संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ६८ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ६८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ६८ Translation - भाषांतर श्रीनारायणीश्रीरुवाच-भगवन् भवता प्रोक्ता वधूगीता हि मोक्षदा ।अनादिश्रीकृष्णनारायणप्राप्तिप्रदाऽखिला ॥१॥तस्य ते कान्तवर्यस्य मन्त्रं श्रोतुं समुत्सुका ।भवामि भवरोगाणां भेषजं परम मनुम् ॥२॥श्रीहरे केन मन्त्रेण गम्यते परमं पदम् ।तन्मे ब्रूहि कृपासिन्धो सर्वासां मोक्षहेतवे ॥३॥श्रीपुरुषोत्तम उवाच-.शृणु त्वं शिवराज्ञीश्रि मन्त्रं मन्त्रवरं शुभम् ।दिष्ट्याऽहं तेऽत्र वक्ष्यामि रहस्यं मम चोत्तमम् ॥४॥न जानन्ति सुराः सर्वे ऋषयश्चेश्वरा अपि ।सर्गादौ प्रोक्तवाँश्चाऽहं ब्रह्मणे परमेष्ठिने ॥५॥वैराजाय तथा महाविष्णवे भूम्न इत्यपि ।वासुदेवाय कृष्णाय नारायणाय चोक्तवान् ॥६॥अनादिश्रीकृष्णनारायणस्य मे परात्मनः ।ईश्वरीभिर्देविकाभिः सह पारं न यन्ति ते ॥७॥तेभ्योऽर्थितान्ददौ मन्त्रान् भक्तोद्धारणतत्परान् ।मम रूपस्वरूपात्मबलैश्वर्यसमन्वितान् ॥८॥मन्त्रोऽहं मन्त्ररूपोऽहं पुराणपुरुषोत्तमः ।सकृदुच्चारणात्तेषां मिलत्येव परं पदम् ॥९॥भुक्तिमुक्तीष्टदा लक्ष्मि पुरश्चरणमन्तरा ।मद्देवता ममैवैवेऽवतारा मन्त्रसत्तमाः ॥१०॥शृणु लक्ष्मि च मन्त्राणां मन्त्ररत्नं शुभावहम् ।सत्कृत्स्मरणमात्रेण ददाति धाम चाऽक्षरम् ॥११॥'अनादिश्रीकृष्णनारायणेति शरणागतम् ।प्रपाति धर्मकामार्थमोक्षदो मनुरुत्तमः ॥१२॥दशार्णोऽयं महामन्त्रो दशाऽवतारसंयुतः ।अकारो मत्स्यरूपोऽस्ति नकारो नरकेशरी ॥१३॥दकारोऽत्र वराहश्च शकारो हयमस्तकः ।ककारः कृष्णरूपश्च णकारो वामनः प्रभुः ॥१४॥नकारः परशुध्रक् च रकारो रामभूपतिः ।यकारो बोधकृद्विष्णुः णकारः कल्कनाशकः ॥१५॥एवं दशावतारात्मा मन्त्रो मे सर्वकामदः ।अस्योच्चारणमात्रेण परतुष्टोऽस्मि सर्वदा ॥१६॥शृणु लक्ष्मि तथाऽनादिश्रीस्त्वं मन्त्रे विराजसे ।कृष्णनारायणश्चाऽहं विराजे पुरुषोत्तमः ॥१७॥युगलार्थोऽपि मन्त्रोऽयं युगलानां सुखप्रदः ।दम्पतीसुखसम्पत्तिसौभाग्यर्द्धिप्रमोददः ॥१८॥वंशवृद्धिकरो जप्तो धनधान्यादिवर्धकः ।निर्विघ्नब्रह्मलोकादिमहानन्दप्रदो मनुः ॥१९॥आरोग्यकीर्तिसत्ताश्रीराज्यस्वर्गादिसम्प्रदः ।महामन्त्रो युगलात्मा सर्वेष्टानन्दपूरकः ॥२०॥शृणु लक्ष्मि तत्र मन्त्रे राजते तु चतुष्टयम् ।अनादिश्रीः स्वयं राधा कृष्णो गोलोकभास्करः ॥२१॥अनादिश्रीश्च लक्ष्मीर्वै नारायणो विकुण्ठगः ।ताभ्यां ताभ्यां समेताभ्यां चतुष्टययुतो मनुः ॥२२॥सर्वकामफलावाप्तिप्रदो धामप्रदः परः ।सर्वसौभाग्यदश्चापि मनुः सर्वार्थसाधकः ॥२३॥शृणु लक्ष्मि तथा तत्र मन्त्रे परं चतुष्टयम् ।अनादिनो हि ये मुक्ताः श्रियो मुक्तानिकागणाः ॥२४॥गोपा गोप्यश्च वै ताभिर्युक्तः कृष्णः स्वयं प्रभुः ।नारायणस्तथा चाहं चतुष्टयमिदं हि तत् ॥२५॥मुक्तमुक्तानिकायुक्तनारायणोऽहमेव च ।गोपगोपीयुक्तकृष्णो गोलोकवासवाँस्तथा ॥२६॥शृणु लक्ष्मि तथा तत्र मन्त्रे षट्कं परं स्थितम् ।अशब्द ओंवाचकश्च नादो ब्रह्मपरस्तथा ॥२७॥नादोऽस्याऽस्तीति नादी वै वेदः स्वयं तथा मतः ।नादिनो वै सर्ववेदा ओंविशिष्टाः सदा शुभाः ॥२८॥श्रियः सर्वाः शक्तयश्चांऽगना ब्राह्म्यो मतिस्थिताः ।यिद्यात्मिका हि ता बोध्या ब्रह्मविद्यात्मिका हि ताः ॥२९॥कृष्णश्च मोक्षदाः सर्वेऽवताराश्चात्र कीर्तिताः ।नाराश्चात्र समग्राश्च सन्तः साध्व्यश्च मोक्षदाः ॥३०॥तत्र सर्वत्राऽऽयनं वै यस्य श्रीपरमात्मनः ।ओंकारे चापि वेदेषु विद्यास्ववतारेषु च ॥३१॥साधुसाध्वीषु वासी यः सोऽहं मन्त्रे निरूपितः ।शृणु लक्ष्मि त्रयं तत्र मन्त्रे स्थितं वदामि ते ॥३२॥अनादि चाक्षरं धाम श्रीकृष्णाश्चेश्वरालयाः ।नारा ब्रह्माण्डव्राताश्च तत्राऽयनं करोम्यहम् ॥३३॥एवं सृष्टित्रयाऽन्तःस्थश्चाऽहं श्रीपुरुषोत्तमः ।सर्वकामप्रदश्चाऽस्मि निबोधार्थं परार्थकम् ॥३४॥शृणु लक्ष्मि द्व्यर्थमत्र जडचेतनसंज्ञितम् ।अनादिश्रीर्महामाया प्रकृतिः शक्तिराच्युती ॥३५॥कृष्णनारायणश्चाऽहं तत्रस्थः पुरुषोत्तमः ।इत्येवं तत्र मन्त्रार्थे ज्ञानदं बोधयेदपि ॥३६॥शृणु लक्ष्मि तथा तत्र स्वतन्त्रमर्थमित्यपि ।अकारो वासुदेवश्च नश्च नारायणस्तथा ॥३७॥दश्च देवाः समस्ताश्च श्रीश्च सर्वा हि शक्तयः ।कृश्च कृष्णाद्यवताराः ष्णः षिरा नालजोह्यजः ॥३८॥नो वा नियाम्यमुक्ताद्याः रश्च ऋषिगणास्तथा ।यश्च योगीश्वरः शंभुः णश्च नियामकोऽप्यहम् ॥३९॥विशिष्टं सर्वमेवैतन्मन्त्रार्थे वेशितं प्रिये ।शृणु लक्ष्मि तथा चाऽन्यं मन्त्रार्थं शोभनं शुभम् ॥४०॥आदिर्जन्म च तद्येषां नास्ति ते शाश्वता मताः ।श्रीश्च त्वं शाश्वती लक्ष्मीः कृष्णोऽहं शाश्वतस्तथा ॥४१॥नृष्यात्मसु निवसामि श्रीकृष्णोऽहं मनुस्थितः ।शाश्वतश्चाऽन्तर्यामी च मन्त्रार्थः शोभनः शुभः ॥४२॥श्रेष्ठोऽयं मन्त्रमूर्धन्यस्तुभ्यं मे कथितो मनुः ।नाऽस्मात्परो भवेन्मन्त्रः सर्वमन्त्रोत्तमोत्तमः ॥४३॥अथाऽपरो मनु'र्लक्ष्मीनारायणोऽपि' मे मतः ।लक्ष्मीस्त्वं श्रीः हरिश्चाऽहं नारायणः परः प्रभुः ॥४४॥लक्ष्मं मत्पातिव्रत्यं वै यासामस्तीति ताः स्त्रियः ।लक्ष्म्यो ब्रह्मप्रियाः सर्वा मम पत्न्यस्तु कोटिशः ॥४५॥नारा नार्यो मम सर्वा मुक्तानिका हरिप्रियाः ।लक्ष्मीषु चापि नारासु अयनं मम सर्वथा ॥४६॥लक्ष्मीनारायणः सोऽहं मन्त्रार्थस्ते निवेदितः ।लक्ष्मं मत्तिलकं चिह्नं शंखचक्रांकनादि च ॥४७॥तद्वन्तो लक्ष्मिणः सर्वे भक्ता नारीनरादयः ।तादृशा ये चेतना वै नाराः सर्वे ममाऽऽश्रिताः ॥४८॥तेषु प्राप्तमयनं मे तेनाऽहं मन्त्रहृद्गतः ।लान्तिकर्मफलं यस्मात् लाश्च ब्रह्माण्डवासिनः ॥४९॥क्षमन्ते चापि पुष्यन्ति क्षाश्चैश्वर्यपरेश्वराः ।मीयन्ते ब्रह्मलोके ये माश्च मुक्तादयस्तथा ॥५०॥नारा मायाजतत्त्वानि तेषु प्राप्तोऽयनं तु यः ।सोऽहं परेश्वरो लक्ष्मि विशिष्टो मन्त्रहृद्गतः ॥५१॥अथाऽपरो मनुः 'श्रीमन्नारायणे'ति मे मतः ।श्रयन्ते मां चेतनाश्च जडाश्चाश्रयमागताः ॥५२॥तद्वान् श्रीमानहं नारायणः श्रीपुरुषोत्तमः ।श्रीस्त्वं तद्वानहं नारा नार्यो मे कोटिशस्त्विह ॥५३॥त्वया साकं प्रतिष्ठोऽहं तासु मध्ये सदा प्रभुः ।श्रीमानहं जले चास्मि क्षीरोदे तेन वा तथा ॥५४॥श्रीमन्नारं चाऽक्षरं मे धाम तत्र स्थितिर्मम ।तेन तया भवाम्येव श्रीमन्नारायणः प्रभुः ॥५५॥'श्रीकृष्णोवल्लभश्चेति मन्त्रोऽयं प्राप्तिबोधकः ।श्रीकृष्णवत् लभ्यते यः श्रीपतिः पुरुषोत्तमः ॥५६॥नराणां चापि नारीणां कृपया सुलभोऽस्मि वै ।पुरुषोत्तममासेऽपि सुलभः कृपयाऽस्मि च ॥५७॥सृष्टौ सृष्टौ तथा कल्पे कल्पे कृष्णो भवाम्यहम् ।गोपीनां सुलभश्चाऽस्मि गोपानां चान्यदेहिनाम् ॥५८॥गोलोकस्थः स्वयं कृष्णो यथाऽहं सुलभः क्षितौ ।तथा चाऽक्षरधामस्थः सुलभोऽहं परेश्वरः ॥५९॥कल्पे कल्पे भवाम्यत्र क्षितौ कृपालभः स्वयम् ।अनादिश्रीकृष्णनारायणः श्रीपुरुषात्तमः ॥६०॥एवं वै सुलभो लक्ष्मि मन्त्रः 'श्रीकृष्णवल्लभः' ।श्रीकृष्णो वल्लभो मेऽस्ति रूपं धृतं मया हि तत् ॥६१॥राधाया रञ्जनाद्यर्थं गोपीनां मोदकारकम् ।सर्वेषां सुलभं रूपं श्रीकृष्णो वल्लभोऽप्यहम् ॥६२॥स्वामी वै वल्लभः कान्तः पतिः श्रीपुरुषोत्तमः ।सोऽहमाकृष्य मद्भक्तान् नयामि धाम मे परम् ॥६३॥सोऽहं स्वामी पतिः श्रीयुक् कृष्णो ब्रह्मपरः प्रभुः ।श्रीकृष्णोवल्लभश्चाहं मन्त्रार्थेऽस्मि हरिः स्वयम् ॥६४॥अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।मन्त्रोच्चारणमात्रेण परितुष्टोऽस्मि सर्वदा ॥६५॥सर्वे वर्णा आश्रमाश्च नरा नार्यो नपुंसकाः ।मन्त्राधिकारिणः सर्वे संकराश्चाप्यसंस्कृताः ॥६६॥नागाः सर्पा दानवाश्च दैत्याश्च राक्षसा अपि ।मन्त्राधिकारिणः सर्वे किं पुनर्मानवाः क्षितौ ॥६७॥पशवः पक्षिणश्चापि जन्तवः पादपा अपि ।देहिनः सर्व एवैते मन्त्राधिकारयोगिनः ॥६८॥श्रावितोऽयं तिरश्चां हि मोक्षदो मम वै मनुः ।यक्षगन्धर्वसूताश्च पिशाचाः किन्नराः खगाः ॥६९॥किंपुरुषाः पुण्यजना भूताः प्रेताश्च देवताः ।विनायकाश्च वेताला गणाश्च गणिकास्तथा ॥७०॥योगिन्यश्च यतिन्यश्च साध्व्यः पतिव्रतास्तथा ।स्नुषा वृद्धाश्च बालाश्च बालकाः स्तन्यपा अपि ॥७१॥वसवश्च ऋषयश्च रुद्राः सूर्याश्च चन्द्रमाः ।कामश्च मनवश्चापि महेन्द्राद्याः सुरा अपि ॥७२॥लोकपालाश्च दिक्पाला नक्षत्राणि ग्रहास्तथा ।तारका मानवाश्चापि सिद्धाश्च चारणास्तथा ॥७३॥नृपाः प्रजा यमश्चापि यमदूतास्तथेश्वराः ।ईश्वराण्यो ब्रह्मशीलास्तामसा राजसास्तथा ॥७४॥सत्त्ववन्तो धामवासाः सर्वे मन्त्राऽधिकारिणः ।गुरोः प्राप्य परं मन्त्रं चात्मानं मोचयेद् भवात् ॥७५॥मन्त्राधिकारिणः सर्वे मम भक्ता ममाऽऽश्रिताः ।शरण्यः शरणानां च तथैवाऽनन्यसेविनाम् ॥७६॥अनन्यसाधनानां च साधनं मन्त्र उत्तमः ।आर्त्तानामाशु फलदो जप्तः सकृतच्च वा मुहुः ॥७७॥दीप्तानां देहिनां चापि जन्मान्तरनिवारकः ।सर्वेषां मोक्षदश्चापि मन्त्रो मम चतुर्विधः ॥७८॥दुःखी स्वार्थी विवेकी वा तदिच्छुकोऽधिकारवान् ।शरणं प्राप्याऽऽप्य मनुं मुक्तिफलमवाप्नुयात् ॥७९॥दीक्षितश्चापि भक्तश्च निर्मानी चास्तिकः कृती ।कृतज्ञः श्रद्धया युक्तः शुश्रूषुर्दोषवर्जितः ॥८०॥मत्तादात्म्यक्रियायोग्यो गृह्णीयान्मनुमुत्तमम् ।पापिनामपि वक्तव्यः शोधको भवनाशकः ॥८१॥अपि मांसादनः शुद्ध्येत् किं पुनर्धर्ममार्गगः ।अपि व्यवायकृच्छुद्ध्येत् किं पुनः शीलमार्गगः ॥८२॥अपि चौर्यपरः शुद्ध्येत् किं पुनर्न्यायमार्गगः ।सुरापश्चापि शुद्ध्येद्वै किं पुनर्विप्रधर्मवान् ॥८३॥देशकालादिनियमो विद्यते ग्रहणेऽस्य न ।स्नानदानादिनियमो विद्यते ग्रहणेऽस्य न ॥८४॥व्रतोत्सवादिनियमो विद्यते ग्रहणेऽस्य न ॥नारीनरादिनियमो विद्यते ग्रहणेऽस्य न ॥८५॥गुरोर्ग्राह्यो वैष्णवाद्वै गुर्व्याश्च नियमोऽस्य वै ॥ग्रहणे सति भक्तेन भाव्यं भक्त्या सदा मम ॥८६॥मच्चिह्नांऽकितदेहेन मदीयाराधनेन च ।मयि कर्मार्पणेनैव मे शरणागतेन च ॥८७॥मयि फलार्पणेनापि मयि विश्वस्तवर्तिना ।अनन्यसाधनेनापि सर्वार्पणेन वै मयि ॥८८॥अनन्यदेवताकेन भाव्यं भागवतेन वै ।इत्येवं नियमाः पाल्या भक्तेन मन्त्रग्राहिणा ॥८९॥तस्याऽनादिकृष्णनारायणश्चाहमृषिः प्रभुः ।देवताश्च श्रिया युक्ता ब्रह्मप्रिया ममांऽशजाः ॥९०॥ब्रह्मप्रियाश्रीसहितः परो देवोऽस्मि वै मनौ ।छन्दो गायत्रीतिबोध्यो दशाक्षरो मनुर्हि मे ॥९१॥षडक्षरस्तथा षडक्षरः षडक्षरस्तथा ।मनवो मे त्रयश्चाऽन्ये तान् चांऽगेषु नियोजयेत् ॥९२॥दशाक्षरं दशांगेषु मूर्द्धनेत्राऽऽननेषु च ।ग्रीवाबाहुहृदयेषूदरकट्यूरुपत्सु च ॥९३॥षडक्षरं चोत्तमांगे ग्रीवायां भुजयोर्हृदि ।उदरे चापि सक्थ्नोश्च पादयोश्चेति वै न्यसेत् ॥९४॥ध्यानं लक्ष्मीसहितस्य नारायणस्य मे मतम् ।तथा यथार्थदेवानां ध्यानं मदन्वितं मतम् ॥९५॥कम्भराबालकं श्रीमद्गोपालकृष्णनन्दनम् ।अनादिश्रीकृष्णनारायणं मां पूजयेत्ततः ॥९६॥शंखचक्रगदापद्मपाणिनं कमलापतिम् ।शूलमीनध्वजधनुश्चक्रस्वस्तियुतं हरिम् ॥९७॥वामांऽकस्थश्रिया युक्तं लक्ष्मीशं परमेश्वरम् ।पूजयेद् गन्धपुष्पाद्यैर्नैवेद्यैश्चाम्बरादिभिः ॥९८॥विभूषणैश्च शृंगारैर्नीराजनैः स्तवादिभिः ।प्रदक्षिणैर्दक्षिणाभिर्नृत्यकीर्तनगायनैः ॥९९॥विसर्जनाद्यैश्चैवं मे कुर्यात् प्रपूजनं प्रिये ।दानं दद्याद् यथाशक्ति सद्भ्यः सतीभ्य उत्तमम् ॥१००॥भोजयेद् रामयेच्चापि रञ्जयेत् सेवयेत् तथा ।वैष्णवत्वेन तिष्ठेच्च वर्तेत दास्यभावतः ॥१०१॥कुर्याद्वै भजनं नित्यं मन्त्रैरिष्टैः सहस्रकम् ।शतमाला जपेद्वापि मालामेकां जपेच्च वा ॥१०२॥दशवारं जपेद्वापि नित्यं प्रातर्निशामुखे ।मध्याहेऽपि जपेद्वाऽपि मोक्षदोऽहं भवामि वै ॥१०३॥सकामानां सम्पदां वै प्रदाताऽहं भवामि च ।निष्कामानां श्रेयसां वै प्रदाताऽहं भवामि च ॥१०४॥इत्येवं कथितं लक्ष्मि रहस्यं मे मनोस्तव ।जपेन्नारी नरो वापि दद्याच्च देहिनेऽर्थिने ॥१०५॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने महामन्त्ररहस्ये मन्त्रतदर्थन्यासादिनिरूपणनामाऽष्टषष्टितमोऽध्यायः ॥६८॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP