संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १३५ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १३५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १३५ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं पुरा दक्षेण वन्दिता ।प्राकट्यानि ललिताया लक्ष्म्योश्चोक्तवती स्वयम् ॥१॥दक्षः पप्रच्छ मातस्ते प्राकट्यान्यत्र भूतले ।कानि कुत्र च वर्तन्ते वर्त्स्यन्ते तानि मे वद ॥२॥यत्पूजाबलतश्चाऽहं विघ्नान् विनाशये सदा ।ग्रहदोषान् कर्मदोषान् विनाशये तवाऽर्हणात् ॥३॥तदा त्वं निजपूजायाः फलं चोक्तवती शुभम् ।ललिताख्यमहालक्ष्म्याः पूजकस्याऽशुभानि वै ॥४॥विनंक्ष्यन्ति न सन्देहो मम पूजाप्रकारिणः ।यानि यानि स्वरूपाणि यत्र यत्र भवन्ति च ॥५॥तानि वक्ष्यामि ते दक्षप्रजापते निशामय ।अहं त्वक्षरधामस्था श्रीदेवी पुरुषोत्तमौ ॥६॥अनादिश्रीकृष्णनारायणी श्रीपरमेश्वरी ।ब्रह्ममुक्तानिका ब्राह्मी कार्ष्णी नारायणी रमा ॥७॥वासुदेवी च वैराजी हिरण्या हरिणी प्रभा ।महालक्ष्मीः कंभराश्रीर्ललिता कमला चला ॥८॥ईश्वरी वैष्णवी चान्द्री हिरण्मयी च देवता ।आर्षी सिद्धा योगिनी च साध्वी सती पतिव्रता ॥९॥प्रभ्वी धामा जया भौमी महेशी भूर्नरायणी ।पाशवती च माणिक्या मारूपा श्रीहरिप्रिया ॥१०॥दुःखहा शिवराज्ञीश्री कृष्णनारायणी सती ।ब्रह्मप्रिया ब्रह्मधाम्नि महालक्ष्मीश्च श्रीपुरे ॥११॥लक्ष्मीः कुंकुमवाप्यां च महालक्ष्मीस्तु रैवते ।व्याघ्रेश्वरी माहिषे च गोकर्णे धेनुकर्णिका ॥१२॥सन्तुष्टा चाक्षरे क्षेत्रे चमत्कारे तु माधवी ।वाराणस्यां विशालाक्षी नैमिषे लिङ्गधारिणी ॥१३॥प्रयागे ललिता चास्मि कामाक्षी गन्धमादने ।मानसे कुमुदा देवी विश्वकाया चिदम्बरे ॥१४॥गोमन्ते गोमतीनाम्नी मन्दराद्रौ तु कामगा ।मदोत्कटा चैत्ररथे जयन्ती वारहाह्वये ॥१५॥गौरीनाम्नी कान्यकुब्जे रंभा तु मलयाचले ।एकाम्रके कीर्तिमती विश्वा विश्वेश्वरेऽस्मि च ॥१६॥पुष्करे पुरुहूताऽस्मि केदारे मार्गदाऽस्मि च ।हिमाचले च नन्दाऽस्मि बिल्वके बिल्वपत्रिका ॥१७॥स्थानेश्वरे भवान्यस्मि श्रीशैले पद्मिनी सदा ।भद्रा भद्रेश्वरे चास्मि जया वाराहपर्वते ॥१८॥कामला कमलाभूमौ रौद्री च रुद्रकोटिके ।काली कालंजरे चाऽस्मि मर्कोटे मुकुटेश्वरी ॥१९॥महालिंगे कपिलाऽस्मि शिवलिगे जलप्रिया ।शालग्रामे महादेवी मायापुर्यां कुमारिका ॥२०॥सन्ताने काञ्चिकापुर्यां ललिता दुर्गपत्तने ।उत्पलाक्षी सहस्राक्षे कलमाक्षे महोत्पला ॥२१॥गंगायां मंगला दुर्गा विमला पुरुषोत्तमे ।विपाशायाममोघाक्षी पाटला पुण्ड्रवर्धने ॥२२॥नारायणी सुपार्श्वेऽस्मि विकूटे भद्रसुन्दरी ।विपुले विपुलानाम्नी कल्याणी मलयाचले ॥२३॥कोटितीर्थे कोटवी च सुगन्धा माधवे वने ।कुब्जाम्रके त्रिसन्ध्याऽस्मि गंगाद्वारे रतिप्रिया ॥२४॥शिवकुण्डे सुनन्दाऽस्मि नन्दिनी देविकातटे ।रुक्मवर्णा द्वारवत्यां राधा वृन्दावनेऽस्मि च ॥२५॥मधुरायां देवकन्या पाताले परमेश्वरी ।चित्रकूटे तु सीताऽस्मि विन्ध्ये विन्ध्याचली तथा ॥२६॥सह्याद्रावेकवीराऽस्मि हर्मचन्द्रे तु चन्द्रिका ।रमणा रामतीर्थेऽस्मि यमुनायां मृगावती ॥२७॥करवीरे महालक्ष्मीरुमादेवी विनायके ।अरोमा वैजनाथेऽस्मि महाकाले महेश्वरी ॥२८॥अभयाऽस्मि चोष्णतीर्थे अमृता विन्ध्यकन्दरे ।माण्डव्ये माण्डवीनाम्नी स्वाहा माहेश्वरे पुरे ॥२९॥छागलेऽस्मि प्रचण्डाऽहं चण्डिका मकरन्दके ।सोमेश्वरे वरारोहा प्रभासे पुष्करावती ॥३०॥सरस्वत्यां देवमाता पारा पारातटेऽस्मि च ।महालये महाभागा पयोष्ण्यां पिंगलेश्वरी ॥३१॥सिंहारण्ये सिंहिकाऽस्मि कार्तिकेये यशस्करी ।उत्पलावर्तके लोला सुभद्रा शोणसंगमे ॥३२॥माता लक्ष्मीः सिद्धपुरे अङ्गना पुलहाश्रमे ।जालन्धरे विश्वमुखी तारा किष्किन्धपर्वते ॥३३॥देवदारुवने पुष्टिर्मेधा काश्मिरमण्डले ।हिमाद्रौ भीमिकादेवी पुष्टिर्विश्वेश्वरेऽस्मि च ॥३४॥कपालमोचने शुद्धिर्माता कायावरोहणे ।शंखोद्धारे धरादेवी धृतिः पिण्डारकेऽस्मि च ॥३५॥माणिक्याऽऽनर्तके नारायणीश्रीरस्मि नागरे ।कालाऽस्मि चन्द्रभागायामच्छोदे शिवकारिणी ॥३६॥वेणायाममृतानाम्नी बदर्यामुर्वशी तथा ।ओषधिश्चोत्तरकुरौ कुशद्वीपे कुशोदका ॥३७॥मन्मथा हेमकूटे तु मुकुटे सत्यवादिनी ।अश्वत्थे वन्दनीयास्मि निधिश्च श्रवणालये ॥३८॥गायत्री ब्रह्मणा साकं पार्वती शिवसन्निधौ ।देवलोके तथेन्द्राणी ब्रह्मास्येऽस्मि सरस्वती ॥३९॥सूर्यबिम्बे प्रभा धैर्ये पाशवती तु वैष्णवी ।अनादिश्रीकृष्णनारायणेऽस्मि सुखदा रमा ॥४०॥अरुन्धती सती चास्मि तिलोत्तमाऽप्सरोगणे ।चित्ते ब्रह्मकला चास्मि कान्ता कान्तेषु सर्वशः ॥४१॥भंगा नीलगिरावस्मि विजयाऽऽसामभूतले ।कामरूपे च कामाक्ष्या ब्रह्मदेश इराऽस्मि च ॥४२॥खासीनेषु ब्रह्मपुत्री पतत्काये तु पावनी ।श्यामा श्यामप्रदेशेऽस्मि प्राचीने मेनकांगिनी ॥४३॥उच्चीने यागशिक्षांगी त्र्यंगुलेषु तु कारमी ।काराकारे कृष्णवर्णा एलुने खनिरस्मि च ॥४४॥मूकी मंगोलके चास्मि खिंगने मञ्च्छिकाऽस्मि च ।स्तेनावासे पारशवी राशिपुत्री तु राशने ॥४५॥उरला चोरलाद्रौ च रक्ता चारक्तभूतले ।नारायणी सुदानेऽस्मि चाल्पा चाल्पे च पर्वते ॥४६॥इङ्गितज्ञा केतुमाले परी चास्मि बलायते ।हारिती पिंगदेशे च अमरी किंपुमात्मके ॥४७॥राकरी मानकंगौ च परीनारी तु दक्षके ।संहारा नजरेऽद्रौ च कामरूपा कमारणे ॥४८॥मासाम्बा साम्बशैलेऽस्मि कलिहारा तु मित्रपे ।त्रिहोत्रे होत्रिणी चास्मि झम्बे मांझाम्बिकास्मि च ॥४९॥नवदेशे मणिकान्ता उष्ट्रालये महोर्ध्विका ।कलगरली श्वानायां चालिशी क्वाथपर्वते ॥५०॥एवमादिस्वरूपैश्च भूतले संवसाम्यहम् ।दक्ष! सर्वत्र मत्पूजां कुरु भुक्तिप्रमुक्तिदाम् ॥५१॥इत्याह श्रीमहालक्ष्मीस्तदा दक्षं प्रजापतिम् ।अतस्ते तु महालक्ष्म्याः पूजनं सर्वशान्तिकृत् ॥५२॥पूजायां सर्वनामानि द्वे शते तव यो जपेत् ।सर्वाश्च सिद्धयस्तस्योपतिष्ठन्तु यथेष्टदाः ॥५३॥ग्रहाणां चापि यक्षाणां रक्षसां वैरिणां तथा ।कष्टानि यान्तु नाशं वै तव शान्तिमखादिभिः ॥५४॥मण्डपं सर्वतोभद्रं कमलाकारमुत्तमम् ।वर्तुलं कारयित्वा यः कुण्डं कमलवत्तथा ॥५५॥शतद्वयेन संस्मृत्य नाम्नां त्वां परमेश्वरीम् ।तण्डुलेषु समावाह्य पूजयेत् कमलादिभिः ॥५६॥तस्य पीडा समस्ता वै नाशमेष्यन्ति मद्वरात् ।होमान् कृत्वाऽष्टसंख्यान् वै प्रत्येकनामसंयुतान् ॥५७॥घृतपायसमिष्टान्नैस्ततो दद्यान्महाहुतिम् ।घृतधाराभिरेवाऽपि फलैर्व्रीह्यादिभिस्तथा ॥५८॥नारिकेलफलाद्यैश्च समिद्भिः शर्करादिभिः ।यस्तस्य मानसेष्टं यत् तत्सर्वं वै भविष्यति ॥५९॥राज्यं स्वर्गश्च मोक्षश्च सर्वं तस्य भविष्यति ।स्त्रीपुत्रपतिलाभादिर्धनकीर्ती भविष्यतः ॥६०॥सुविधानं तत्र वच्मि लक्ष्मीयज्ञे यथायथम् ।शतं च विंशतिश्चापि हस्तानां परिमण्डलम् ॥६१॥मण्डपार्थं तु गृह्णीयाद् दशस्तंभमयं शुभम् ।मण्डपं रचयेत्तत्र चतुर्द्वारैः सुशोभितम् ॥६२॥तोरणैः सुवितानेन वर्तुलशिखरेण च ।सौवर्णकलशैश्चापि ध्वजेन शोभितेन च ॥६३॥रक्तवस्त्रध्वजेनापि शोभितं कारयेच्छुभम् ।परितस्तव शस्त्राणि तोरणेषु लिखेत्तथा ॥६४॥अष्टादश विभिन्नानि पूर्वतो दक्षिणक्रमात् ।खड्गं चर्म करवालं दण्डं पाशं पविं धनुः ॥६५॥परशुं च शरं चक्रं गदां शंखं महांकुशम् ।कमलं मालिकां शक्तिं क्षेपणीं चाभयं तथा ॥६६॥एवमेतान्यायुधानि तोरणेषु निधापयेत् ।प्रतिस्तम्भं कलशाँश्च ध्वजानपि विधापयेत् ॥६७॥द्वारशाखास्वष्टदेवीः स्थापयेच्चाऽङ्गदेवताः ।पूर्वशाखाद्वये श्रीं च माणिक्यां स्थापयेत्तथा ॥६८॥दक्षिणे च रमां पाशवतीं संस्थापयेत्तथा ।पश्चिमे मंगलां चैवाऽमृतां संस्थापयेत्तथा ॥६९॥उत्तरे तु विजयां च जयां संस्थापयेत्तथा ।मध्यस्तम्भेषु चैशाने दुर्गां सतीं च विन्यसेत् ॥७०॥अग्निस्तम्भद्वये स्वाहां स्वधां चावासयेत्तथा ।नैर्ऋते संहारिणीं च वशिनीं स्थापयेत्तथा ॥७१॥वायव्ये शारदां वाणीं स्थापयेच्छोभनां शुभाम् ।सावित्रीं चापि गायत्रीं सरस्वतीं तथा यमीम् ॥७२॥वैष्णवीं च वराहीं चण्डिकामैन्द्रीं च वारुणीम् ।भुवं संज्ञां कौमुदीं च नन्दां नारायणीं रमाम् ॥७३॥सन्तुष्टां षोडशशक्तिः स्थापयेत्तु वितानके ।स्तम्भान्तरचरुस्थानेष्वतिशृंगारशोभिताः ॥७४॥द्विहस्ताः सर्वभूषाढ्याः पूजयेत्तीर्थवारिभिः ।कुंकुमाऽक्षततैलाद्यैः सुगन्धिचन्दनादिभिः ॥७५॥कुण्डं तु वर्तुले हस्तदशकं वै यथा भवेत् ।तथा षोडशदलवत् पद्मरूपं विधापयेत् ॥७६॥सयोनिं कारयेत्तत्र मेखलात्रिकमित्यपि ।लक्षहोमान् कोटिहोमान् कारयेदिष्टसिद्धिदान् ॥७७॥द्वे शते तव रूपाणि चावाहयेद् प्रपूजयेत् ।महालक्ष्मीं तव मूर्तिं प्रोन्नतां तु शुभाननाम् ॥७८॥षट्पञ्चाशदङ्गुलां समुकुटां हारराजिताम् ।स्वर्णसिंहासनस्थां वै कानकीं वाऽन्यधातुजाम् ॥७९॥कारयेत् तत्सखीनां तु यथायोग्यां प्रकारयेत् ।पञ्चामृतैस्तीर्थजलैः संस्नाप्य परमेश्वरीम् ॥८०॥गन्धसुगन्धशृंगारैर्विभूषाभिश्चिदम्बरैः ।कुसुमाभरणैर्देहावयवानां सुशोभनैः ॥८१॥चन्दनाऽक्षततुलसीकस्तूरीगन्धसारकैः ।पूजयित्वा विविधानि नैवेद्यानि समर्पयेत् ॥८२॥मिष्टान्नानि समस्तानि पायसान्नानि यानि च ।मिष्टरसान् शाकभाजा नैवेद्ये वै समर्पयेत् ॥८३॥जलं ताम्बूलकं दद्यादारार्त्रिकं ततश्चरेत् ।प्रदक्षिणं ततः कृत्वा प्रार्थयेत् प्रणमेत्तथा ॥८४॥जन्महन्त्रि भवहन्त्रि रोगहन्त्रि परेश्वरि ।वासुदेवि कृष्णदेवि महालक्ष्मि नमोऽस्तु ते ॥८५॥पारब्राह्मि सर्वभूतहृदयस्थे परात्परे ।सर्वदेवीस्वरूपे ते रक्षयित्रि नमो मुहुः ॥८६॥तव भक्तस्य मे कष्टं दैवं वा मानुषं तथा ।कर्मजं कालजं वापि प्रारब्धजं ग्रहोत्थितम् ॥८७॥स्वभावजं मानसं वा यदस्ति जायतेऽथवा ।जनिष्यते च यत्कष्टं शापाद् द्रोहात्प्रमादतः ॥८८॥अज्ञानाच्चापि वै यच्च दुष्प्रारब्धं च मे भवेत्॥अवंशत्वं चाऽपुत्रत्वं निःस्त्रीकत्वं विमानता ॥८९॥सर्वं रोगभयं चापि मम नाशं प्रयातु तत् ।सौख्यं तवैव कृपया मोदो भवतु चानिशम् ॥९०॥शाश्वतं श्रीपुरं स्वर्गं चामृतं पदमस्तु मे ।अन्तेऽक्षरं परं धाम ममाऽस्तु परमं पदम् ॥९१॥इत्यभ्यर्थ्य कुसुमानामंजलिं वितरेत्ततः ।अपराधान् क्षन्तुमेवाऽऽराधयित्वा महासतीम् ॥९२॥विसर्जयेत् तथा दासीश्चोपदेवीविसर्जयेत् ।दद्याच्च देवतां लक्ष्मीं गुरवे ब्रह्ममूर्तये ॥९३॥मन्दिरे स्थापयेद्वापि महालक्ष्मीं स्थिरे दृढे ।अनादिश्रीकृष्णनारायणेन सहितां च वा ॥९४॥श्रीमद्गोपालकृष्णेन महाविष्ण्वात्मना युताम् ।स्थापयेत् स्वर्णशिखरैः शोभिते देवतालये ॥९५॥सुवर्णमुद्रादानानि रूप्यकाँश्चार्पयेत्तथा ।माणिक्यहीरकरत्नभूषावस्त्राणि चार्पयेत् ॥९६॥मिष्टान्नानि दिशेश्चापि नारीवस्त्राणि चार्पयेत् ।रम्यशृंगारभूषाश्चोपकरणानि चार्पयेत् ॥९७॥धनधान्यानि सर्वाणि गृहदानानि कारयेत् ।एवं कृत्वा परिहारं ततो भोजनमाचरेत् ॥९८॥भोजयेत् साधुविप्राँश्च दीनान्धकृपणाँस्तथा ।बालान् प्रबालिकाश्चापि योषितोऽनाथनिर्धनीः ॥९९॥सतः सतीश्च साध्वीश्च भोजयेत्पूजयेत्तथा ।नित्यं लक्ष्मीं पूजयेच्च भोजयेत् विधिना तथा ॥१००॥एवं कर्तुर्न वै दुःखं सन्तापो वा भवेत् क्वचित् ।भुक्तिः सम्पन्महामुक्तिः साम्राज्यं च भवेत् सदा ॥१०१॥अखण्डानन्दभोक्तृत्वं देवीवृन्दाधिकान्तता ।भवेत् कृष्णसमानत्वं श्रीपते कृपया श्रियाः ॥१०२॥इत्येवं कथितं लक्ष्मि तवाऽर्हणं प्रशान्तिदम् ।पठनाच्छ्रवणाच्चास्य महासौख्यं भवेत् सदा ॥१०३॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने दक्षप्रजापतये महालक्ष्म्युक्तानि स्वीयानि शतद्वयनामरूपाणि लक्ष्मीमखे शान्तिपूजा महालक्ष्मीप्रतिमा-तन्मण्डलादि चेतिनिरूपणनामा पञ्चत्रिंशदधिकशततमोऽध्यायः ॥१३५॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP