संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः १२९

द्वापरयुगसन्तानः - अध्यायः १२९

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
शृणु लक्ष्मि वदाम्यत्र हेमहस्तिरथार्पणम् ।
यत्प्रदानाद् दिव्यपदं वैष्णवं लभते जनः ॥१॥
पुण्यदिनं समासाद्य मण्डपं कारयेच्छुभम् ।
वेदीं कुण्डं हव्यवस्तून्युपन्यसेच्च मण्डपे ॥२॥
आसनानि जलघटान् विप्रानाहूय तत्र च ।
तीर्थान्यावाहयेच्चापि तथा पुण्याहवाचनम् ॥३॥
मंगलानि समस्तानि गापयेद् यजमानकः ।
देवतावाहनं कुर्यात् पूजयेच्च यथाविधि ॥४॥
हेमहस्तिरथं पुष्पाकारं मण्यादिमण्डितम् ।
वलभीभिर्विचित्राभिः कारयेद् दशचक्रकम् ॥५॥
सध्वजं सवरूथं च सोपस्करं सुशोभनम् ।
छत्रचामररत्नाढ्यं वेत्रधरादिशोभितम् ॥६॥
चन्द्रदर्पणपूर्वस्थप्रभाशोभाविराजितम् ।
व्याघ्रचर्मणि शार्दूलचर्मणि स्थापयेत्तिलान् ॥७॥
तत्र रथं स्थापयेच्च देयवस्तूनि चापि वै ।
रथे नारायणं कृष्णं स्थापयेन्मां रमापतिम् ॥८॥
अवतारानीशनीश्च माणिक्यां दुःखहाश्रियम् ।
राधिकां च प्रभां पाशवतीं लक्ष्मी जयां रमाम् ॥९॥
ललितां कमलां पद्मां पद्मिनीं तुलसीं सतीम् ।
सावित्रीं कंभरां लीलां गायत्रीं मञ्जुलां भुवम् ॥१०॥
महालक्ष्मीं महाविष्णुं सरस्वतीं च माधवीम् ।
भार्गवीं सुगुणां हंसीं ब्रह्मविष्णुशिवाँस्तया ॥११॥
अनादिश्रीकृष्णनारायणंश्रीकृष्णमाधवम् ।
ब्रह्मप्रियाहरिप्रियान्वितं मां सेवितं न्यसेत् ॥१२॥
मुक्तान्मे पार्षदाँश्चापि स्थापयेत्तत्र वै रथे ।
सर्वायुधानि दिव्यानि दिव्यधान्यानि यानि च ॥१३॥
भाजनानि विचित्राणि चन्दनाऽक्षतदर्भकान् ।
जलकुंभान् रत्नयुक्तान् पञ्चपल्लवराजितान् ॥१४॥
दीपं चोपानहौ छत्रं दर्पणं पादुके तथा ।
शय्यां मञ्चं कलशं च वस्त्राणि विविधानि च ॥१५॥
फलान्यपि विचित्राणि भोज्ययोग्यान्नकानि च ।
धनानि स्वर्णरूप्याणि दानार्थं तत्र विन्यसेत् ॥१६॥
ध्वजं सगरुडं कुर्यात् कूबरं सविनायकम् ।
सवितानं सुहारालीसंशोभिताऽभिगर्भकम् ॥१७॥
षोडशघटसंयुक्तं षोडशगोभिरन्वितम् ।
षोडशहेममातंगैर्मुक्तादामविभूषितैः ॥१८॥
स्वर्णकूथकृतपृष्ठैः स्वर्णदन्तसुचक्रकैः ।
स्वर्णाऽम्बालिकपृष्ठैश्च पादभूषादिराजितैः ॥१९॥
क्वणद्धंटास्वरशोभैर्युक्तं कृत्वा रथं शुभम् ।
पूजयेच्छ्रीहरिं तत्रस्थितं मां देवतादिकान् ॥२०॥
प्रदक्षिणं च त्रिःकृत्वा नमस्कारादि वै चरेत् ।
स्तुतिं कुर्यात् कुसुमानामञ्जलिं विदधन् पुरः ॥२१॥
नमस्ते ब्रह्मरूपाय नारायणाश्रिताय च ।
सर्वेश्वरनिवासाय मुक्तकोटिमयाय च ॥२२॥
अक्षरब्रह्मरूपाय कोटिशक्तिश्रिताय ते ।
नमो ब्रह्मनिवासाय स्वर्गमोक्षात्मकाय च ॥२३॥
तव दानेन यज्ञानां तीर्थानां व्रतरूपिणाम् ।
शीलानां सर्वदानानां पुण्यं मे जायतामिह ॥२४॥
सर्वदेवमयस्त्वं वै सर्वयज्ञमयोऽप्यसि ।
सर्वलक्ष्मीजुष्टदेवनिवासोऽसि प्रपाहि माम् ॥२५॥
पुनीहि पापव्रातेभ्यो रक्ष संसारसागरात् ।
गतिं दानेन मे देहि स्वर्गीयां चाऽऽक्षरीं ततः ॥२६॥
यस्य पादौ प्रणमन्ति सुरेश्वरेश्वरेश्वराः ।
अवतारास्तथा मुक्तास्तेन जुष्टोऽसि वै जय ॥२७॥
अध्वपारप्रापकस्त्वं भवाटव्या हरिश्रितः ।
सम्पत्प्रदो भवानेव वर्तते भवयोगिनाम् ॥२८॥
पितॄणां तारकस्त्वं च वंशानां वर्धको ह्यसि ।
सुखानां योजकस्त्वं च कृष्णरथ! नमोऽस्तु ते ॥२९॥
इत्यभ्यर्थ्य चतुर्थं च कृत्वा प्रदक्षिणं नमेत् ।
हवनं चानले कुर्यादष्टोत्तरशतं हरौ ॥३०॥
ततो दानं चरेच्छ्रीमद्गुरवे साधवे ततः ।
अन्यदानानि दद्याच्च ह्युचितानि सते तदा ॥३१॥
विप्रेभ्यो भिक्षुकेभ्यश्च बालेभ्यः सद्भ्य इत्यपि ।
दद्याद् दानान्यनेकानि बालिकाभ्योऽम्बराणि च ॥३२॥
मिष्टान्नानि विचित्राणि दुग्धसाराणि यान्यपि ।
पात्राणि भोजनान्येव धान्यानि रूप्यकाणि च ॥३३॥
दद्याद् यथाधनं सर्वं गृहं शालां च वाटिकाम् ।
सहस्रपलनिर्माणो रथः साम्राज्यदो मतः ॥३४॥
लक्षस्वर्णकृतश्चैन्द्रपदप्रदोऽजभूप्रदः ।
दशपलादूर्ध्वमेव दत्तो ददाति सम्पदः ॥३५॥
नारायणे मयि न्यस्तो धाम ददाति चाक्षरम् ।
महासाधुजने न्यस्तो ददाति पदमैश्वरम् ॥३६॥
निर्गुणे मम भक्ते तु न्यस्तो ददाति मत्पदम् ।
एवं दत्वा दिवं भुक्त्वा दाताऽन्ते याति मत्पदम् ॥३७॥
श्रवणात्कीर्तनाच्चास्य स्मरणाच्छ्रावणात्तथा ।
अनुमोदकरणाच्च रथदानफलं लभेत् ॥३८॥
शृणु लक्ष्मि तथा चान्यन्महादानमनुत्तमम् ।
पञ्चलांगलकदानं पापहं सर्वपुण्यदम् ॥३९॥
पुण्यदिने यजमानो मण्डपं कारयेत्ततः ।
कुण्डं वेदीं चासनानि होमदानार्थकानि च ॥४०॥
वस्तूनि हीरकरत्नादीनि पूजार्थकानि च ।
चन्दनाक्षतपुष्पाणि सर्वोपकरणानि च ॥४१॥
मण्डपे स्थापयेत्तत्र जलकुंभान् सरत्नकान् ।
सदलान् सफलाँश्चापि पञ्च सौवर्णधातुजान् ॥४२॥
स्थापयेन्मण्डपे तत्र धान्यानि विविधानि च ।
यथाशक्ति च भोज्यान्नमिष्टान्नानि च सन्न्यसेत् ॥४३॥
वस्त्राऽऽभूषणद्रव्याणि दानार्थानि च सन्न्यसेत् ।
सारदारुमयान् पञ्च कारयित्वा हलान् शुभान् ॥४४॥
धुरयुक्तान् रज्जुनद्धान् सितासिताध्रशोभितान् ।
मुष्टिकृष्टियुतान् रम्यान् वृषभैः पुरुषैर्युतान् ॥४५॥
दण्डरश्म्यादियुक्ताँश्च काञ्चनान् राजताँश्च वा ।
पञ्चपलात् समारभ्याऽऽसहस्रादिपलावधि ॥४६॥
कारयित्वा हलानेवं वृषभान् दश तद्युजः ।
धुरन्धरान् कारयित्वा सर्वशृंगारशोभितान् ॥४७॥
रूप्यपादाग्रतिलकान् रक्तकौशेयझुल्लिकान् ।
मुक्ताहाराढ्यसत्कण्ठान् घुर्घुरादिविभूषणान् ॥४८॥
स्वर्णशृंगान् सुशोभाढ्यान् मण्डपे चाधिवासयेत् ।
शकटानि सुयोग्यानि यथाशक्ति प्रकारयेत् ॥४९॥
खर्वटं खेटकं ग्रामं क्षेत्रं च सस्यशालिनम् ।
गृहं रम्यं च वा वाटीं स्वर्णपात्रे प्रकारयेत् ॥५०॥
रक्षयेत्तत्र सान्निध्ये मण्डपे च ततः परम् ।
स्वस्तिपुण्याहवाचश्च वाचयेद् विप्रकोविदैः ॥५१॥
आवाहयेद्धरिं मां च कृष्णं कृषिकरं तथा ।
कार्ष्णीं राधां महालक्ष्मीमावाहयेच्च कर्षिणीम् ॥९२॥
अवताराँस्तथा मुक्तानीश्वरीर्देवताः सुरान् ।
धरण्यादित्यरुद्रादीन् लोकपालान् समाह्वयेत् ॥५३॥
समिद्भिस्तिलमिष्टैश्च फलैर्दलैश्च पायसैः ।
वह्नौ होमाँश्चरेदष्टोत्तरशतं स्मरँश्च माम् ॥५४॥
धरण्यादित्यरुद्रेभ्यः पायसं निर्वपेच्चरुम् ।
गुरुर्दद्यात्तथा तेभ्यः पालाशसमिधो घृतम् ॥५५॥
कृष्णतिलाः शर्कराश्च व्रीहीँश्चापि फलानि च ।
पृथ्वी साक्षान्महालक्ष्मीः सिता लक्ष्मीः प्रतुष्यति ॥५६॥
धरण्याः पुत्रिका देवी सिता पृथ्वीविदारिणी ।
दारिका पुत्रिका चापि गर्भं भित्त्वोत्थिता हि सा ॥५७॥
तस्यै देयं पायसं वै तुष्टये हवने तदा ।
होमोत्तरं विप्रदाम्पत्यं समाहूय पूजयेत्। ॥५८॥
दिव्याम्बरविभूषाद्यैर्हेमसूत्राऽङ्गुलीयकैः ।
साधुं साध्वीं पूजयेच्च यथोचितप्रदानकैः ॥५९॥
मण्डपेऽष्टादशधान्यान्यपि धेनुं पयस्विनीम् ।
शय्यां सोपस्करां चेक्षुदण्डादिशोभितां न्यसेत् ॥६०॥
हलान् प्रदक्षिणीकृत्य गृहीतकुसुमाञ्जलिः ।
प्रार्थयेत् परमात्मानं हलस्थं मां विदारिणम् ॥६१॥
सितासितायां सिताध्रे शिवश्चेषास्थितो हली ।
धुरे धर्मधरो विष्णू रज्ज्वां नारायणी प्रिया ॥६२॥
वृषभेषु धर्मदेवो भक्तिर्यष्ट्यां स्थिताऽस्ति च ।
सर्वत्र श्रीहरिश्चास्ते नमस्ते परमेश्वर ॥६३॥
सर्वदेवा घुराढ्ये च त्वय्यासते च ते नमः ।
भूवनस्पतिमूलानां रसज्ञां चिन्तये सिताम् ॥६४॥
कृष्णाय कृषिकाराय नमः श्रीहलधारिणे ।
हलात्मने ब्रह्मणे ते व्यापकाय नमो नमः ॥६५॥
दानेऽर्पितो भवानत्र पञ्चलाङ्गलरूपधृक् ।
स्वर्गं सत्यं महाराज्यं वैराज्यं भौममित्यपि ॥६६॥
देहि मे तत्फलात्माऽपि तथाऽन्ते मोक्षणं परम् ।
इत्येवमुक्त्वा नत्वा च मुखे पञ्चलांगलान् ॥६७॥
अर्पयेद् वृषभाद्युक्तानुपस्करणशोभितान् ।
अन्यान्यपि च दानानि दद्याद् भिक्षुजनेषु वै ॥६८॥
विप्रेभ्यश्च यथायोग्यमृत्विग्भ्यश्चार्पयेत्तथा ।
पञ्चलाङ्गलकृष्यर्हां पञ्चशतविघाटिकाम् ॥६९॥
भूमिं यद्वा न्यूनभागां सह दद्यात् सवाटिकाम् ।
स्वर्णभूमिं च वा दद्याद् गृहं दद्याद्धि शान्तये ॥७०॥
अन्नजलादिकं दद्याद् दाने यथाधनं तदा ।
भोजनानि ततस्तत्र कारयेद् द्विजयोगिनः ॥७१॥
साध्वीसाधुबालबालाऽपांगान्धाद्यबलाजनान् ।
एवं दद्याद् यथाशक्तिदानं पापविनाशकम् ॥७२॥
स्वर्गदं स्याद् राज्यदं स्यात् परमेष्ठिपदप्रदम् ।
भूमौ यावन्ति सस्यानि तावद्युगानि वै दिवि ॥७३॥
मोदते सकुटुम्बश्च ततो याति हरेः पदम् ।
पितॄणामुद्धरणं च भवत्येव न संशयः ॥७४॥
पञ्चलाङ्गलदानेन पुण्यं वै पञ्चकल्पजम् ।
जायते तेन वै स्वर्गे मुहुर्दिवस्पतिर्भवेत् ॥७५॥
गोभूमिहलवृषभार्पको वैकुण्ठमाप्नुयात् ।
पठनाच्छ्रवणादस्य तादृशं फलमाप्नुयात् ॥७६॥
अथ लक्ष्मि धराद्वीपमहादानं वदामि ते ।
पापघ्नं पुण्यदं चाप्यमांगल्यनाशकं सुखम् ॥७७॥
पुण्यदिनं समासाद्य मण्डपं कारयेच्छुभम् ।
कुण्डं वेदीं कारयेच्च स्थापयेज्जलभृद्घटान् ॥७८॥
सरत्नपल्लववस्त्रान् अष्टसौवर्णकारितान् ।
दानयोग्यानि वस्तूनि होमयोग्यानि यानि च ॥७९॥
पूजायोग्यानि सर्वाणि सर्वधान्यानि सन्न्यसेत् ।
हैमीं क्षितिं जम्बुद्वीपात्मिकां सीमाद्रिशोभिताम् ॥८०॥
मध्ये मेरुयुतां रम्यां नवखण्डसमन्विताम् ।
सागरैर्वेष्टितां चान्ते नदीनदसरोऽन्विताम् ॥८१॥
सर्वरत्नखनियुक्तां वाराहदेवपार्श्वगाम् ।
हेम्नः पलसहस्रेण तदर्धेन तदंशकैः ॥८२॥
पञ्चपलैरूर्ध्वमेव कारयित्वा न्यसेद्धि ताम् ।
मध्ये मां श्रीहरिं तत्र स्थापयेच्छ्रीरमापतिम् ॥८३॥
अवतारान्मम मुक्तान् मुक्तानिका न्यसेत्तथा ।
ब्रह्मप्रियाः समस्ताश्च हरिप्रियास्तथाऽबलाः ॥८४॥
ईश्वरानीश्वराणीश्च देवान्देवीः ऋषींस्तथा ।
महालक्ष्मीं श्रीगोपालकृष्णं कुंकुमवापिकाम् ॥८५॥
अश्वपट्टसरश्चापि मन्दिरं मे शुभं तथा ।
लोमशस्याश्रमं चापि कारयित्वा न्यसेत्तथा ॥८६॥
भूषाच्छादनवस्त्राणि धनानि विविधानि च ।
भोज्यान्नदानयोग्यानि स्थापयेत्तत्र मण्डपे ॥८७॥
सिंहचर्म न्यसेत्तत्र मृगचर्म न्यसेच्च वा ।
तिलेषु तत्र धान्यानि रसाँश्च शर्कराः शुभाः ॥८८॥
फलान्यपि न्यसेच्चापि कौशेयं च वितानकम् ।
आवाहयेल्लोकपालान् दिशां पालान् सुरेश्वरान् ॥८९॥
अधिवासनमाकुर्याच्छुक्लाम्बरधरः शुचिः ।
प्रदक्षिणं क्षितेः कृत्वा गृहीतकुसुमाञ्जलिः ॥९०॥
पूजयेत्प्रार्थयेच्चापि भावनाभावितान्तरः ।
नमस्ते सर्वलोकात्मन् क्षित्यात्मन् भगवन् हरे ॥९१॥
त्वं क्षितिस्त्वं धरित्री त्वं धात्री पाहि वसुन्धरे ।
वसुमत्यै नमस्तेऽत्र वसून् देहि च मे सदा ॥९२॥
अनन्तशेषमूर्द्धस्थाऽनन्तायै ते नमो नमः ।
त्वं लक्ष्मीस्त्वं महालक्ष्मीः सन्तुष्टा त्वं नरायणी ॥१३॥
गायत्री त्वं शिवा त्वं च माणिक्या त्वं ममान्तिके ।
दुःखहा त्वं च लोकानां गर्भधात्री च पाहि माम् ॥९४॥
त्वं ज्योत्स्ना त्वं प्रभा बुद्धिर्मेधा विश्वंभरा सती ।
धृतिः स्थितिः क्षमा क्षौणिः पृथ्वी रसा च जन्मदा ॥९५॥
पाहि स्वर्गं महद्राज्यं देहि मे शाश्वतं पदम् ।
पितॄन्मोक्षगतान्सर्वान् विधेहि चार्पिता सती ॥९६॥
एवं नत्वाऽर्पयेत् क्ष्मां तां सौवर्णां गुरवे सते ।
विप्रेभ्योऽर्धां प्रदद्याद् वा रत्नान्यन्यापि चपि वै ॥९७॥
भोजयेदथ भिक्षूँश्च सतीः साधून् समागतान् ।
दद्याद् दानानि धान्यानि वस्त्राणि च फलानि च ॥९८॥
होमं प्रकारयेदष्टोत्तरशतं सुखप्रदम् ।
पापं नश्यति तेनैव पुण्यं दानेन लभ्यते ॥९९॥
सम्पद्ं वैष्णवीं याति धरादानप्रदः पुमान् ।
विमानेनाऽर्कवर्णेन पित्रुद्धारसमन्वितः ॥१००॥
प्रयाति श्रीपुरं नारायणपुरं च शाश्वतम् ।
पठनाच्छ्रवणाच्चास्य मुक्तदेहोऽभिजायते ॥१०१॥
वैराजराज्यं भुक्त्वा च याति धामाऽक्षरं मम ।
एवं ते कथितं लक्ष्मि महादानं धरात्मकम् ॥१०२॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने हेमहस्तिरथमहादानपञ्चलांगलकमहादानहेमधरामहादाननिरूपणनामा नवविंशत्यधिकशततमोऽध्यायः ॥१२९॥

N/A

References : N/A
Last Updated : May 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP