संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः २०७

द्वापरयुगसन्तानः - अध्यायः २०७

लक्ष्मीनारायणसंहिता


पुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं क्षेत्रपस्य कथां शुभाम् ।
नाम्ना नाञ्जकदेवस्य मम भक्तस्य तारणीम् ॥१॥
नाञ्जभक्तोऽभवच्छूरः सीमक्षेत्रप्ररक्षकः ।
कुंकुमे लौमशे क्षेत्रे शस्त्रास्त्रविन्महाबलः ॥२॥
सीम्नि वसति नित्यं स नगरे याति चोत्सवे ।
सस्यरक्षाकरो नाञ्जो वाटिकानां च रक्षकः ॥३॥
खलस्थाऽन्नकणगञ्जरक्षकश्च स एव सः ।
रात्रिन्दिवं भ्रमत्येषो रक्षार्थं परितः क्षितौ ॥४॥
चौरापहारकेभ्यश्च रक्षां करोति सर्वथा ।
कर्षुकाणां च धनिनां नागरिकादिसम्पदाम् ॥५॥
पत्रकाण्डादिकानां च सञ्चयानां तु सीमसु ।
नित्यं मां भजते नाम्ना श्रीकृष्णश्रीनरायण ॥६॥
मालामावर्तयत्येव मार्गेषु सीमभूमिषु ।
नाञ्जस्य नाम संश्रुत्वा चौरा नायान्ति तां दिशम् ॥७॥
भक्तो भक्तौ निपूणोऽति धर्मेऽपि पूजनेऽपि मे ।
भजने कीर्तने ध्याने यत्नवान् वर्तते सदा ॥८॥
साधूनां रक्षणे शूरो गवां च दीनयोषिताम् ।
साध्वीनां च सतीनां च वृद्धानां रक्षणे तथा ॥९॥
देवानां दैववृक्षाणां देवभुवां च रक्षणे ।
श्रद्धावान् सेवकश्चाऽयं निर्मानो दासवत् सदा ॥१०॥
एवंविधोऽयं भक्तो मे लक्ष्मि प्रातः सदा मम ।
पूजनं संविधायैव वीक्षार्थं चाऽटवीं प्रति ॥११॥
सर्वदिक्षु प्रयात्येव दुष्टानां शासनाय वै ।
एकदा पूर्वदिग्भागे प्रातः क्रोशद्वयं ययौ ॥१२॥
दूरेऽमरापुरतो वै मृदंगपुरसन्निधौ ।
तत्र शत्रुंजयादेशाल्लुण्टकाः समुपाययुः ॥१३॥
बहवोऽश्वसमारोहाः सशस्त्रा अन्नहारिणः ।
कर्षुकाणां खलभूमेरपहर्तुं खलेषु ते ॥१४॥
विविशुर्वाटिकाभागे कर्षुकास्तु भयं गताः ।
रक्षकं नैव चासाद्य ह्याक्रुश्य कणसञ्चयान् ॥१५॥
विहाय प्रययुर्दूरं तत्र नाञ्जः समाययौ ।
कथं विमनसो यूयं नाञ्जः पप्रच्छ कर्षुकान् ॥१६॥
कर्षुका जगदुस्तं च लुण्टका अन्नहारकाः ।
प्रसह्य खलभूमेश्च हरन्त्यन्नानि नोऽधुना ॥१७॥
रक्षां कुरु बलं ते चेल्लुण्टकेभ्यः प्ररक्षक! ।
श्रुत्वा तूर्णं हरिकृष्णं स्मृत्वा मां पुरुषोत्तमम् ॥१८॥
अश्ववारः स्वयं शीघ्रं दुद्राव तत्स्थलीं प्रति ।
यत्र ते लुण्टकाश्चाऽन्नसञ्चयान् वै हरन्ति ह ॥१९॥
अश्वेषूष्ट्रेषु चान्नानि निक्षिप्य ते वहन्ति वै ।
तान् दृष्ट्वा शूरभाषाभिर्गर्जनां नाञ्जको व्यधात् ॥२०॥
लुण्टका बलिनो यूयं मातृजाः पितृजाः ऋताः ।
मां विजित्य ततो यान्तु जितान्नानान्यथा त्विति ॥२१॥
श्रुत्वा बलोद्भवं शब्दं सन्मुखा युद्धवेदिनः ।
अभवन् शस्त्रयुक्तास्ते नाञ्जस्य विजयाय वै ॥२२॥
शस्त्राणां सहसा क्षेपः सान्निध्ये समजायत ।
प्रावर्तत तदा युद्धं बाणैः शस्त्रैश्च तोमरैः ॥२३॥
एको नाञ्जस्तु विंशत्या सह युद्ध्यति मध्यगः ।
शस्त्रक्षतोऽपि बहुधा मां स्मरन् बहु युद्ध्यति ॥२४॥
नाञ्जस्य भल्लकैर्विद्धा दश वक्षस्सु वै मृताः ।
चौरास्ततो हि चौराणां खङ्गाघातैर्मुहुर्मुहुः ॥२५॥
नाञ्जो निपतितो भूमौ मूर्छायां मां स्मरन् मुहुः ।
तदाऽहं तत्स्थले शूरः खड्गध्रः पार्श्वतो द्रुतम् ॥२६॥
आविरासं महादेहो वज्रांगो युद्धकोविदः ।
खड्गशस्तान् शेषचौरान् बिभेदाऽत्यविचारयन् ॥२७॥
सर्वे मृतिं गताश्चौरा विंशतिस्तत्र वै द्रुतम् ।
एकविंशस्त्वेकचौरो रामरामेतिसंवदन् ॥२८॥
मृत्यवे संययौ मूर्छामाप्तः शीघ्रं विसंज्ञकः ।
ततोऽहं दयया स्पृष्ट्वा रामनामपरायणम् ॥२९॥
उज्जीवयन् प्रभक्तं तं नीरुजं समकारयम् ।
उत्थितः स ततो भक्तो नाम्ना महामयाभिधः ॥३०॥
प्रार्थयन्मां तु नाञ्जस्योज्जीवनार्थं दयावशः ।
ततो नाञ्जं कराभ्यां संस्पृशन्नहं मुहुर्मुहुः ॥३१॥
मूर्छां तस्य व्यपनीयौत्थापयं तं सुखान्वितम् ।
अनादिश्रीकृष्णनारायणं दृष्ट्वा च तौ तदा ॥३२॥
तुष्टुवतुः सार्दभावौ मृतानां प्राणलब्धये ।
अहो नारायणस्त्वं वै रामो राक्षसमोक्षकृत् ॥३३॥
अहो नृसिंहो भगवान् भवान् दैत्यविनाशकृत् ।
अहो कृष्ण हरे राम त्वं गजोद्धारकारकः ॥३४॥
त्वमेवाऽऽसुरनाशार्थं वर्तसे भक्तवत्सलः ।
पापिनां पापनाशश्च जायते तव दर्शनात् ॥३५॥
स्पर्शनात् स्मरणाच्चापि पापिनोऽत्र तरन्ति हि ।
विश्वंभरो भवानास्ते पोषको रक्षकोऽपि च ॥३६॥
हन्ता संकर्षणो रुद्रः कालो भवान् प्रकाशते ।
रक्ष रक्ष कृपासिन्धो मृतानुज्जीवयाऽत्र वै ॥३७॥
चौरयोगेन भक्तोऽपि संगाच्चौरः प्रजायते ।
भक्तो महामयश्चाहं चौर्यकार्येऽभिसंहतः ॥३८॥
तथापि रामनाम्ना त्वं भक्तं रक्षितवानिह ।
नाञ्जं रक्षितवानत्र रक्षा तद्योगतो मम ॥३९॥
जाताऽत्र भगवन् कृष्ण भक्तेच्छासंप्रपूरक ।
भक्तयोगं गताश्चेमे रक्षणीया दयालुना ॥४०॥
मृताश्चेज्जीविताः स्युस्ते भजिष्यन्ति नरायणम् ।
अथवा ते रुचिस्तेषां मोक्षणे चेत्तथा कुरु ॥४१॥
इत्युक्तोऽहं तदा लक्ष्मि मृतानां मोक्षहेतवे ।
स्वर्गवासं प्रथमं वै कृपया समकल्पयम् ॥४२॥
पापान्येषां भक्तयोगान्मद्योगादविनाशयम् ।
याम्यदुःखानि सर्वाणि तच्छिरोभ्यो व्यनाशयम् ॥४३॥
स्मृत्वा देवविमानं च कृत्वा तान् देवविग्रहान् ।
अप्रेषयं दिवं तूर्णं विंशतिं समरे मृतान् ॥४४॥
महामयं तथा नाञ्जं भक्तं करेण वै मुहुः ।
स्पर्शं कृत्वा च नीरुजं यथापूर्वमकारयम् ॥४५॥
पुष्टौ विगतदुःखौ तौ बोधितौ च मया तदा ।
अनित्योऽयं हि संसारो देहोऽनित्यो गृहादयः ॥४६॥
अनित्याः सर्वमायोत्थाः पदार्थाः क्षयगोचराः ।
तथाप्यज्ञा जना नीतिं विहायोत्पथगामिनः ॥४७॥
हिंसायां सम्प्रवर्तन्तेऽपहारे नाशने मुहुः ।
सतां योगं न कुर्वन्ति भजन्ते न परेश्वरम् ॥४८॥
शास्त्रकथां न शृण्वन्ति पापं कुर्वन्त्यसंशयाः ।
तेन याम्यमहादुःखान्यनुभवन्ति दण्डिताः ॥४९॥
पशूनां पक्षिणां जन्मान्यपि गृह्णन्ति पापिनः ।
दुःखोत्तरं च दुःखं सम्प्राप्नुवन्ति विधर्मिणः ॥५०॥
परान्नहरणे जन्म मूषकाणां प्रजायते ।
घृतदुग्धादिहरणे मार्जारजन्मवान् भवेत् ॥५१॥
शाकमूलादिहरणे मायूरं जन्म चाप्यते ।
वस्त्रोपकरणाऽऽच्छेदे माहिषं जन्म जायते ॥५२॥
फलपत्रादिहरणे वानरत्वं प्रजायते ।
स्वर्णरत्नादिहरणे भल्लुकत्वं प्रजायते ॥५३॥
जलपानादिहरणे प्रेतता निर्जले वने ।
दारापुत्र्यादिहरणे षण्ढत्वं गणिकाजनुः ॥५४॥
वाद्यवादित्रहरणे भाण्डत्वं नटता तथा ।
विश्वासघातकानां तु वृकता कृकलासता ॥५५॥
अपहारकृतां चाऽश्वजन्म वाहनजीविनाम् ।
ऋणिनां तु वृषभत्वं निन्दकानां तु मूकता ॥५६॥
षण्ढोक्षत्वं कामिनां च कामिनी तु पिशाचिनी ।
प्रतारको भिक्षुकश्च भवेद् दारिद्र्यदुःखवान् ॥५७॥
देवान्नधनभोक्ता च भवेच्छ्वा काक उन्दुरुः ।
कुलहन्ता नकुलः स्यान्नारीहन्ता तु राक्षसः ॥५८॥
धर्महन्ता भाग्यहीनो वाराहो जायते वने ।
भक्तिहन्ता नारकी स्यान्निर्वंशो यमदूतकः ॥५९॥
मद्यपो मूत्रकीटः स्याद् वृश्चिको विषभक्षकः ।
क्रुद्धः सर्पो भवेच्चापि नीलमर्कटिकस्तथा ॥६०॥
इत्येवं कर्मजन्मानि ज्ञात्वा तानि विवर्जयेत् ।
शुभं कुर्यान्मानवेन देहेन नाऽशुभं क्वचित् ॥६१॥
शुभं धर्मं शुभं ज्ञानं शुभं वैराग्यमित्यपि ।
शुभां भक्तिं प्रकुर्याच्च मोक्षदं सत्समागमम् ॥६२॥
निर्दंभं सत्परिचर्यां कुर्याद्धरेः सतां सदा ।
कृष्णमन्दिरवाट्यादि कारयेल्लेपमार्जने ॥६३॥
पादसंवाहनं देहमर्दनं च सतां क्रियात् ।
नैवेद्यं भोजनं वारिपानं दद्यात्तु शार्ङ्गिणे ॥६४॥
सद्यो दद्याद् यथेष्टं च सेवेत गुरुमण्डलम् ।
कथां च शृणुयान्नित्यं नामकीर्तनमाचरेत् ॥६५॥
आत्मनिष्ठया वर्तेत ब्रह्मरूपेण चात्मना ।
जानीयान्मां हरिं दिव्यं सर्वदोषविवर्जितम् ॥६६॥
वार्तां मदीयां कुर्याच्च स्नेहं कुर्यात् सदा मयि ।
मायामायिककार्येषु रागहीनस्तथा भवेत् ॥६७॥
साधुसेवां च सत्संगं प्रकुर्वीत सदा शुभम् ।
विषयेषु प्रकुर्याच्चाऽरुचिं चान्तेर्मतिर्भवेत् ॥६८॥
अनादिश्रीकृष्णनारायणे मतिं दृढां क्रियात् ।
अन्यत्र मानसं नैव धारयेत्तु कदाचन ॥६९॥
प्रेम्णैव कारयेत् कुर्यात् सेवां मेऽलंकृतिं तथा ।
मम मूर्तिं धारयेच्च मानुषीं देवतां च वा ॥७०॥
मम भक्तेषु वै प्रीतिं कुर्यान्नान्यत्र कुत्रचित् ।
स्त्रीपुत्रादौ बन्धनं तु स्नेहं सदा विवर्जयेत् ॥७१॥
कृष्णसम्बन्धिनीष्वेव क्रियासु व्यापृतो भवेत् ।
कृष्णसम्बन्धशून्याभ्यो निवर्तेत समाहितः ॥७२॥
नित्यं पूजा मम कुर्यात् प्रार्थयेच्च निजं हितम् ।
नारायण हरे कृष्ण विष्णो स्वामिन् परेश्वर ॥७३॥
अधर्ममार्गगाल्लोकात् पाहि मां नास्तिकात्तथा ।
समागमं ते भक्तानां देहि नित्यं शुभं कुरु ॥७४॥
असतां संगमो मा स्यात्तथा रक्षां सदा कुरु ।
चौराणां पापिनां संगं निन्दकानां न मेऽर्पय ॥७५॥
मद्यमांसाशनानां च संगं व्यवायिनां न मे ।
मूर्तिखण्डनकर्तॄणामुपासनाविनाशिनाम् ॥७६॥
संगं मे माऽर्पय कृष्ण शरणागतवत्सल ।
भक्तिं विना दिनं वन्ध्यं मा मे यातु तथा कुरु ॥७७॥
मनोवृत्तिः सदा कृष्णे तिष्ठेत्तथाविधापय ।
सांसारिकेषु चित्तं मे विरागं स्यात्तथा कुरु ॥७८॥
सतां समागमं कृष्ण तव मूर्तेः समागमम् ।
चिरं च दर्शनं ते च देहि हृद्वासमाचर ॥७९॥
बहिर्वा चान्तरे वा ते दर्शनं दिव्यमेव तत् ।
सर्वदा स्यात्तथा कृष्णाऽन्तर्दृष्टि देहि मे शुभाम् ॥८०॥
अन्ते धामाऽक्षरं देहि तव मूर्त्या विराजितम् ।
अर्थयामि तथा कृष्ण मुक्तिं ते सेवनात्मिकाम् ॥८१॥
इत्येवमर्थयेन्नित्यं भगवन्तं हरिं तु माम् ।
भक्तौ युवां यतस्तस्मादहं दृष्टिपथं गतः ॥८२॥
कल्याणं भवतोरस्तु प्रयामि मम मन्दिरम् ।
इत्युक्त्वा कर्षुकान् धैर्यं दत्वा श्रीभगवाँस्ततः ॥८३॥
 'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
दत्वा मन्त्रं कर्षुकेभ्यो भक्ताभ्यां च तिरोऽभवत् ॥८४॥
कर्षुकास्ते चमत्कारं वीक्ष्य चक्रुर्ममाश्रयम् ।
पूजनं भजनं चेति क्षेत्रपोऽपि विशेषतः ॥८५॥
महामयोऽपि सहसा नारायणसमागमात् ।
निरामयोऽभवल्लक्ष्मि! नाञ्जोऽपि चाऽञ्जनोज्झितः ॥८६॥
ते सर्वे नित्यदा भेजुर्मां श्रीराधारमांपतिम् ।
पूजनं भोजने ध्यानं रमणे स्मरणं मम ॥८७॥
चक्रुश्च कीर्तनं नित्यं देहान्ते च ततः परम् ।
विमानेनाऽऽययौ चाहं विष्णुविमानशोभनः ॥८८॥
पार्षदैः सहितश्चाऽश्वपट्टसीम्नि तदा द्रुतम् ।
कर्षुकान्निजलोकं च निन्ये दिव्यशरीरिणः ॥८९॥
नाञ्जं भक्तं पुनर्निन्ये निन्ये निरामयं ततः ।
एवं धामाऽक्षरं प्राप्ता भक्ता मे क्षेत्रपा अपि ॥९०॥
लक्ष्मि क्षेत्रोद्भवं धान्यं नूतनं मे समर्पयेत् ।
चिर्भटं मक्किकां चापि पत्रं पुष्पं समर्पयेत् ॥९१॥
कन्दं फलं च दण्डं च मिष्टं शाकं च मञ्जरीम् ।
स्तम्बं नालं च काण्डं च शाखां वा मे समर्पयेत्। ॥९२॥
कणं च बदरं वापि मृदं वा पावनीमपि ।
अर्पयेन्मां तु यो भक्त्योद्धरामि तं समर्पकम् ॥९३॥
समिधस्तुलसीपत्रं चन्दनद्रुं फलद्रुमम् ।
तृणं दर्भं चांकुरं वाऽर्पयेन्मे मुक्तिभाक्तु सः ॥९४॥
कार्पासं पूलकं वापि शिम्बिं वा कोशमेव वा ।
गुच्छं वा कुण्डिकां वा मेऽर्पयेन्मोक्षगतो भवेत ॥९५॥
तिलान् वा गोधुमकाँश्च चणकान् द्विदलास्तथा ।
निवारान् वा सारिका वा खर्जुरं वा समर्पयेत् ॥९६॥
शर्करां वा हरिद्रां वा लवणं चार्द्रकं च वा ।
आरनालं च विविधं लविंगं पूगिकाफलम् ॥९७॥
एलां च केसरं वापि मेऽर्पयेन्मुक्तिभाग् भवेत् ।
आसनं वापि पात्रं वा लतां वा वेत्रमित्यपि ॥९८॥
यानं वस्त्रं चर्वणं च तैलं सुगन्धमुत्तमम् ।
शृंगारं चार्पयेन्मह्यं जायते मोक्षभाग्धि सः ॥९९॥
दुग्धं रसं च पक्वान्नं मिष्टपानं च शीतलम् ।
व्यजनं व्यञ्जनं चापि मेऽर्पयेन्मोक्षभाग् भवेत् ॥१००॥
आत्मार्पणेन सर्वे वै कमले यान्ति मत्पदम् ।
पठनाच्छ्रवणादस्य स्मरणादपि मोक्षभाग् ॥१०१॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने क्षेत्रपस्य नाञ्जभक्तस्य महामयभक्तस्य कर्षुकाणां च चौरेभ्योरक्षणं भगवता कृतमित्यादिनिरूपणनामा सप्ताधिकद्विशततमोऽध्यायः ॥२०७॥

N/A

References : N/A
Last Updated : May 05, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP