संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १५५ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १५५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १५५ Translation - भाषांतर श्रीनारायणीश्रीरुवाच-मनवो ये भवतोक्ताः किमेशा लोकपूजिताः ।चतुर्दशेति तेषां चोत्पत्तिं कृष्ण वदात्र मे ॥१॥श्रीपुरुषोत्तम उवाच-मनवो वै मदंशास्ते कल्पे कल्पे चतुर्दश ।भवन्ति सर्वराज्येशा धर्मप्रवर्तका अपि ॥२॥न्यायप्रवर्तकाश्चापि चतुर्दशस्तराधिपाः ।मयैव कल्पिताः सर्वे वर्तन्ते निजकर्मसु ॥३॥स्वायंभुवः स्वारोचिष औत्तमस्तामसस्तथा ।रैवतश्चाक्षुषश्चापि वैवस्वतस्तु सप्तमः ॥४॥सावर्णिर्दक्षसावर्णिर्ब्रह्मसावर्णिरित्यपि ।धर्मसावर्णिश्च रुद्रसावर्णिर्द्वादशः स्मृतः ॥५॥देवसावर्णिस्तथेन्द्रसावर्णिवैं चतुर्दशः ।प्रत्येकस्य मनोरायुः साधिकास्त्वेकसप्ततिः ॥६॥चतुर्दशमनूनां तु सहस्रसाधिका स्थितिः ।सहस्रसाधिकाश्चापि दिनमेकं तु वेधसः ॥७॥सहस्रसाधिकाश्चान्या रात्रिरेका च वेधसः ।साधिकाद्वयसाहस्रान्ते प्रातः सृष्टिदानवा ॥८॥पातालात् स्वर्गपर्यन्ता दशलोकात्मिकी भवेत् ।पूर्वे बहुसभा देवनद्यास्तटे तु वैष्णवम् ॥९॥यागं चकार धर्मात्मा धर्मतपा महानृषिः ।नाम्ना धर्मतपास्तस्य प्रसन्नोऽहं नरायणः ॥१०॥वरदानं ददौ तस्य वाञ्च्छानुसारमुत्तमम् ।प्रवृत्तावपि निवृत्तिं वाञ्छितां तेन शोभनाम् ॥११॥मया तपःफलं यज्ञफलं मन्वन्तरस्थलम् ।प्रथमं दत्तमस्मै वै सोऽयं स्वायंभुवोऽभवत् ॥१२॥ब्रह्मणो मानसः पुत्रः प्रजापालनतत्परः ।शतरूपां सतीं नारीं पत्नीत्वे जगृहे स च ॥१३॥प्रियव्रतोत्तानपादौ तयोः पुत्रौ बभूवतुः ।अथ विप्रो वारणाख्यो वरणासरितस्तटे ॥१४॥तस्य बुद्धिरियं त्वासीद् द्रक्ष्याम्यहं वसुन्धराम् ।तावत्तस्य गृहे साधुर्व्योमगोऽतिथिराययौ ॥१५॥नाम्ना खाखपदस्तस्मै भोजनं प्रददौ द्विजः ।यात्रार्थं च मनश्चक्रे तदा साधुरुवाच तम् ॥१६॥मन्त्रौषधीलिप्तपादो भूत्वा विहर गोलकम् ।इत्युक्त्वा पिष्टमेवास्यौषधं पादद्वये ददौ ॥१७॥सहस्रं योजनानां हि दिनार्धेनाम्बरे द्विजः ।ययौ तुषारभूम्यद्रौ जलपृथ्व्यामवातरत् ॥१८॥क्षालितोऽभूत्पादलेपः परमौषधिकोद्भवः ।गन्तुं चाकाशमार्गेणाऽसमर्थो भूतले स्थितः ॥१९॥तं ददर्शाऽप्सरोवर्या वरूथिनीतिनामतः ।मुमोह चिन्तयामास सेवां कर्तुं हृदन्तरे ॥२०॥पुरो गत्वा चातिभक्त्या धर्मेण च व्रतेन च ।शीलेनापि सतीरीत्या सेवयामास तं हि सा ॥२१॥द्विजस्तुष्टो वरदानं ददौ तस्यै प्रजावती ।भव पुत्रवती पौत्रवती त्रैलोक्यपूजिता ॥२२॥इत्याशिषं प्रदत्वैव द्विजः सस्मार मां तथा ।वह्निं प्राह प्रणिपत्य गार्हपत्यमुपांशुना ॥२३॥ब्रह्मरूपः कृष्णरूपो रक्षको भव चानल ।यथाऽहमद्य स्वं गेहं पश्येयं सति भास्करे ॥२४॥यथा वै साधवः सन्तश्चाभ्यागताः प्रसेविताः ।यथा च वैदिकं कर्म स्वकाले नोज्झितं मया ॥२५॥यथा च न परद्रव्ये परदारासु मे मतिः ।यया नारायणो नित्यं पूजितः परमेश्वरः ॥२६॥तेन सत्येन मां वह्ने स्वं गृहं प्रापयाऽथ वै ।एवं तु वदतस्तस्य गार्हपत्यानलः स्वयम् ॥२७॥आययौ पुरतो मेषात्मकः पक्षान्वितस्ततः ।द्विजश्चारुह्य तत्पृष्ठे प्राप नैजं गृहं द्रुतम् ॥२८॥वरूथिन्यपि तं विप्रं नत्वाऽऽशीर्वादसंयुता ।प्राप दिव्यं सुगन्धर्वं देवकेलिं तु नामतः ॥२९॥तस्माद् गर्भं दधाराऽपि विप्राशीर्वादवर्चसम् ।जज्ञे स बालो द्युतिमान् ज्वलन्निव विभावसुः ॥३०॥स्वरोचिभिर्यतो भाति स्वरोचिर्नामतोऽभवत् ।स्वरोचिश्च विमानेनाऽम्बरे विनिर्जगाम ह ॥३१॥मनोरमा सरिद् याऽभूत् कन्यकेन्दीवरस्य वै ।गन्धर्वस्य पुरा देवी वैष्णवी तपसाऽभवत् ॥३२॥साप्तसारस्वते क्षेत्रे सरस्वती मनोरमा ।सरयूसंगमा साध्वी चकमे सा स्वरोचिषम् ॥३३॥प्रार्थयामास पत्न्यर्थं धर्मेण विनयेन तम् ।पतिं कृत्वा तेन साकं तद्गृहं प्रययौ सरित् ॥३४॥तया साकं विमानेन वनेषूपवनेषु च ।विचरन्नैकदाऽरण्ये मृगीं ददर्श शोभनाम् ॥३५॥दिव्यां दिव्यगुणोपेतां निर्भयां निश्चलस्थिताम् ।समीपे चागतां तां च पस्पर्श दक्षपाणिना ॥३६॥मृगी सा तु तिरोभूय जाता दिव्या हि देवता ।ततः स विस्मयाविष्टः का त्वमित्यभ्यभाषत ॥३७॥सा चाऽस्मै कथयामास वनस्याऽस्याऽस्मि देवता ।अहं च प्रार्थिता देवैः प्रेषिता त्वां प्रति स्थिता ॥३८॥उत्पादनीयो हि मनुस्त्वया मयि महामते ।इत्युक्तः स्वरोचिरेव जग्राह तां निजप्रियाम् ॥३९॥तस्यां च जनयामास पुत्रं तेजस्विनं तदा ।तत्क्षणाज्जातमात्रस्य देववाद्यानि सस्वनुः ॥४०॥जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ।पिता बालस्य स्वनाम्ना नाम स्वारोचिषं व्यधात् ॥४१॥स्वारोचिषो मनुर्लक्ष्मि भविता द्वितीयो मनुः ।पद्मिनी नाम या विद्या लक्ष्मीर्यस्यास्तु देवता ॥४२॥यदाधाराश्च निधयस्तामध्यगात् समस्ततः ।यया तु ज्ञायते भूमौ पद्मादिनिधयः स्फुटाः ॥४३॥देवतानां प्रसादेन साधुसंसेवनेन च ।निधिभिश्चार्पितं वित्तं मानुष्येऽपि विवर्धते ॥४४॥पद्मश्चापि महापद्मो मकरः कच्छपस्तथा ।मुकुन्दो नन्दकश्चापि नीलः शंखश्च ते मनोः ॥४५॥गृहे एवाऽभवन्नित्यं सर्वेच्छापरिपूरकाः ।द्रव्यं रत्नानि शस्त्राणि रसा वाद्यं च धातवः ॥४६॥धान्यानि भोगशृंगारा मनोर्दिव्याः सदाऽभवन् ।अथ लक्ष्मि मनुं चापि तृतीयं शृणु शोभनम् ॥४७॥उत्तानपादपुत्रोऽभूदुत्तमो नाम नामतः ।सुरुच्यास्तनयः ख्यातो बभौ भानुपराक्रमः ॥४८॥बाभ्रव्यां बहुलां नाम चोपयेमे स धर्मवित् ।विष्णुभक्तिपरः सोऽपि तया साकं तु संययौ ॥४९॥शेषनारायणं द्रष्टुं पुपूज श्रीनरायणम् ।शेषं चापि पुपूजाऽसौ शेषपुत्रीं पुपूज ह ॥५०॥ददावाभूषणान्यस्यै कल्याण्यै सा तुतोष ह ।कल्याणी शेषपुत्री च ददावाशीर्वचः शुभम् ॥५१॥तव पुत्रो महावीर्यो पत्न्यामस्यां भविष्यति ।मन्वन्तरेश्वरो धीमानव्याहतसुचक्रकः ।२२॥ततो राज्ञोऽभवत् काले प्राप्ते पुत्रोत्तमः सुतः ।देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात ह ॥१३॥औत्तमश्चेति मुनयो नाम चक्रुः समागताः ।उत्तमस्य सुतः सोऽयं नाम्ना ख्यातः सदौत्तमः ॥५४॥मनुत्वे स्थापयिष्यन्ति तमेनमृषयः सुराः ।अथ लक्ष्मि चतुर्थं तु मनुं वक्ष्यामि तं शृणु ॥५५॥राजाऽभूद् भुवि विख्यातः स्वराष्ट्रो नाम वीर्यवान् ।तपस्तेपे बहुकालं वितस्तापुलिने हि सः ॥९६॥तस्य भार्या सती राज्ञी योगिनी रूपधारिणी ।मृगी भूत्वा वने चास्ते नित्यं राज्ञस्तु सन्निधौ ॥५७॥ब्रह्मचर्यपरो राजा शुश्राव व्योमशारदाम् ।राजँस्तपोबलेनाऽस्यामुत्पलायां स्त्रियां तव ॥५६८॥पुत्रो दिव्यो हि भविता मनुर्नाम्ना हि तामसः ।ततश्चाऽस्यै देहि बीजं लोकोपकारकारणात् ॥५९॥श्रुत्वैवं च ऋतुमत्यै चोत्पलायै नृपो ददौ ।संगमं स्पर्शमात्रं वै गर्भमापोत्पलावती ॥६०॥ततः सा सुषुवे पुत्रं मृगीदेहोत्पलावती ।ततस्तस्यर्षयः सर्वे समेत्य कानने तदा ॥६१॥अवेक्ष्य मातरं तां तु तामसीं हरिणीं खलु ।तामसोऽयं भवत्वेव नाम्ना मनुश्चतुर्थकः ॥६२॥सोऽयं पुत्रोऽपि सहसा समाराध्य हि भास्करम् ।अवाप्य दिव्यान्यस्त्राणि ससंहाराण्यशेषतः ॥६३॥राजिष्यते मनुर्भूत्वा तामसाख्यो मनुः रमे! ।अथ लक्ष्मि मनुं चापि पञ्चमं शृणु वच्मि ते ॥६४॥ऋषिरासीन्महाभागः ऋतवागिति नामतः ।रेवत्यन्तेऽभवत्तस्य दुर्भाग्यो रोगवर्धनः ॥६५॥पुत्रो तेनापि ऋषिराड् दीर्घरोगमवाप ह ।ऋतवाग् रेवतीं प्राह तव योगेन मे सुतः ॥६६॥दुःशीलो रोगदा जातः पतस्वाऽऽशु हि रेवति! ।तेनैवं व्याहृते शापे रेवत्यृक्षं पपात ह ॥६७॥सौराष्ट्रे कुमुदाद्रौ वै वस्त्रापथे मम स्थले ।कुमुदाद्रिश्च तत्पातात् ख्यातो रैवतकोऽभवत् ॥६८॥रैवताद्रौ रेवती सा कन्या जाता सरोवरे ।प्रमुचो नाम मुनिराट् कन्यां चाश्रमसन्निधौ ॥६९॥नवोत्पन्नां हि जग्राह पोषयामास पुत्रिकाम् ।अथ कालान्तरे तत्र दुर्गमो नाम भूपतिः ॥७०॥आययौ चाह्वयामास प्रियां चेति हि रेवतीम् ।प्रमुचो निजपुत्रीं तां दुर्गमाय ददौ तदा ॥७१॥तत्र तपःप्रभावेण रेवत्यृक्षं यथाऽम्बरे ।सोमयोगि व्यधात् प्राग्वज्जामातरमथाऽब्रवीत् ॥७२॥औद्वाहिकं ते भूपाल कथ्यतां किं ददाम्यहम् ।राजाऽऽहर्षे प्रसादात्ते मनुं पुत्रं वृणोम्यहम् ॥७३॥ऋषिः प्राह तथाऽस्त्वेवं मनुस्ते तनयो भवेत् ।तामादाय ययौ राजा चाश्वपट्टसरोवरम् ॥७४॥स्नात्वा मां संप्रपूज्यैव नत्वा च लोमशं मुनिम् ।दुर्गमो दुर्गनगरं ययौ गंगावतीतटे ॥७५॥ततश्चाऽजायत पुत्रो रेवत्यां रैवतो मनुः ।कल्पान्तरे सूर्यपुत्रो रेवन्तोऽपि भविष्यति ॥७६॥एवं लक्ष्मि रैवतोऽयं भविता पञ्चमो मनुः ।कथितस्ते ततः षष्ठं मनुं शृणु वदाम्यहम् ॥७७॥पूर्वजन्मनि जातोऽसौ चक्षुषः परमेष्ठिनः ।चाक्षुषत्वमतस्तस्य जन्मन्यस्मिन्नपि प्रिये ॥७८॥जातिस्मरः स जातोऽत्र मातुरुत्संगमास्थितः ।अवनीन्द्रक्षत्रियस्य गिरिभद्राख्ययोषितः ॥७९॥गिरिभद्राशयनात्तमाददे जातहारिणी ।राज्ञो विक्रान्तनाम्नश्च हैमिनियोषितो गृहे ॥८०॥न्यस्य तं तत्रजन्मानं बालं चादाय निर्ययौ ।राजबालं बोधविप्रगृहे न्यस्य तदर्भकम् ॥८१॥विप्रबालं जहाराऽपि भक्षयामास राक्षसी ।एवं राजगृहे राज्ञीपर्यंके वर्धितोऽपि सः ॥८२॥आनन्दनाम्ना विख्यातोऽभवत्तथोऽर्थमानसः ।तपस्तेपे चातितीव्रं ब्रह्मा त्वागत्य सन्निधौ ॥८३॥चाक्षुषेत्याह तं ब्रह्मा तपसो विनिवर्तयन् ।मनुं षष्ठं व्यधात् सोऽयं भविता षष्ठको मनुः ॥८४॥अथ लक्ष्मि सप्तकं ते मनुं वदामि संशृणु ।सूर्यभार्या विश्वकर्मसुता संज्ञेति विश्रुता ॥८५॥वैवस्वतं शुभं पुत्रं तस्यामजनयत् रविः ।वैवस्वतो ह्ययं लक्ष्मि भविता सप्तमो मनुः ॥८६॥पूर्वसवर्णजातत्वात् सावर्णिरिति विश्रुतः ।अथाऽष्टमं मनुं वच्मि शृणु नारायणि प्रिये ॥८७॥स्वारोचिषेऽन्तरे पूर्वे राजाऽभूत् सुरथाभिधः ।जगाम स वनं दुःखी शत्रुभिः समरे जितः ॥८८॥अथाऽऽययौ तत्र दुःखी वैश्यः समाधिनामकः ।राजा तं दुःखितं दृष्ट्वा पप्रच्छ किन्नु शोचसि ॥८९॥उवाच नृपतिं वैश्यस्तव राज्येऽभवं सुखी ।पुत्रदारैर्निरस्तोऽध धनलोभादसाधुभिः ॥९०॥विहीनश्च धनैर्दारैः पुत्रैरादाय मे धनम् ।वयमभ्यागतो दुःखी निरस्तश्चाप्तबन्धुभिः ॥९१॥सोऽहं न वेद्मि पुत्राणां कुशलाकुशलास्थितिम् ।नारीणां स्वजनानां 'च कन्यानां च कुटुम्बिनाम् ॥९२॥किन्नु तेषां गृहे क्षेममक्षेमं किन्नु साम्प्रतम् ।कथन्ते किन्नु सद्वृत्ता दुर्वृत्ताः किन्नु मे सुताः ॥९२॥राजा प्राह निरस्तो यैर्भवान् दारसुतादिभिः ।तेषु किं भवतः स्नेहमनुबध्नाति मानसम् ॥९४॥वैश्य आह एवमेतत् तथापि दुःखदं मनः ।किं करोमि हि मायापि मनस्तेषु प्रधावति ॥९५॥यैः सन्त्यज्य पितृस्नेहं धनलुब्धैर्निराकृतः ।पतिस्वजनहार्दं च हार्दितेष्वपि मे मनः ॥९६॥जानामि विपरीताँस्तान् जानन्नपि त्यजामि न ।यत्प्रेमप्रवणं चित्तं विगुणेष्वपि बन्धुषु ॥९७॥तेषां कृते मे निःश्वासा दौर्मनस्यं च जायते ।करोमि किं यन्न मनस्तेष्वप्रीतिषु निष्ठुरम् ॥९८॥दिवान्धाः प्राणिनः केचिद् रात्रावन्धास्तथाऽपरे ।केचिद्दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टयः ॥९९॥ज्ञानवन्तोऽपि जायन्ते मोहान्धा दुःखदुःखिनः ।निःस्वार्थाः पशवश्चापि पक्षिणोऽपि तथाविधाः ॥१००॥क्लिश्यन्ति दारपुत्रार्थं तुल्या मृगाश्च मानवाः ।मायया ममतागर्ते मोहावर्त्ते भ्रमन्ति वै ॥१०१॥सैषा तु विष्णुभक्तानां वरदा मुक्तये मता ।सा विद्या परमा मुक्तेर्हेतुभूता सनातनी ॥१०२॥संसारबन्धहेतुः सा ह्यभक्तानां विमोहिनी ।नित्या सा जगदम्बा वै जगदात्मा भविष्यति ॥१०३॥योगनिद्रात्मिका चापि विष्णुक्षेत्रे प्रवर्तते ।तपसा साध्यते माया मोक्षदात्री भवत्यपि ॥१०४॥इत्येवं नृप वैश्यौ तौ सह वै ज्ञानकारिणौ ।तेपतुर्वै तपस्तीव्रं लक्ष्मीं स्मृत्वा नरायणम् ॥१०५॥दर्शनं च ददौ ताभ्यां लक्ष्मीर्नारायणान्विता ।वरदानं ददौ राज्ञे मृत्वा जन्म लभिष्यसि ॥१०६॥सूर्यात् सावर्णिको नाम मनुर्भवान् भविष्यसि ।वैश्योऽयं ज्ञानवान् सम्पत्सुखवाँश्च भविष्यति ॥१०७॥इति दत्वा तयोर्लक्ष्मीर्यथाभिलषितं वरम् ।बभूवान्तर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता ॥१०८॥एवं लक्ष्म्या वरं प्राप्य सुरथः क्षत्रियोत्तमः ।सूर्यपुत्रः स सावर्णिर्भविता मनुरष्टमः ॥१०९॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने ऽष्टमनूनां जन्मादिवर्णननामा पञ्चपञ्चाशदधिक शततमोऽध्यायः ॥१५५॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP