश्च वायुर्वै वाहनानि च ।
रसशालाः कमलाद्याः पानशालाश्च वारुणी ॥१०॥
ललिताश्रीमहालक्ष्मीर्दासिकाब्जाऽब्जमानयत् ।
विष्णुस्तु पार्षदान् मुक्तानानयन्निजसेवकान् ॥११॥
यज्ञनारायणो यज्ञमण्डपान् संव्यधाद् द्रुतम् ।
ओषधयः समिधश्चाऽऽनयन् सर्वविधा द्रुतम् ॥१२॥
गान्धर्वा गायकान् वाद्यसहितान् प्रसमानयन् ।
नर्तक्यश्चापि किन्नर्योऽप्सरसश्चाययुर्द्रुतम् ॥१३॥
मुक्तावतारा ईशेशा ईश्वराश्चाययुस्तदा ।
स्वागतार्थं महासेनापतयः शांकरादयः ॥१४॥
सोत्साहाश्च प्रतिजग्मुर्महर्षयः समाययुः ।
वासुदेवादयो व्यूहा नारायणास्तथाऽऽययुः ॥१५॥
रुद्रा अजाः सिद्धजना विष्णवस्तत्र चाययुः ।
ईश्वराण्यश्च मुक्तान्यः सर्वा रमाः समाययुः ॥१६॥
राधासख्यो रमासख्यो ब्राह्मीसख्यः समाययुः ।
वैराजाश्च हिरण्पुंसो मायातत्त्वानि चाययुः ॥१७॥
देवा देव्यः पितरश्च दिक्पाला लोकपालिनः ।
ऋषयो मानवा भक्ताः काश्यपाश्च समाययुः ॥१८॥
धार्मिकाः साधवः सत्यो ब्रह्मशीलाः समाययुः ।
ऋग्यजुःसामाऽथर्वाणस्तीर्थोत्तमानि चाययुः ॥१९॥
ईतिर्धृतिः शिवा शक्तिर्वेदपत्न्यः समाययुः ।
समुद्राः कृष्णपत्न्यश्च राधाद्याश्च समाययुः ॥२०॥
योगिन्यः शांकराः सर्वे गणाश्चापि समाययुः ।
नरनारायणाद्याश्च तापसास्तत्र चाययुः ॥२१॥
अरण्यानि वनान्येव भूगोलानि समाययुः ।
चैत्याश्च ऋतवः कालाः वत्सराद्याः समाययुः ॥२२॥
पुरुषोत्तममासोऽपि महाभेरीं निनादयन् ।
आययौ चाऽक्षरे क्षेत्रे सर्वकल्याणकृच्छुभः ॥२३॥
योगाः समाययुर्यज्ञा भक्तिपुत्राः समाययुः ।
विमानानां न पारोऽस्ति गजानां पक्षिणां तथा ॥२४॥
वाहनानां न पारोऽस्ति सूतमागधदेहिनाम् ।
बन्दीनां बहुरूपाणां मनोरञ्जनकारिणाम् ॥२५॥
ऊर्जसप्तमिकारात्रावाययुः सर्वदेहिनः ।
तेषां स्वागतमुत्कृष्टं देव्यो देवाः प्रचक्रिरे ॥२६॥
पार्षदाः साधवश्चापि ब्रह्मप्रियाः प्रचक्रिरे ।
पिता माता च भगिनी भ्रातरः संप्रचक्रिरे ॥२७॥
तथा समस्तशिष्याश्च स्वयमार्षाश्च ईश्वराः ।
लोमशाद्याः ऋषयश्च लालायनाद्याः साधवः ॥२८॥
स्वागतं भोजनं पानं प्रचक्रिरे ददुस्तथा ।
सर्वाः कामदुघा गावः पयांसि च ददुस्तदा ॥२९॥
सर्वा दास्योऽपि दासाश्च महीमानप्रसेवनम् ।
निशीथे चक्रिरे तत्र न्यूनं नाऽभूद्धि किंचन ॥३०॥
प्रातरुत्थाय च लक्ष्मि! चाऽहं कृष्णनरायणः ।
कृतस्नानः कृतशृंगारकः प्रियाभिरन्वितः ॥३१॥
मात्रा पित्रा वर्धितश्च सभायामगमं द्रुतम् ।
तदा वाद्यान्यवाद्यन्त वासुदेवादयस्तथा ॥३२॥
अवतारा ईश्वराश्च हीश्वराण्यस्तु सर्वशः ।
मुक्ताश्च गोपिका गोपा आययुर्मम मण्डपम् ॥३३॥
दिव्यसिंहासनस्थस्य कृत्वा मे पूजनं च ते ।
आरार्त्रिकं व्यधुः सर्वेऽक्षतकुंकुमचन्द्रकान् ॥३४॥
चक्रुश्चाशीर्वचनानि जगुर्विप्रा महर्षयः ।
धामकोट्यश्चेशकोट्यो देवर्षिपितृकोटयः ॥३५॥
तत्पत्न्यश्चाक्षतपुष्पैर्वर्धयामासुरेव माम् ।
मानवाः सर्वतीर्थानि तत्त्वानि वेदवेदिकाः ॥३६॥
सरस्वत्यः शारदाश्च लक्ष्म्यः सर्वा ममाऽर्हणम् ।
चक्रुः सर्वोपदा मे च ददुर्दिव्याः सभास्थले ॥३७॥
एवं मध्याह्नपर्यन्तं पूजनं बहुशोभनम् ।
जातं मे तत्र चायातं सर्वं दाने ददावहम् ॥३८॥
भोजनानि महीमानेभ्यश्च दत्तानि वै ततः ।
परिहारः कृतश्चापि दक्षिणाः प्रापिताः शुभाः ॥३९॥
पारितोषिकरूपाणि दत्तानि योग्यता यथा ।
रात्रौ वाद्यमहागीतिनृत्यरञ्जनकादिकम् ॥४०॥
अभवत्त्वर्धरात्र्यन्तं विरामश्च ततोऽभवत् ।
नवम्यां च महीमानाः पूजिता भोजितास्तथा ॥४१॥
सम्मानिताश्च प्रहिता ययुर्निजालयान् प्रति ।
एवं सप्तदशे वर्षारम्भदिनेऽष्टमीतिथौ ॥४२॥
कृष्णे चोर्जे मम जन्मजयन्त्युत्सविता रमे ।
भवतीनां यशश्चेदं त्रिसृष्टौ सम्प्रकाशते ॥४३॥
षोडशस्य तु वर्षस्य चमत्कारा ममाऽत्र वै ।
तृतीये द्वापरसन्तानके संवर्णिता मम ॥४४॥
अनादिश्रीकृष्णनारायणश्चाऽहं परेश्वरः ।
चरित्राणां विधाता च कर्ता वक्ता प्रलेखकः ॥४५॥
एतत्तृतीयखण्डस्य पारायणं करोति यः ।
तस्य सम्पद् विविधा स्याद् वंशो विस्तारवान् भवेत् ॥४६॥
सौवर्णे गरुडे धृत्वा दद्याद् द्वापरपुस्तकम् ।
तेन वै पृथिवीदानं दत्तं भवेन्न संशयः ॥४७॥
अस्य कथाक्षणे यद्यत् समर्प्यतेऽल्पकं ह्यपि ।
अनन्तगुणितं तत्स्यान्महास्वर्गप्रदं भवेत् ॥४८॥
गोदानं वाटिकादानं स्वर्णरत्नप्रदानकम् ।
कन्यादानं गृहदानं गजदानं मखेऽर्पणम् ॥४९॥
सर्वदानफलं त्वस्य दानेन सम्प्रजायते ।
विमानदानं नगरीदानं वनार्पणं तथा ॥५०॥
सर्वस्वाऽर्पणमेवाऽस्य दानेन सम्प्रजायते ।
ब्रह्मदानं वेददानं मोक्षदानमथोत्तमम् ॥५१॥
आत्मसमर्पणमस्य दानेन सम्प्रजायते ।
तरन्ति पितरश्चापि भवन्ति धामवासिनः ॥५२॥
साम्राज्याऽर्पणमेवाऽस्य दानेन सम्प्रजायते ।
रोगा विघ्नाः प्रणश्यन्ति दुरितानि ह्रसन्ति च ॥५३॥
दुर्भाग्यानि विनश्यन्ति द्वापरखण्डदानतः ।
सप्ताहं पाक्षिकं वापि मासिकं वा प्रवाचयेत् ॥५४॥
साधून् विप्रान् भोजयेच्च श्रोतॄन् वक्तॄन् यथाधनम् ।
साध्वी सतीर्भोजयेच्चाऽनाथान् दीनान् समस्ततः ॥५५॥
वाचकं वरयानेन भ्रामयेन्नगरे स्त्रियः ।
विप्राश्च भूभृतश्चापि श्रेष्ठिनश्च प्रजाजनाः ॥५६॥
कुमार्यः कलशैर्वारिभृतैश्च नारिकेलजैः ।
मौक्तिकैरासिनीभिश्च सुवेषैर्भ्रामयेत्तथा ॥५७॥
सुवासिन्यो गीतिकाभिरक्षतैः पुष्पकुंकुमैः ।
पूजयेद् वर्धयेच्चापि भ्रामयेन्नगरे तथा ॥५८॥
महादानानि दद्युश्च वाचकाय महात्मने ।
यथा साधुः प्रसन्नः स्यात्तत्तद्दद्युर्हि साधवे ॥५९॥
भुक्तिर्मुक्तिर्भवेदस्य श्रवणेन च दिव्यता ।
वासनानां प्रणाशश्च कल्मषाणां लयो भवेत् ॥६०॥
तापत्रयविनाशश्च शान्तिस्तु शाश्वती भवेत् ।
पुत्रं पुत्रीं समीहाना द्वापरखण्डदानकम् ॥६१॥
नूत्नवेष्टनसहितं स्वर्णमुद्रान्वितं चरेत् ।
शत्रुभीस्तेन नश्येद्वै राजभयं न जायते ॥६२॥
कारागारविमुक्तः स्यादस्य दानेन भावतः ।
असाध्यं साध्यमेवाऽपि भवेदस्य श्रुतेरिह ॥६३॥
सार्वज्ञ्यं बहुधा त्वस्य श्रवणेन प्रजायते ।
वल्लभार्यःकृष्णनारायणः स्वामी महाप्रभुः ॥६४॥
राधालक्ष्मीपतिः पद्मावतीश्रीमाणिकीपतिः ।
प्रज्ञामुक्तापतिर्नित्यं स्फुरेत् स्वहृदये श्रवात् ॥६५॥
साक्षान्मिलेद्धि वर्षान्ते शृणुयान्नित्यमेव तम् ।
मिलेद् रहसि विश्वात्मा स्वप्ने मिलेन्न संशयः ॥६६॥
आपत्काले रक्षयेच्च द्वापरखण्डसंस्मृतेः ।
लक्ष्मीनारायणसंहितेयं मे प्रतिमाऽस्ति हि ॥६७॥
खण्डोऽयं द्वापरसन्तानो मेऽस्त्युदरमान्तरम् ।
स्पृष्ट्वा ध्यात्वा सेवयित्वा मन्मूर्तिं लभतेऽक्षरे ॥६८॥
येषां यासां भवेद् वाञ्च्छा साक्षाद् योग्यस्य मे हृदि ।
तैस्ताभिश्च कथा श्रव्या जप्तव्यश्च मनुर्मम ॥६९॥
 'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।
आगत्याऽहं यथेष्टं वै सुखं दास्ये च दर्शनम् ॥७०॥
लक्षजपेन सिद्ध्येद्वै मन्त्रोऽयं मम नामवान् ।
दशांशहोमः कर्तव्यो भावनीयोऽमान्तरे ॥७१॥
कौस्तुभकिरीटयुक्तः सर्वभूषाविभूषितः ।
प्रसन्नवदनो लक्ष्मि कान्तः कन्दर्पसुन्दरः ॥७२॥
त्रैलोक्ये नास्ति तद्वस्तु यद्वस्तु न ददाम्यहम् ।
सृष्टित्रयेऽपि तन्नास्ति यन्न भक्ताय सन्ददे ॥७३॥
सिंहासनं तथाङ्कं च धामाऽक्षरं मदासनम् ।
ममैश्वर्याणि सर्वाणि ददामि मन्त्रजापिने ॥७४॥
एतल्लक्ष्मि हृदयं मे कृपा मेऽनुग्रहश्च मे ।
सर्वं यथेष्टं दास्ये वै तादात्म्यमन्त्रजापिने ॥७५॥
कल्पवृक्षाः कामदुघाः कल्पवल्ल्यश्च या मताः ।
कल्पस्तम्बास्तथा चिन्तामणयोऽक्षयपात्रिका ॥७६॥
पद्मचिह्नं चमत्काराः सिद्धयश्चापि सर्वशः ।
भवन्ति हृदये त्वस्य तादात्म्यमन्त्रजापिनः ॥७७॥
शृणोति द्वापरसन्तानकं जपति मन्मनुम् ।
शाश्वतं पुण्यमेवाऽस्य कल्पसिद्धिश्च शाश्वती ॥७८॥
अव्याहतगतिस्तस्य ह्यनावरणदर्शनम् ।
मन्त्रसिद्ध्या जायते वै मदिच्छया न संशयः ॥७९॥
देवत्वं वा मुनित्वं वा सिद्धत्वं चेशतां च वा ।
अवतारत्वमेवाऽपि द्वापरस्य श्रवाल्लभेत् ॥८०॥
भूमपदं शिवपदं हिरण्मयपदं तथा ।
महापुरुषधिष्ण्यं वा द्वापरस्य श्रवाल्लभेत् ॥८१॥
शृणुयाच्छ्रीकृष्णनारायणे कृत्वा मनःस्थिरम् ।
महोत्सवेन शृणुयाच्चतुःपुमर्थदं भवेत्। ॥८२॥
नित्यं फलानि धान्यानि वस्त्राणि भूषणानि च ।
नित्योपयोगिवस्तूनि दद्यात् संशृणुयात् कथाम् ॥८३॥
निन्दकानां भयं त्यक्त्वा नास्तिकानां भयं तथा ।
विरुद्धानां भयं त्यक्त्वा शृणुयाद्वै ममाऽऽश्रये ॥८४॥
यत्राऽहं तत्र विजयो यत्राऽहं तत्र चोत्सवाः ।
यत्राऽहं रक्षणं तत्र मच्छून्ये भयमस्ति हि ॥८५॥
श्रुत्वा श्रुत्वा रसवेत्त्र्यो भवन्तु बुद्धयो हि वः ।
अनादिश्रीकृष्णनारायणस्य मम गोचराः ॥८६॥
अध्यायं वाऽप्यैकपद्यं ये श्रोष्यन्ति समाहिताः ।
तेषां तासां तारकोऽहं कृष्णोऽस्मि भवसागरात् ॥८७॥
अपि पापा नीचदेहा नीचकर्माण एव वा ।
अनाचाराः सतां योगाद् यथा शुद्ध्यन्ति सर्वथा ॥८८॥
तथाऽस्य श्रवणात् पापाः प्रशुद्ध्यन्ति न संशयः ।
मद्योगान्निर्गुणाः सर्वे श्रोतारः संभवन्ति हि ॥८९॥
अत्र मानवरूपास्ते मुक्ता मुक्तानिका मताः ।
कथास्थानं त्वक्षरं मे धाम बोध्यं न मायिकम् ॥९०॥
वक्ताऽस्ति मम रूपोऽस्य वदाम्यहं न संशयः ।
श्लोके श्लोके मया लक्ष्मि कृपा प्रवर्षिता त्विह ॥९१॥
अपि मनाक् हरिं कान्तं प्रत्यभियान्ति भावतः ।
तान् प्रत्यहं शतगुणमभियामि प्रमोदितः ॥९२॥
कृतेषु सर्वयज्ञेषु यद्यापन्न व्यपोहति ।
स्मरेन्मां मम तादात्म्यमन्त्रं जपेन्मुहुर्मुहुः ॥९३॥
सर्वापदो विनश्यन्ति प्रतिज्ञेयं मयोदिता ।
एतद्द्वापरसन्तानखण्डश्रवणमानताम् ॥९४॥
कुर्याद्वा विपदां नाशः संकल्पकरणाद् भवेत् ।
एकतस्तु कथाः सर्वा एकतस्तु मनुर्मम ॥९५॥
मनुर्विशिष्यते लक्ष्मि कथायुक्तस्तु किं पुनः ।
शं वोऽस्तु श्रीकृष्णनारायणस्य करुणालवात् ॥९६॥
आचार्यः कम्भरापुत्रोऽस्तु शं गोपालनन्दनः ।
सन्तुष्टाऽनुजसौम्यश्रीप्रज्ञासार्वज्ञ्यसंभृतः ॥९७॥
सर्वज्ञः सर्ववित् सर्वान्तरात्मा सर्वकारणम् ।
शं वोऽस्तु श्वेतव्यासादिर्यावद्व्यासेश्वरो हरिः ॥९८॥
सर्वधर्माश्रयः सर्वाश्रमः सर्वार्थवर्णवान् ।
शं वोऽस्तु सर्वकक्षाढ्यः सर्वखनीश्वरोऽग्रगः ॥९९॥
यद्वासात् खलु सौराष्ट्रं सौराष्ट्रतां भजत्यति ।
सोऽहं सोऽयं साक्षपरोक्षकः शं वोऽस्तु शाश्वतम् ॥१००॥
आक्षरकुंकुमवापीक्षेत्रे लोमशसंश्रिते ।
देवदेवेश्वरः शं वो ब्रह्मेशोऽस्तु हरिः सदा ॥१०१॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्तानेऽनादिश्रीकृष्णनारायणस्य सप्तदशजन्मदिनजयन्त्युत्सवो द्वापरसन्तानकथाश्रवणदानमन्त्रजपमहिमा चेत्यादिनिरूपणनामा षट्त्रिंशदधिकद्विशततमोऽध्यायः ॥२३६॥

N/A

References : N/A
Last Updated : May 05, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP