संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः १८

द्वापरयुगसन्तानः - अध्यायः १८

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि! त्वं सत्कथां परमां मम ।
एकविंशे वेधसो वै वत्सरे वेदवत्सरे ॥१॥
कल्पेऽशीतितमे चापि मनौ द्वादशके पुरा ।
अभूद् भक्तः पुण्यरातो द्विजो भक्तिपरायणः ॥२॥
पत्नी तस्य राधनिकानाम्नी चाभूत् पतिव्रता ।
दम्पती चक्रतुर्नित्यं स्नानं ध्यानं ममाऽर्हणम् ॥३॥
भजनं चक्रतुश्चापि जपयज्ञं च संघशः ।
अखण्डनामधुन्यं च प्रचक्रतुः क्वचित्क्वचित् ॥४॥
लक्षतुलसिकापत्रैः पूजनं चक्रतुश्च मे ।
कार्तिके च मदर्थं वै व्रतान्युद्यापनानि च ॥५॥
नवान्नानां सुमिष्टानां नैवेद्यानि प्रचक्रतुः ।
माघे वासन्तिकं चाप्युत्सवं प्रचक्रतुस्तथा ॥६॥
पुष्पदोलोत्सवं चापि वैशाखस्य व्रतानि च ।
चातुर्मास्ये नियमाँश्च भक्तियुक्तान् प्रचक्रतुः ॥७॥
नित्यं प्रचक्रतुः साधुसाध्वीसेवां समुत्सुकौ ।
ताभ्यां साधुमुखादाकर्णितं कथाप्रसंगतः ॥८॥
अन्नदानात्परं दानं वस्त्रदानं प्रकीर्त्यते ।
वस्त्रदानात् परं दानं धनदानं प्रकीर्त्यते ॥९॥
धनदानात्परं दानं गोदानं सम्प्रकीर्त्यते ।
गोदानाच्च परं दानं कन्यादानं प्रकीर्त्यते ॥१०॥
कन्यादानात् परं दानं पुत्रदानं सुवंशकृत् ।
पुत्रदानात् परं दानं क्षेत्रदानं प्रकीर्त्यते ॥११॥
क्षेत्रदानात्परं दानमारोग्यस्य प्रदानकम् ।
आरोग्यदानतः श्रेष्ठं सवृत्तिगृहदानकम् ॥१२॥
सवृत्तिगृहदानाच्च पुण्यदानं परं मतम् ।
पुण्यदानाद्धर्मकर्मप्रदानं परमं मतम् ॥१३॥
धर्मकर्मप्रदानाच्च ज्ञानदानं सदाऽधिकम् ।
ज्ञानदानाद् भक्तिदानं सर्वेभ्यश्चातिरिच्यते ॥१४॥
भक्तिदानात् स्वर्गदानं शाश्वतानन्ददायकम् ।
श्रेष्ठं भक्तियुतं चेत्तत् ततोऽभयप्रदानकम् ॥१५॥
सर्वदानानि रम्याणि परलोकप्रदानि च ।
ब्रह्माण्डदानतुल्यानि यानि यानि च सन्ति वै ॥१६॥
जीवाऽभयप्रदानस्य नाऽर्हन्ति षोडशीं कलाम् ।
अभयं कालतो मायातश्चापि कर्मतस्तथा ॥१७॥
पापतो यमदूताश्च कुहृद्भ्यः शत्रुतस्तथा ।
वासनातश्च बन्धेभ्यो मुक्तिश्चाभयदानकम् ॥१८॥
अपुनरावृत्तिरूपा मुक्तिर्या साऽधिका ततः ।
सालोक्या तत्र वै श्रेष्ठा सार्ष्ट्याख्याऽतो गरीयसी ॥१९॥
सारूप्याख्या ततः श्रेष्ठतरा प्रोक्ता सुखान्विता ।
सामीप्याख्या सर्वश्रेष्ठतमा ततोऽपि वै तदा ॥२०॥
सायुज्याख्या चातिश्रेष्ठतमा यत्परमा न वै ।
विद्यतेऽन्याऽभयदानात्मिका मूर्द्धन्यशालिनी ॥२१॥
तस्मात् सर्वप्रदानेभ्योऽभयदानं विशिष्यते ।
अन्यैर्वै पूर्वकाले यद् यादृशं नाऽर्पितं कृतम् ॥२२॥
तादृशं दानमेवाऽत्र दातव्यं चाभयात्मकम् ।
इत्येवं च सतां वक्त्राछ्रुत्वा कथामृतं ततः ॥२३॥
पुण्यरातस्तथा पत्नी विचारं चक्रतुर्मुहुः ।
दानं ददत्यत्र लोके धनाढ्याश्च धनादिकम् ॥२४॥
आवाभ्यां तु प्रदातव्यं पूर्वं कैश्चिन्न यत् कृतम् ।
यादृशं न प्रदत्तं च तादृशं देयमेव नौ ॥२५॥
अथैवं तौ संविचार्य कुरुतो भक्तिदानकम् ।
ज्ञानं भक्तिं ददतश्च कुरुतश्च स्वयं सदा ॥२६॥
एवं यातेषु मासेषु वर्षेष्वपि च वै ततः ।
प्राणायामपरौ जातौ योगक्रियापरायणौ ॥२७॥
प्राणरोधसमर्थौ च समाधिस्थितिवर्तिनौ ।
तापसौ ब्रह्मपरमौ त्यक्तदेहसुखौ ततः ॥२८॥
विदेहौ जीवनमुक्तौ मायासंगविवर्जितौ ।
क्षपितबन्धकर्माणौ दग्धैषणौ च योगिनौ ॥२९॥
अन्येषामभयदानधर्ममात्रपरायणौ ।
विचारयन्तौ सततं कथं मोक्षाश्च देहिनाम् ॥३०॥
आत्यन्तिको भवेच्चात्र कर्तव्यं दानमेव तत् ।
अभीदानसमं दानं नान्यद् भवति वै ततः ॥३१॥
दातव्यं चाभयदानं सर्वजीवेभ्य एव ह ।
एकैकस्मै मोक्षदानं चोपदेशाद् भवेदिह ।
मन्त्रदानैः शतानां च सहस्राणां भवेदिह ॥३२॥
यत्नश्च बहुलस्तत्र साधनस्याऽवलम्बिनोः ।
आवयोर्वै भवेदेव तस्मात् साध्ये स्वयं हरौ ॥३३॥
यत्नः सम्यग विधातव्यः प्रापणीयः परेश्वरः ।
भूलोकस्थमनुष्याणां तत्सम्बन्धवतां तथा ॥३४॥
तिरश्चामपि मोक्षः स्यादेवमर्थ्यः परेश्वरः ।
युगे वा युगदशके मनौ वाऽन्यमनौ स्थिते ॥३५॥
प्रत्यक्षः श्रीहरिश्चायाद् दद्यान्मुक्तिं च शाश्वतीम् ।
सर्वेभ्यो मानवेभ्यश्च यथा यत्नस्तथाऽत्र वै ॥३६॥
देहेनाऽनेन कर्तव्यो महान् स्वल्पस्तु नैव ह ।
इत्यानिश्चित्य कमले तावुभौ भक्तिसंयुतौ ॥३७॥
मम मूर्तेः समीपस्थौ जग्रहतुर्व्रत दृढम् ।
'अद्याऽऽरभ्य जपयज्ञः कर्तव्यः श्रीहरेः शुभः ॥३८॥
रात्रिंदिवं व्योमवासं कृत्वा भुक्त्वैककालिकम् ।
फलं चैकविधं वारि पातव्यं चैकवारकम् ॥३९॥
यावद्धरिर्मिलेन्नैव कर्तव्यं तावदेव हि ।
शीलं व्रतं सदा रक्ष्यं वने वस्तव्यमेव च ॥४०॥
इत्येवं व्रतनियमं गृहीत्वा दम्पती हि तौ ।
युगादिदिनमारभ्य चक्रतुस्तप उत्तमम् ॥४१॥
देहस्य धारणे शक्तौ यथेष्टं त्यजनेऽपि च ।
कालस्य रोधने शक्तौ मृत्युञ्जयौ बभूवतुः ॥४२॥
अनिशं मां भजमानौ नारायणपरायणौ ।
बभूवतुः प्रियौ मेऽपि मम भक्तिपरायणौ ॥४३॥
मया त्वदृश्यरूपं च तद्रक्षार्थं सुदर्शनम् ।
स्थापितं तद्वने पार्श्वे कालादिभयनुत्तये ॥४४॥
दावानलोऽतिवृष्टिश्च झंझावातोऽतिशीतता ।
हिमवृष्टिश्च वा क्रूरप्राणिविघ्नादिकं सदा ॥४५॥
निवार्यते हि चक्रेण भक्तरक्षाकरेण मे ।
अधैर्यसंभृतोर्द्वयोर्युगचतुष्टयम् ॥४६॥
व्यतीतं च ततश्चाऽहं विप्ररूपो ययौ पुरः ।
भिक्षां देहीति मध्याह्नेऽवोचं तयोः समीपतः ॥४७॥
शीघ्रमुत्थाय विप्राय जलं फलं तथाऽऽसनम् ।
पाद्यं च मधुपर्कं च नमस्कारः क्षमापनम् ॥४८॥
नारायणः प्रसन्नोऽस्तु चेत्युक्त्वाऽर्पितमेव मे ।
लब्ध्वा मयोक्तौ तौ भक्तौ श्रेयो वामस्तु सर्वदा ॥४९॥
ओमित्युक्त्वाऽऽहतुर्मां तौ हि सर्वेषां देहिनामिह ।
श्रेयो यथा भवेत् श्रेष्ठमाशीर्वादान् प्रदेहि नौ ॥५०॥
मयोक्तं पापिनो जीवा भवन्ति वासनामयाः ।
तेषां श्रेयो भवेच्चापि तपोयोगसमाधिभिः ॥५१॥
बहुकालानुष्ठितैश्च नाल्पकालेन वै खलु ।
तावाहतुर्हरिश्चात्र नौ कदा वै मिलिष्यति ॥५२॥
सर्वमानवमोक्षार्थं कदा साक्षान्मिलिष्यति ।
सर्वदेहिप्रमोक्षार्थं कदा कृष्णो मिलिष्यति ॥५३॥
मया श्रुत्वा तदोक्तं वै वां हरिर्मिलितोऽस्ति वै ।
सर्वमानवमोक्षार्थमर्धमन्वन्तरे गते ॥५४॥
मिलिष्यति हरिः साक्षात्तपोभक्तिवलादिह ।
पूर्णे मन्वन्तरे याते तिरश्चामपि मुक्तये ॥५५॥
मिलिष्यति प्रभुश्चात्र यथाबुद्धि वदाम्यहम् ।
इत्याश्रुत्य सीमवाक्यं प्रहृष्टौ तावुभावपि ॥५६॥
पादयोः पतितौ मे च पुपूजतुः पुनः पुनः ।
नेमतुश्च मुहुः पादरजः स्म लिहतस्तदा ॥५७॥
अयं नारायणश्चेति विज्ञाय तौ समुत्सुको ।
दर्शनं निजरूपस्य देहीति वदतः स्म माम् ॥५८॥
अहं तदा प्रसन्नश्च ददौ दिव्यं स्वदर्शनम् ।
शंखचक्रगदापद्मधरं प्रसन्नतान्वितम् ॥५९॥
अनेककोटिचन्द्रभाननं चाभरणान्वितम् ।
पादसंवाहनं चक्रतुश्च विविधपूजनम् ॥६०॥
वरार्थं कथितौ तौ च प्रार्थयामासतुस्तदा ।
मानवानां क्षितिस्थानां तत्सम्बन्धवतां तथा ॥६१॥
प्राणिनां परमां मुक्तिमिच्छावो युगपत् प्रभो ।
वरं वराणां श्रेष्ठं तं सर्वाभयप्रदानकम् ॥६२॥
देहि नाथ कृपासिन्धो प्रसन्नो भव केशव ।
इतिनारायणीश्रि! प्रार्थयतां तौ वरं परम् ॥६३॥
मयोक्तौ भवतोर्मोक्षकरणार्थमहं त्विह ।
समायातोऽस्मि तूर्णं चागच्छतां वै मया सह ॥६४॥
आवाहतुः प्रभो मोक्षो नौ ते योगान्न संशयः ।
ज्ञात एव च जीवानां मानवानां तु मोक्षणम् ॥६५॥
विनाऽऽवां न प्रयास्यावो यथेष्टं कुरु वत्सले ।
हरिः प्राह तथेच्छाऽपि पूर्णा कालेन वै क्वचित् ॥६६॥
भविष्यति तपोभक्त्या यामि वां कुशलं भवेत् ।
इत्युक्त्वाऽहं तिरोभावं तूर्णं जगाम पद्मजे ॥६७॥
तौ प्रसन्नौ पूर्णकामौ वर्धमानप्रहर्षणौ ।
चक्रतुर्मम भक्तिं च स्मरन्तौ विप्ररूपिणम् ॥६८॥
नित्यं नवोत्साहवन्तौ चत्वारिंशद्युगावधिम् ।
चक्रतुश्च तपोभक्तिं तदाऽहं पुनराययौ ॥६९॥
शंखचक्रगदापद्मधरः श्रीभगवान् स्वयम् ।
तापसौ मम भक्तौ तु शुष्कदेहौ जगाद ह ॥७०॥
मनुष्यान् भूस्थितान् सर्वान् नीत्वा यातं ममाऽक्षरम् ।
एवं फलं तपसो वां प्रदातुं समुपागतः ॥७१॥
स्वीकुरुतं तपःसिद्धिं मनुष्याणां प्रमुक्तिदाम् ।
ततस्तौ मां प्रपूज्यैव संसेव्य परमादरात् ॥७२॥
आहतुर्भगवन्नत्र मनुष्याणां गृहे गृहे ।
गावोऽश्वाःकरिणश्चोष्ट्रा अजाश्चाश्वतरा मृगाः ॥७३॥
ऊरणाः श्वापदाश्चापि सिंहाश्च गवयादिकाः ।
ये ये वै पशवः सन्ति शुकाद्याः पक्षिणश्च ये ॥७४॥
सरीसृपाद्या ये चापि ये मनुष्योपयोगिनः ।
सर्वे ते मानवैः साकं मुक्तिमीयुस्तथा कुरु ॥७५॥
तान् विहाय मनुष्याणां मुक्तिं नेच्छाव एव ह ।
श्रुत्वाऽहं चाऽवदं ताभ्यां चिरेणैव भविष्यति ॥७६॥
ततस्तौ हर्षसम्पन्नौ जातौ कालावधिं गतौ ।
पूजां प्राप्य ततस्तूर्णमहमदृश्यतां ययौ ॥७७॥
अथ भक्तौ च तौ तद्वत् तपोभक्तिपरायणौ ।
अजायतां मयि स्निग्धौ जलान्नरहितौ ततः ॥७८॥
तपः पूर्णं तयोर्जातं भक्तिः पूर्णाऽभवत् तदा ।
तृणश्छन्नौ मृत्तिकाख्यौ तपसा जातविग्रहौ ॥७९॥
मन्वन्तरे गते काले मदर्थं तौ बभूवतुः ।
देहिनामुपकारार्थं मुक्त्यर्थं पशुदेहिनाम् ॥८०॥
अभीदानप्रदानार्थं त्यक्तसौख्यौ बभूवतुः ।
मम योगप्रदानार्थं जीवानां सर्वथा हि तौ ॥८१॥
पाषाणमृत्तिकाकल्पौ तपोभक्तौ बभूवतुः ।
ततोऽहं सहसा तत्र लक्ष्म्या च पार्षदैः सह ॥८२॥
सर्वपूजादिसामग्रीयुक्तो वै समुपाययौ ।
ईश्वराश्चाथ मुनयो देवाश्च ऋषयोऽपि च ॥८३॥
आययुः सर्वतीर्थानि तत्र स्थले नु मां तदा ।
दुन्दुभयश्च देवानामवाद्यन्त तदाऽम्बरे ॥८४॥
चन्दनानां सुवृष्टिश्चाऽमृतवृष्टिस्तदाऽभवत् ।
जयनादाश्च भूतानामभवन्परितोऽभितः ॥८५॥
विमानान्यप्यसंख्यान्यायातानि स्वर्गिणां तदा ।
मदिच्छया च मुक्तानां कोटयः समुपागताः ॥८६॥
कोटिकोटिविमानानि कोटिकोटीश्वरास्तथा ।
कोटिकोटिसुराश्चापि कोटिकोटिमहर्षयः ॥८७॥
अम्बरं सर्वथा व्याप्तमभवन् तद्विमानकैः ।
अनादिश्रीकृष्णनाराणोऽहं पुरुषोत्तमः ॥८८॥
अवतीर्य विमानाच्च ब्रह्मह्रदजलं स्थले ।
तयोस्तपसो भूमौ वै मृत्तिकायां निकुञ्जके ॥८९॥
अञ्जलिनाऽक्षिपं तत्र तावद् भूमेर्महानलः ।
दिव्यतेजोमयः प्राविरासीत् स्वर्गाधितैजसः ॥९०॥
तेजोमध्यः ततो जाता दिव्या तनुर्द्विजस्य ह ।
शंखचक्रगदापद्मधरा मूर्तिः सुशोभना ॥९१॥
आक्षरमुक्तसदृशी तत्पत्नी च तथाविधा ।
मुक्तानिकास्वरूपा चाऽभवत् तत्र रमादृशी ॥९२॥
उभौ मयाऽऽभाषितौ च क्षेमं मोक्षं सुखं प्रति ।
आहतुस्तौ कृपयैव पारं यातौ तवाऽऽश्रितौ ॥९३॥
मुक्तियोग्यौ समनुजैः सतत्सम्बन्धिदेहिभिः ।
पशुपक्ष्यादिभिः साकं जातौ चेदभिधारितौ ॥९४॥
तदा नारायणकृष्ण परमेश परात्पर ।
मुक्तिं देहि मनुः कालो व्यतीतो वचनात्तव ॥९५॥
अभीप्रदानकं देहि परमेश्वर माधव ।
विमानानि ह्यसंख्यानि समायातानि यानि च ॥९६॥
नमस्तेभ्यो भवताऽत्र सहितेभ्योऽपि कोटिधा ।
नमः समस्तभूतात्मन् परमेश नमोऽस्तु ते ॥९७॥
अक्षराधिपते चान्तर्यामिन् भक्तार्थपूरक ।
कुरु मुक्तिं देहिनां वै मदर्थितां तु सत्वरम् ॥९८॥
क्षमाऽपराधं भगवन् मनुकालेन वै मया ।
तपोभक्त्या निरुद्धस्त्वं सर्वेषां मोक्षहेतवे ॥९९॥
अपराधपरार्धानि मया कृतानि केशव ।
क्षान्त्वा धामानि सर्वान् वै देहिनो नय माधव ॥१००॥
यथायोग्यानि धामानि नय स्वतन्त्रकोऽसि यत् ।
नाऽऽग्रहो भगवन्मेऽत्र स्वर्गे सत्ये तथाऽक्षरे ॥१०१॥
इत्यर्थितं मम सर्वं विधेहि परमेश्वर ।
असंख्याऽभयदानेच्छा पूरिता स्वामिना त्वया ॥१०२॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसश्चैकविंशे वर्षे सर्वभूमिदेहिमोक्षार्थं तपस्यतो राधनिकापुण्यरातविप्रयोर्मन्वन्तरकाले गते वाञ्च्छापूरणार्थं
श्रीपुरुषोत्तमनारायणस्य सर्वेश्वरदेवादिसहितस्यसमागमनमित्यादिनिरूपणनामाऽष्टादशोऽध्यायः ॥१८॥

N/A

References : N/A
Last Updated : May 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP