संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः १४९

द्वापरयुगसन्तानः - अध्यायः १४९

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
शृणु त्वं शिवराज्ञीश्रि स्वप्ने दृष्टे शुभे शुभम् ।
फले सञ्जायते द्रष्टुः पुनर्निद्रां न चाऽऽचरेत् ॥१॥
शैलप्रासादनागाऽश्ववृषभारोहणं शुभम् ।
द्रुमाणां श्वेतपुष्पाणामारोहणं शुभं मतम् ॥२॥
द्रुमतृणोद्भवो नाभौ तथैव बहुबाहुता ।
तथैव बहुशीर्षत्वं फलितद्रुसमुद्भवः ॥३॥
शुक्लमाल्याम्बरधृतिः सर्वागपरिमार्जनम् ।
चन्द्रार्कतारकास्पर्शः शक्रध्वजाधिलिंगनम् ॥४॥
शक्रध्वजोच्छ्रायकर्म शत्रूणां वधदर्शनम् ।
भूम्यम्बुधीनां ग्रसनं वादे द्युते मृधे जयः ॥५॥
भक्षणं चार्द्रमांसानां मत्स्यानां पायसस्य च ।
दर्शनं रुधिरस्यापि स्नानं वा रुधिरेण च ॥६॥
सुरारुधिरमद्यानां पानं क्षीरस्य चापि वै ।
अन्त्रैर्वा वेष्टनं भूमौ निर्मलव्योमदर्शनम् ॥७॥
मुखेन दोहनं गोश्च महिष्या हस्तियोषितः ।
सिंहीनां वडवानां च व्याघ्रीणां दोहनं शुभम् ॥८॥
प्रसादो देवसाधूनां गुरूणां योग्ययोगिनाम् ।
विप्राणां च प्रसादोऽपि सतीनां धर्मयोषिताम् ॥९॥
अंभसा त्वभिषेकश्च गवां शृंगाश्रितेन वा ।
चान्द्रजलेन वा गंगाजलेन व्योमवारिणा ॥१०॥
सोऽयं राज्यप्रदो बोध्यश्चाभिषेकः शुभावहः ।
स्वप्ने राज्याभिषेकश्च घिष्ण्याभिषेक उत्तमः ॥११॥
छेदनं शिरसश्चापि विघ्ननाशाभिबोधकम् ।
लब्धिश्च राज्यचिह्नानां तन्त्रीवाद्यभिवादनम् ॥१२॥
तथोदकानां तरणं तथा विषमलंघनम् ।
करेणुवडवानां च गवां च प्रसवो गृहे ॥१३॥
आरोहणमथाश्वानां हस्तिनां रोहणं तथा ।
वृषभारोहणं चापि विमानारोहणं शुभम् ॥१४॥
वरस्त्रीणां तथा लाभश्चालिंगनं सुयोषितः ।
सुवर्णैः पूजनं श्रेष्ठं देहे विष्ठानुलेपनम् ॥१५॥
जीवतां भूभृतां पित्रोर्गुरूणां दर्शनं सताम् ।
साध्वीनां स्वप्रियायाश्च दर्शनं सौम्यमुत्तमम् ॥१६॥
दर्शनं देवतानां च विमलानां तु योगिनाम् ।
वारीणां निर्मलानां चोत्सवानां दर्शनं शुभम् ॥ १७॥
वृक्षाणां फलपुष्पैश्च युक्तानां दर्शनं वरम् ।
वल्लीनां दर्शनं श्रेष्ठमुद्यानानां शुभप्रदम् ॥ १८॥
वाटिकानां ससस्यानां क्षेत्राणां दर्शनं शुभम् ।
सजलानां च सरितां मेघानां सरसां तथा ॥ १९॥
दर्शनं चापि हंसानां पिकानां दर्शनं शुभम् ।
चातकानां मयूराणां गरुडानां च दर्शनम् ॥२०॥
मेनानां चित्रपक्षाणां शुक्लानां दर्शनं शुभम् ।
हरिणानां हनूमतां गवयानां च दर्शनम् ॥२१॥
खड्गमृगाणां च तथा गण्डकानां च दर्शनम् ।
शुभदं रक्तसर्पाणां दंशनं दर्शनं वरम् ॥२५॥
नाणकानां रूप्यकाणां सुवर्णानां च दर्शनम् ।
भूषणानां च हाराणां दिव्याम्बराणां दर्शनम् ॥२३॥
शुभं चन्दनकुंकुमाऽक्षतदर्भादिदर्शनम् ।
चापि शृंगारवस्तूनां मांगलिकादिदर्शनम् ॥२४॥
गणिकादर्शनं नृत्यकारिणीदर्शनं तथा ।
राज्ञीनां दर्शनं देवीदर्शनं ब्राह्मणीक्षणम् ॥२५॥
कन्यकादर्शनं साधुदर्शनं देवदर्शनम् ।
मन्दिरालयभवनानां तु वै दर्शनं शुभम् ॥२६॥
भक्तानां दर्शनं चापि दिव्यप्रासाददर्शनम् ।
आरार्त्रिकाद्युत्सवानां दर्शनं कीर्तनश्रवः ॥२७॥
कथायाः श्रवणं चापि मण्डपादिप्रदर्शनम् ।
पूज्यानां दर्शनं स्वप्ने पूज्यैः पादाभिमर्दनम् ॥२८॥
गुरुणा चापि पित्रा वा निजदेहाभिमर्दनम् ।
पादसंवाहनं चापि सर्वकार्यजयप्रदम् ॥२९॥
गणेशदर्शनं चापि हरेः पार्षददर्शनम् ।
वरयात्रादर्शनं च यज्ञयागादिदर्शनम् ॥३०॥
प्रतिष्ठोत्सववीक्षा च सम्मानं प्रजया कृतम् ।
स्त्रीवर्गैरक्षताद्यैश्च वर्धनं चाशिषा मुहुः ॥३१॥
स्वर्णाम्बरादिधृतिका दिव्यमालादिधारणम् ।
लेखनं पूजनं प्रियारतिप्रदर्शनं तथा ॥३२॥
पुष्पाणां वर्षणं चापि शुभकृत् स्वप्नवीक्षितम् ।
इत्येवमादिवीक्षा वै स्वप्ने सर्वार्थसाधिका ॥३३॥
तथा लक्ष्मि प्रवक्ष्यामि यात्रायां शकुनानि ते ।
सफला वै भवेद् यात्रा प्रजानां नृपतेरपि ॥३४॥
साधूनां चापि नारीणां सर्वेषां सफला भवेत् ।
अदुःखा चेष्टफलदा ऋद्धिदा च भवेत्तथा ॥३५॥
श्वेताः सुमनसः श्रेष्ठाः पूर्णकुंभास्तथाऽबलाः ।
कन्यका भूषणशोभा जलजाः पक्षिणस्तथा ॥३६॥
सगर्भा शफरी मांसं मात्स्याश्च युगलं वधूः ।
गावस्तुरंगमा नागा बुद्ध एकः पशुर्वृषः ॥३७॥
अजस्त्वेको वरराजस्त्रिदशाः सुहृदः स्त्रियः ।
विप्राश्च वैष्णवाः सन्तः सशिखाश्च सपुण्ड्रकाः ॥३८॥
वह्निः प्रकाशितो ज्वालायुतो राजा च सद्गुरुः ।
विद्वान् धर्मी व्रती श्रेष्ठी निर्दंभो दानदक्षिणः ॥३९॥
गणिका च सती साध्वी दूर्वा चार्द्रं च गोमयम् ।
रुक्म रूप्यं च ताम्रं च माणिक्यरत्नहीरकाः ॥४०॥
मौक्तिकानि स्फटिकानि भूषणानि नवाम्बरम् ।
नवं यानं नवा स्त्रीश्च नवं वाहनमित्यपि ॥४१॥
नवान्नं च यवाः सिद्धार्थका ओषधमित्यपि ।
नृयानं भद्रपीठं च स्वर्णराजतवस्तुकम् ॥४२॥
देवरथो वाद्यगीतिनृत्यमण्डलमुत्सवः ।
खङ्गं छत्रं पताका च निशानं भेरिकादिकम् ॥४३॥
आयुधानि मृदश्चापि सस्याभारः फलिद्रुमः ।
राजचिह्नानि सर्वाण्याचार्यचिह्नानि यानि च ॥४४॥
घृतं दधि पयश्चापि फलानि विविधानि च ।
सभूषो मान्यपुरुषो स्वस्तिकं वर्धमानकम् ॥४५॥
ताम्बूलदर्शनं चापि नन्द्यावर्तं च कौस्तुभः ।
हाराः पात्राणि रम्याणि वादित्रवादनश्रवः ॥४६॥
गान्धारषड्जऋषभाः स्वरा मिष्टाश्च गीतिकाः ।
पृष्ठे वायुप्रवाहाश्चानुकूलाः सुखदाः सदा ॥४७॥
क्रव्यादाः सुस्वराश्चापि मेघानां गर्जनास्तथा ।
विद्यतः शक्रचापं च गजबृंहणमित्यपि ॥४८॥
प्रसन्नता शुभश्रुतिः पूज्यानामभिवन्दनम् ।
गुर्वाशीर्वादवाचश्च मनस्तुष्टिर्मनःप्रियम् ॥४९॥
एकतः सर्वचिह्नानि मनसस्तुष्टिरेकतः ।
मंगलानां कुंकुमानामक्षतानां च दर्शनम् ॥५०॥
गौः सवत्सा चाश्ववारो हरिणः कृष्ण इत्यपि ।
मेना शुकः सारिकाश्च कोकिलो मण्डुकध्वनिः ॥५१॥
पित्रोर्वचः पृष्ठतश्च गुरोर्वाक्यं तथाविधम् ।
चन्द्रकः पुष्पहारादिः पत्रं दलं च भोजनम् ॥५२॥
मिष्टान्नानि विचित्राणि पूजकः कथकस्तथा ।
सेवकः श्रेष्ठभक्तोऽपि दधि दीपः सुधूपकः ॥५३॥
वेदघोषाः स्तवनानि बालानां खेलनादिकम् ।
कन्यकानां नर्महास्यं वधूटीनां निरीक्षणम् ॥५४॥
तालिकावादनं चापि जयशब्दश्रवस्तथा ।
समाजसंघसन्मानं चाह्वानं तु प्रसन्मुखात् ॥५५॥
गोधूमांकुरशष्पाणां दर्शनं पूर्णपात्रकम् ।
नमस्कारो हर्षनादो दैवादब्भ्रकणागमः ॥५६॥
पुष्पाणां पतनं चापि मञ्जरीणां द्रुमात्तथा ।
यात्राकाले स्वशिरसि मंगलं लाभसूचकम् ॥५७॥
लाजानां वर्षणं चापि पूजास्थालीप्रदर्शनम् ।
उड्डयनं हयानां च मंगलं जयसूचकम् ॥५८॥
शुभवार्ताश्रवणं च देवगुर्वागमो हुतम् ।
ध्वजानां दर्शनं चापि देववाद्यश्रवस्तथा ॥५९॥
गालवाद्यश्रवश्चापि नवपल्लवदर्शनम् ।
मुद्राणां दर्शनं चापि सौभाग्याढ्याऽङ्गनेक्षणम् ॥६०॥
कान्तस्य दर्शनं पत्न्याः कान्ताह्वानं प्रियं वचः ।
आज्ञावचनमेवापि नारायणाभिधाश्रवः ॥६१॥
समस्तजातिभूतानां बाल्यपोषणभोजनम् ।
स्तन्यपानयुतं बालं वत्सं पशुं च पक्षिणम् ॥६२॥
कणाद्यादि भक्षयन्तं समातृकं हि दर्शनम् ।
ग्रामग्रहपशुपक्षिजीवानां रतिकर्म च ॥६३॥
दीयमानानि दानानि शृंगारश्चापि गोपुरे ।
प्राकारे चापि शृंगारो गृहाग्रे रङ्गवल्लिका ॥६४॥
चन्द्रशाला ध्वजायुक्ता दृश्यते तद्धि मंगलम् ।
चैत्यद्रुमा ध्वजायुक्ताश्चैत्यभौतिकभूमयः ॥६५॥
तोरणानि च पत्राणामार्द्राणां मंगलानि वै ।
चन्दनैः कृतलेपाश्च भित्तयो राजमार्गकाः ॥६६॥
सुगन्धिवारिसेकश्च मंगलायतनो हि सः ।
पादुकादर्शनं चापि गुरोर्मूर्तेः प्रदर्शनम् ॥६७॥
समुद्रदर्शनं चापि सरितां पूरदर्शनम् ।
दिव्यकुमारवीक्षा च दिव्यकुमारिकेक्षणम् ॥६८॥
नवीनयन्त्रवीक्षा च गुरुमन्त्रागमस्तथा ।
आख्यानश्रवणं चापि पूर्वजस्मरणं तथा ॥६९॥
अवतारस्मृतिश्चापि महोत्सवादिदर्शनम् ।
पक्वफलानि सर्वाणि सशाखाऽपक्वकान्यपि ॥७०॥
सशिम्बिकणिशाढ्याश्च स्तम्बाः शाखाश्च वै द्रुमाः ।
नवपल्लवशोभाश्च दर्शने सम्पदां प्रदाः ॥७१॥
मसीपात्रान्मसीप्रस्रवणं मस्याः प्रपातनम् ।
कुंकुमक्षरणं चापि नितम्बस्फुरणं तथा ॥७२॥
उपदार्पणमेवापि द्रव्यस्थालार्पणादिकम् ।
सर्वं मिष्टं च यात्रायां मुखे कवलरूपि च ॥७३॥
मंगलं जायते लाभप्रदं जयप्रदं तथा ।
सिंहचर्म मृगचर्म व्याघ्रगजादिचर्मकम् ॥७४॥
स्वर्णपट्टः पट्टिका च घण्टा सिंहस्य गर्जना ।
हस्तिनां चिन्निनादाश्च मंगलानि भवन्ति हि ॥७५॥
हस्ते द्रव्यार्पणं त्वन्यैः कृतं रत्नार्पणादिकम् ।
कुंकुमाऽक्षतदानं च तालिकादानमित्यपि ॥७६॥
करप्रदानं श्रेष्ठं च मनोदानं तथोत्तमम् ।
एतादृशेषु योग्येषु मंगलेषु तु मंगलम् ॥७७॥
जयो लाभो वर्धनं सम्मानं स्थानं यशो बलम् ।
उदयश्चोन्नतिर्लक्ष्मीः सुखमृद्धिरपत्यकम् ॥७८॥
इत्येवमाद्या जायन्ते गार्हस्थ्ये तु विशेषतः ।
विपरीतान् कथयामि शृणु लक्ष्मि भयप्रदान् ॥७९॥
वायुः सशर्करो रूक्षः सम्मुखे वाति दुःखदः ।
शत्रुर्नीचो दुष्टजनो दृश्यते चेद्भयप्रदः ॥८०॥
मुसलधारवर्षा तु प्रतिलोमा न शोभना ।
अनुलोमा ग्रहाः शस्ता बृहस्पतिर्विशेषतः ॥८१॥
चन्द्रमाः सन्मुखः श्रेष्ठः श्रेष्ठा कन्या च सन्मुखे ।
प्रयाणे ध्वजवस्त्राणां यष्टेश्छत्रस्य पादयोः ॥८२॥
पादुकाया भूषणादेः पतनं दुःखदं मतम् ।
शस्त्रादेः पतनं चोपकरणादेर्दुरन्तकृत् ॥८३॥
निर्गतस्य द्वारदेशे शिरसश्चाभिघातिता ।
पदाग्राघातनं चापि क्षुवनं कुत्सप्रश्नता ॥८४॥
पृष्टिः क्वगमनाद्या चाऽमंगलं दुःखदं हि तत् ।
स्खलनं वाहनानां च वस्त्रसंगस्तु कीलके ॥८५॥
ध्वजे क्रव्यादस्य दुष्टं निषदनं हि दुःखदम् ।
क्व यासि तिष्ठ मा गच्छ पृष्ठतो गच्छशब्दता ॥८६॥
किं ते गतस्य तत्र स्यादित्येवमधिक्षिप्तता ।
बाह्यशब्दस्त्रासयुक्तो भिन्नभैरवजर्जरः ॥८७॥
अनिष्टाः शापशब्दाश्च दुःखाऽमंगलकारिणः ।
पुरतः शब्द एहीति शस्यते न तु पृष्ठतः ॥८८॥
रक्तानि चापि भाण्डानि मृतं शृंगि शवं तथा ।
तुषभस्मकपालाऽस्थिभिन्नभाण्डाम्बराणि च ॥८९॥
वधकाः पापकर्माणो रण्डा तु गर्भिणी तथा ।
चाण्डालः श्वपचश्चापि जल्लादाः पाशधारिणः ॥९०॥
तथैवोद्धृतसाराणि पिण्याकादीनि यानि च ।
खण्डितानि फलादीनि केशबन्धनचर्मकम् ॥९१॥
अयः पंकः षण्ढ उन्मत्तश्च कंगाल इत्यपि ।
विकीर्णकेशा रुजार्ता गैरिकाम्बरमित्यपि ॥९२॥
तैलाक्तो मलिनो मुण्डी नग्नोऽगारस्तथेन्धनम् ।
कार्पासं च तृणं शुष्कं काष्ठं शुष्कं च गोमयम् ॥९३॥
धान्यं कृष्णं चौषधानि भ्रष्टानि दूषितानि च ।
कदर्यदर्शनं चापि क्लिन्नवस्तुप्रदर्शनम् ॥९४॥
हस्तेनाऽऽकर्षणं पश्चाद् वस्तूनां विस्मृतिस्तथा ।
चौर्यं चोपकरणानां विगमो मुख्यवस्तुनः ॥९५॥
अवमानं चाऽश्रुपातः स्खलनं लुण्ठनं स्वपिः ।
ज्वरो निरोधश्चक्रादेर्भंगो हेतिस्रवस्तथा ॥९६॥
गुदाविष्ठादर्शनं च तथा शष्पादिदर्शनम् ।
एवमादीनि सर्वाणि दुःखदानि प्रयाणके ॥९७॥
प्रयाणारंभसमये महीमानागमस्तथा ।
प्रधानागम एवापि विघ्नकृद् विघ्नदुःखदः ॥९८॥
एवमादीनि विज्ञाय गच्छेन्नैव निवर्तयेत् ।
हरेर्मे पूजनं कृत्वा कालान्तरे प्रवासयेत् ॥९९॥
शान्तिकर्म प्रकर्तव्यं होमो जपः प्रपूजनम् ।
भोजनं साधुविप्राणां दानानि च महोत्सवः ॥१००॥
देवानां पूजनं चापि पितॄणां तर्पणं तथा ।
ऋषीणां यजनं चापि भौतिकानां सुतृप्तता ॥१०१॥
एवमादीनि कार्याणि नामसंकीर्तनं हरेः ।
कथायज्ञाः प्रकर्तव्याः शान्तिकर्माणि यानि च ॥१०२॥
लक्ष्मि चैवं कृते नाशं यान्ति दुरितकानि ह ।
पठनाच्छ्रवणाच्चापि दुरितानि वियन्ति वै ।
भुक्तिर्मुक्तिर्भवेच्चापि शान्तिकर्मादिभिः सदा ॥१०३॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने यात्रार्थप्रयाणे शुभशकुनस्वप्नादीनि विपरीतानां निवृत्त्यर्थं पूजाशान्तियज्ञादिश्चेतिनिर्देशनामा नवचत्वारिंशदधिकशततमोऽध्यायः ॥१४९॥

N/A

References : N/A
Last Updated : May 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP