संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १३९ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १३९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १३९ Translation - भाषांतर श्रीनारायणीश्रीरुवाच-आगतानां हि शोकानामपनोदार्थमेव यत् ।व्रतं स्यात्तत्कथयाऽत्र दयया मे हरे प्रभो ॥१॥श्रीपुरुषोत्तम उवाच-पुण्ये चाश्वयुजे मासि शुक्ले द्वादशिकाव्रतम् ।शोकनाशार्थमेवाऽस्ति विशोकद्वादशीव्रतम् ॥२॥दशम्यां लघुभुग् भूत्वा पृथ्वीशयनमाचरेत् ।ब्रह्मचारी भवेच्चापि प्रातरुत्थाय मां स्मरेत् ॥३॥स्नात्वा सम्पूजयेन्मां चैकादश्यां व्रतमाचरन् ।निराहारः फलाहारश्चैकभोजी च वा भवेत् ॥४॥अशोकललितां स्वर्णमयीं श्रीकृष्णशोभिताम् ।कारयित्वा पूजयित्वा भोजयित्वा गजासने ॥५॥स्वापयेज्जागरं कुर्यान्मण्डपे कदलीकृते ।द्वादश्यां प्रातरुत्थाय स्नात्वा संपूजयेत्पुनः ॥६॥स्नानं सर्वौषधैः कुर्यात् पञ्चगव्यजलैरपि ।पीताम्बरधरो लक्ष्मीं पूजयेच्छ्रीशमुत्पलैः ॥७॥विशोकायै नमः पादौ वरदायै तु जङ्घयोः ।जान्वोः श्रियै नमश्चापि सक्थ्नोरब्धिजयोषिते ॥८॥गुप्ते विशोककर्त्र्यै च कट्यां मायै नमो नमः ।उदरे पोषयित्र्यै च नमो भायै च पार्श्वयोः ॥९॥नाभौ नमः सर्वधर्त्र्यै हृदयेऽर्धाश्रियै नमः ।कण्ठे वाण्यै नमो वक्षःस्थले कान्ताश्रियै नमः ॥१०॥बाह्वोर्नमो रक्षयित्र्यै ललितायै तु हस्तयोः ।चान्द्र्यै मुखे नमश्चापि कमलायै तु नेत्रयोः ॥११॥नासायां सुरभिदेव्यै ललाटे मोहिनीश्रियै ।कर्णयोर्व्यापिकायै ते नमो मूर्ध्नि महाश्रियै ॥१२॥मण्डले स्थण्डिले लक्ष्मीप्रतिमासन्निधौ हरिम् ।स्वर्णमूर्तिं पूजयेच्च श्रीपतिं मां विशोकिनम् ॥१३॥नमोऽनादिकृष्णनारायणाय पादयोर्नमः ।नमः कृष्णाय कान्ताय जंघयोस्ते नमो नमः ॥१४॥नमः श्रीवासुदेवाय जान्वोस्ते च नमो नमः ।नमो नारायणायेति सक्थ्नोस्ते भगवन्नमः ॥१५॥नमश्चानन्दरूपाय मेढ्रे ते च नमो नमः ।नमः कट्यां नरनारायणाय ते नमो नमः ॥१६॥उदरे ते नमो विश्वंभराय भगवन्नमः ।पार्श्वयोः रामकृष्णाभ्यां नमो नमः नमो नमः ॥१७॥नाभौ ते पद्मनाभाय हृदये हंसयोगिने ।कण्ठे ते नीलकण्ठाय वक्षसि ब्रह्मणे नमः ॥१८॥बाह्वोश्चक्रधरायाऽपि करयोः शंखधारिणे ।मुखे रूपाभिरूपाय नेत्रयोः कमलाक्षिणे ॥१९॥नासायां सर्वगन्धाय ललाटे गुरुरूपिणे ।कर्णयोः श्रुतिकर्त्रे ते नमो मूर्ध्नि शिखावते ॥२०॥इत्यभ्यर्च्याऽपि गोविन्दं फलमाल्यानुलेपनैः ।शूर्पं संस्थाप्य पुरतो लक्ष्मीं मां तत्र सन्न्यसेत् ॥२१॥नमो मोक्षप्रमोदानां दातृभ्यां सर्वसम्पदाम् ।नमः शोकपरिहारकर्तृभ्यां सर्वदा नमः ॥२२।विशोकौ दुःखनाशाय विशोकौ वरदौ च मे ।विशोकौ मम सम्पत्त्यै विशोकौ सर्वसिद्धये ॥२३॥भवतां मम शोकानां सर्वेषां नाशकौ प्रभू ।शुक्लाम्बरैः समावेष्ट्य शूर्पं सम्पूजयेत् फलैः ॥२४॥वस्त्रैर्नानाविधैस्तद्वत् सुवर्णकमलेन च ।पूजयित्वा भोजयेच्च दुग्धपाकादिकं शुभम् ॥२५॥त्रिकालं पूजयेच्चापि कमलैर्भोजयेदपि ।रजन्यां च व्रती शीतं दर्भोदकं पिबेच्छुचि ॥२६॥ततस्तु जागरं गीतनृत्यवाद्यान्वितं चरेत् ।प्रातः प्रपूजयेल्लक्ष्मीमशोकां श्रीपतिं तथा ॥२७॥दम्पतीं पूजयेच्चापि विप्राणां विधिना ततः ।वस्त्रभूषाभोज्यपात्रशृंगारशाटिका दिशेत् ॥२८॥धनदानानि रत्नानां धेनूनामर्पणानि च ।यथाशक्ति प्रकुर्याच्च भोजयेद् बालबालिकाः ॥२९॥साधून् साध्वीर्भोजयेच्च दद्यादन्नानि सर्वतः ।परिहारं प्रकुर्याच्च दक्षिणः प्रदिशेत्तथा ॥३०॥अनेन विधिना कुर्याद् विशोकाललिताव्रतम् ।विशोकाद्वादशीरूपं शोका नश्यन्ति तस्य वै ॥३१॥धेनुदानं सोपधानशय्यादानं धनार्पणम् ।प्रकुर्याच्च ललिताश्रीलक्ष्मीं स्तुवीत भावतः ॥३२॥यथा न लक्ष्मीः सम्पच्च मां परित्यज्य गच्छति ।तथा सुरूपताऽऽरोग्यमशोकः सन्तु मे सदा ॥३३॥यथा भक्तिर्भवेदग्र्या श्रीकृष्णवल्लभे मम ।यथा कृष्णो बालकृष्णः सलक्ष्मीको मम गृहे ॥३४॥सदा वसेत्तथा शूर्पलक्ष्मीदानं करोमि च ।सुवर्णकमलं रम्यं करवीरं च कुंकुमम् ॥३५॥केतकीं सिन्दुवारं च मल्लिकां केसरं तथा ।कज्जलं चाऽलक्तकं च चन्दनं च कदम्बकम् ॥३६॥रञ्जनं गन्धितैलं च गन्धसारं ददामि च ।सर्वशृंगारपुष्पाणि ददामि सौख्यहेतवे ॥३७॥पठनाच्छ्रवणाच्चापि स्मरणात्करणादपि ।भुक्तिर्मुक्तिर्भवेदेव विशोकललिताव्रतात् ॥३८॥अथ कृष्णलालनाख्यं व्रतं वच्मि च ते रमे ।विभूतयो भवन्त्येव कृष्णलालनसद्व्रतात् ॥३९॥कार्तिके चैत्रके वैशाखके मार्गे च फाल्गुने ।आषाढे शुक्लके दिनत्रयात्मकं व्रतं त्विदम् ॥४०॥सुलघुभुग् दशम्यां तु रात्रौ शीलव्रती भवेत् ।कृत्वा सायन्तनीं पूजां गृह्णीयान्नियमं व्रती ॥४१॥एकादश्यां निराहारं करिष्येऽहं व्रतं त्विति ।नमो नारायणायेति प्रातरुत्थाय चिन्तयेत् ॥४२॥स्नात्वैकादशिकाप्रातर्मण्डपे पूजयेत् प्रभुम् ।अनादिश्रीकृष्णनारायणं मां पुरुषोत्तमम् ॥४३॥शुक्लपुष्पाक्षतवारिकुंकुमचन्दनादिभिः ।नमो विभूतये पादौ नमोऽशोकाय जानुनी ॥४४॥नमः कृष्णयेत्यूरू च विश्वमूर्ते नमः कटिम् ।कन्दर्पाय नमो मेढ्रं फलं नारायणाय च ॥४५॥दामोदरायेत्युदरं वासुदेवाय च स्तनौ ।माधवायेत्युरो विष्णोः कण्ठमुत्कण्ठिने नमः ॥४६॥श्रीधराय मुखं केशान् केशवायेति मस्तकम् ।पृष्ठं शार्ङ्गधरायेति श्रवणौ श्रुतिवेदिने ॥४७॥हरये शंखचक्रासिगदाजलजपाणये ।शिरः सर्वात्मने तस्मै नम इत्यभिपूजनम् ॥४८॥मत्स्यमुत्पलसंयुक्तं हैमं कृत्वा तु शक्तितः ।उदकुंभे न्यसेत्तच्च दाने प्रपूज्य वै दिशेत् ॥४९॥गुडपात्रं तिलैर्युक्तं सितवस्त्राभिवेष्टितम् ।फलानि विविधान्येव दाने प्रपूज्य चार्पयेत् ॥५०॥आरार्त्रिकं प्रकुर्याच्च विभूतिश्रीश्रीकृष्णयोः ।नैवेद्यानि विचित्राणि प्रातर्मध्ये निशामुखे ॥५१॥दत्वा प्रस्वापयेच्चापि गीतवादित्रकोत्सवैः ।जागरणं व्रती कुर्यात् प्रातः स्नात्वा प्रपूज्येत् ॥५२॥द्वादश्यां प्रार्थयेच्चापि पद्मं दद्याद् द्विजाय तु ।उदकुंभं सरत्नं च गां दद्याद् गुरवे तथा ॥५३॥यथा न मुच्यसे कृष्ण सदा सर्वविभूतिभिः ।तथा मामुद्धराऽशेषदुःखसंसारसागरात् ॥५४॥शय्यां दद्याद् धनं दद्याद् ग्रामं क्षेत्रं गृहादिकम् ।गुरुं सम्पूज्य विधिवद् भूषावस्त्राणि चार्पयेत् ॥५५॥अधनः पूजयेत्पुष्पैर्भोजनान्नं दिशेद् व्रती ।अनेन विधिना यस्तु कृष्णलालनसद्व्रतम् ॥५६॥विभूतिसम्प्रदं कुर्यात्तस्यर्द्धयः पदे पदे ।पापानि तस्य नश्यन्ति पितॄणां तारयेच्छतम् ॥५७॥जन्मनां शतसाहस्रं न शोकफलभाग् भवेत् ।न तु व्याधिर्भवेत्तस्य न दारिद्र्यं न बन्धनम् ॥५८॥यावद् युगसहस्राणां शतमष्टोत्तरं भवेत् ।तावत् स्वर्गे वसेच्चापि भूपतिः सः पुनर्भवेत् ॥५९॥व्रतं कृत्वा हरेर्धाम प्रयात्येव न संशयः ।सर्वान् कामानश्नुते च कृष्णेन हरिणा सह ॥६०॥शृणु लक्ष्मि कल्पे रथन्तरेऽभूल्लुब्धको ह्यघी ।परुषाख्यः स मांसदो दुर्गन्धश्चातिपापवान् ॥६१॥भार्याऽप्यस्यातिदुष्टा च व्यभिचारपरायणा ।जीवहिंसापरौ तौ त्वेकदा वने सरोवरात् ॥६२॥पद्मान्यादाय बहूनि विक्रयार्थं तु वैदिशम् ।नगरं ययतुश्चापि विक्रयो न व्यजायत ॥६३॥निराशौ तावता रात्रौ क्षुधितौ श्रमितावुभौ ।प्रासादसन्निधौ मार्गे सुप्तौ शुश्रुवतुः शनैः ॥६४॥मण्डपे श्रीहरेः पूजाशब्दान् वेश्याकृतान् शुभान् ।माघे रात्रौ शुक्लपक्षे चैकादश्यां वरांगना ॥६५६॥गणिकाऽनंगवतीति जगौ तदा सुगीतिकाः ।पूजयित्वा तदा रात्रौ दानं ददौ तु सा बहु ॥६६॥गुरवे साधवे वेदविप्राय शयनादिकम् ।लवणाचलमेवापि मूर्तिं विष्णोस्तु कानकीम् ॥६७॥धनान्यपि बहूनि च धान्यानि विविधानि च ।अलंकृत्य हृषीकेशं सौवर्णाम्बरपादपम् ॥६८॥तां तु दृष्ट्वा ततस्ताभ्यामिदं हि परिनिश्चितम् ।इमानि कमलान्यत्र पूजायां दद्व एव ह ॥६९॥एवं भक्त्या दत्तवन्तौ वेश्यापि च धनं शतम् ।दातुं समारभताऽपि तौ तु जग्रहतुर्न तत् ॥७०॥दत्तमन्नं भोजनार्थं तौ तु जग्रहतुर्न तत् ।प्रसंगादुपवासस्य माहात्म्यं संविदित्य वै ॥७१॥जागरणं कृतवन्तौ प्रातर्द्वादशिकाऽभवत् ।प्रभाते वेश्या दत्ता शय्या सलवणाचला ॥७२॥गृहाणि गुरवे भक्त्या विप्रेभ्यो द्वादशाऽपि च ।वस्त्रालंकारसंयुक्ता गावश्च वत्सिकायुताः ॥७३॥भोजनं च सुहृन्मित्रदीनान्धकृपणैः समम् ।लुब्धकेन तथा नार्या दृष्टमेतत्प्रपूजनम् ॥७४॥श्रीहरेर्द्वादशिकायां प्रसादः शर्करात्मकः ।चरणामृतसलिलं गृहीतं च ततः परम् ॥७५॥ययतुः स्वगृहं तौ च वेश्यापि स्वगृहं गता ।भक्तिमन्तस्त्रयस्ते वै कालेन निधनं गताः ॥७६॥पुष्करप्रार्पणात्तत्र केशवार्पणसत्फलात् ।विनष्टाशेषपापश्च पुण्यवान् लुब्धकः स तु ॥७७॥पुष्करवाहनो राजाऽभवत् पुष्करखण्डके ।राज्ञो नाम्ना महाखण्डः पुष्कराख्योऽभवत् पुरा ॥७८॥भक्त्या तुष्टेन हरिणा कृष्णलालनसद्व्रतात् ।व्रतसन्तुष्टया लक्ष्म्या विभूत्या भूभृतेऽर्पितम् ॥७९॥कमलं काञ्चनं रम्यं कामदं कामगं परम् ।लोकैः समस्तैर्नगरवासिभिः कमलेन सः ॥८०॥विमानाख्येन नाकं सद्वीपानि व्यचरन्नृपः ।सप्तमः पुष्करस्याऽस्य द्वीपः पुष्करनामकः ॥८१॥पुष्पवाहननामाऽपि पुष्करासन इत्यपि ।ख्यातिं प्राप तथा राज्ञी नारीसहस्रपूजिता ॥८२॥नाम्ना लावण्यवतीति बभूव कमलासमा ।पुत्रास्तस्यामयुतं सम्बभूवुः पुष्करस्य वै ॥८३॥या च वेश्या सापि जाता सपत्नी भूभृतो वधूः ।देहान्ते नृपतिश्चापि लवण्या च प्रिया ह्युभौ ॥८४॥ययतुश्चाक्षरं धाम मम लक्ष्मि परं पदम् ।सपत्नी या तु वेश्याऽभूत् सा त्यक्त्वा योषितो वपुः ॥८५॥कामदेवस्य वै पत्नी प्रीतिः रत्याः सपत्निका ।लोकेष्वानन्दजननी व्यजायत सुरेश्वरी ॥८६॥कृष्णलालनसंज्ञं च विभूतिद्वादशीव्रतम् ।पुष्करपुष्पसंज्ञं वा व्रतमेतदुदीरितम् ॥८७॥यथाकथञ्चित्कमले कमलैर्द्वादशी तिथिः ।हरिं प्रपूज्य कर्तव्या देयं दानं च दक्षिणाः ॥८८॥न वित्तशाठ्यं कुर्वीत भक्त्या दिशेद् यथाधनम् ।सुवर्णकमलं यद्वा देयं पद्मं जलोद्भवम् ॥८९॥देयं वा स्थलकमलं कमलेशः प्रसीदति ।ददाति सार्वभौमं च राज्यं स्वर्गं दिवं परम् ॥९०॥सत्यं ददाति वा सौरं चान्द्रं ब्राह्मं पदं च वा ।वैराजं वैष्णवं वापि पदं श्रीपुरमित्यपि ॥९१॥वैकुण्ठं वापि गोलोकं चाव्याकृतं तथाऽमृतम् ।अक्षरं परमं धाम ब्रह्मधाम ददात्यपि ॥९२॥अहं विभूतिनाथोऽस्मि ददामि पूजकाय वै ।अनन्तगुणकं लक्ष्मि विभूतिद्वादशीव्रतैः ॥९३॥चक्रवर्तिनृपा लक्ष्मि ये ये भवन्ति भूतले ।जाताः पूर्वेषु कल्पेषु विभूतिद्वादशीव्रतैः ॥९४॥कमलं कमलास्थानं सौवर्णं तु मया सह ।कमलस्य प्रदानेन कमलासहितस्त्वहम् ॥९५॥वसामि दातरि चापि ममांऽशेन चिरायुषि ।चक्रचिह्नं प्रददामि करे वै चक्रवर्तिनः ॥९६॥मध्यांगुलिद्वयोः शंखौ शेषाणां चक्रकाष्टकम् ।साक्षान्नारायणस्यैवं सन्ति चक्राणि पद्मजे! ॥९७॥पद्मं करे पदे पद्मं चक्रं वा चक्रवर्तिनः ।एवं करे ध्वजचिह्नं ध्वजदातुर्ददामि वै ॥९८॥त्रिशूलार्पणकर्तुश्च त्रिशूलं प्रददामि च ।धनुष्यदातुः सशरं धनुष्यं प्रददामि च ॥९९॥मत्स्यदातुः करे मत्स्यं ददामि सर्वशोभनम् ।स्वस्तिकस्य प्रदातुश्च स्वस्तिकं प्रददामि च ॥१००॥सुवर्णानां ध्वजादीनां दात्रे ददामि सर्वथा ।ससागरां पृथिवीं वै चक्रवर्तित्वमित्यपि ॥१०१॥यस्य दक्षकरे स्युश्च ध्वजः शूलो धनुः शरः ।मीनः स्वस्तिक एते षट् सोऽहं नारायणः स्वयम् ॥१०२॥लक्ष्मि साधुस्वरूपेण हृदये त्वां निधाय च ।वामसक्थ्नि पाण्डुराभां धृत्वा वसामि भूतले ॥१०३॥अदृश्या त्वं जनैर्लक्ष्मि मत्सेवाया विराजसे ।तदा साधुस्वरूपे चाऽधुना त्वं पृथगेव या ॥१०४॥त्वं विभूतिस्वरूपाऽसि व्रतैर्विभूतिदायिनी ।वामहस्ते दण्डदीर्घरेखा मे। धर्मबोधिनी ॥१०५॥पादयोरुभयोरुर्ध्वरेखे मे व्यापिके द्वयोः ।धामसृष्ट्योरन्तरात्मबोधिन्यौ तेऽपि तद्विधे ॥१०६॥मद्भक्तस्य कृपया मे चिह्नमेतद् भवेदपि ।पठनाच्छ्रवणादस्य विभूतिफलमाप्नुयात् ॥१०७॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने विशोकललिताद्वादशीव्रतस्य, विभूतिललिताकृष्णलालनव्रतस्य च निरूपणम् पुष्करवाहनाख्यस्य चक्रवर्तिनोदृष्टान्तः चक्रवर्तिचिह्नानि चेति निरूपणनामा नवत्रिंशदधिकशततमोऽध्यायः ॥१३९॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP