द्वापरयुगसन्तानः - अध्यायः १००
लक्ष्मीनारायणसंहिता
श्रीनारायणीश्रीरुवाच-
परमेश कृपासिन्धो साधूनां परमं धनम् ।
मुक्तानां जीवनं कृष्णो देवानां दैवतं परम् ॥१॥
कृपयैव भवान् कृष्णनारायणोऽत्र भूतले ।
समायास्यथवा चान्यत् कारणं विद्यते नु किम् ॥२॥
श्रीपुरुषोत्तम उवाच-
कृपाऽत्र कारणं मुख्यं शिवराज्ञीप्रिये सदा ।
इच्छैव कारणं सृष्टौ ममागमस्य सर्वथा ॥३॥
तथापि नियतं हेतुमुद्भावयामि चापरम् ।
यदा यदा समायामि सृष्ट्यन्तरे च कल्पके ॥४॥
आदौ क्वचिन्महर्षेश्च भृगोर्निमित्तमाप्य ह ।
समायामि मुहुश्चेति भक्तानामिच्छयाऽपि च ॥५॥
श्रीनारायणीश्रीरुवाच--
भृगोः किं कारणं जातं यदर्थं वै त्वया प्रभो ।
मुहुर्मानुषभावेऽत्र प्राकट्यं गृह्यते वद ॥६॥
श्रीपुरुषोत्तम उवाच-
शृणु लक्ष्मि कथयामि पुरावृत्तं तु कारणम् ।
भृगुस्त्रीख्यातिवधतो भृगुशापेन मानुषे ॥७॥
प्राकट्यं सर्वथा विष्णोर्बहुवारं प्रजायते ।
देवकार्यार्थलग्नस्य दिव्यैश्वर्यस्य शार्ङ्गिणः ॥८॥
युगधर्मे परावृत्ते शिथिले च वृषे ततः ।
कर्तुं धर्मव्यवस्थानं जायते विष्णुरव्ययः ॥९॥
हिरण्यकशिपुर्दैत्यो राज्ये त्रिलोकमण्डले ।
शास्ताऽभवत्पुरा राजा दशकोटिसमास्तथा ॥१०॥
द्वासप्ततिलक्षाणि वर्षाण्यन्यानि वै तथा ।
तथाऽशीतिसहस्राणि सम्राट् निरामयोऽभवत् ॥११॥
ततो दशयुगं राजा प्रह्लादश्चाऽभवद् भुवः ।
ततो राजा बलिश्चासीद् दशकोटिसमास्तथा ॥१२॥
त्रिंशल्लक्षाणि च षष्टिसहस्राणि समा भुवः ।
त्रयस्ते इन्द्रा विख्याता दैत्यानामभवँस्तदा ॥१३॥
दैत्यसंस्थमिदं सर्वमासीद् राज्यं त्रिलोकगम् ।
अत्रान्तरे च संग्रामाः सुरासुरक्षयावहाः ॥१४॥
आसन् द्वादश चोग्राश्च विष्णुर्यत्र सुराऽर्थितः ।
दैत्यान् व्यनाशयद् दिव्यचक्रेण संगतो मुहुः ॥१५॥
वाराहकल्पे ते सर्वे संग्रामास्तान् प्रिये शृणु ।
प्रथमो नारसिंहस्तु हिरण्यकशिपुर्हतः ॥१६॥
द्वितीयश्चापि वाराहो यत्र हतो हिरण्यदृक् ।
प्रह्लादो निर्जितश्चापि तृतीयोऽमृतमन्थने ॥१७॥
विरोचनश्चतुर्थश्च हतो वै तारकामये ।
तारका सा बृहस्पतेः पत्नी चन्द्रेण चाहृता ॥१८॥
तन्निमित्तं तु तद्युद्धं बभूव रोमहर्षणम् ।
वामनेन बलिर्बद्धो युद्धं महदभूत्तदा ॥१९॥
षष्ठे ह्याडीबको जम्भो हतः शक्रेण विष्णुना ।
सप्तमे शंभुना दैत्यास्त्रिपुराद्या विनाशिताः ॥२०॥
अष्टमे चाऽन्धको निघातितः सदैत्यदानवः ।
नवमे विप्रचित्त्याद्या लक्षशः शक्रसूदिताः ॥२१॥
वृत्रासुरो घातितश्च दशमे वज्रपाणिना ।
एकादशे तु रजिना दैत्याः सर्वे विनाशिताः ॥२२॥
द्वादशे च सुरैः षण्डामर्काद्या विनिपातिताः ।
एते देवासुराणां वै संग्रामा द्वादशाऽभवन् ॥२३॥
विष्णुस्तत्र च सर्वत्र साहाय्योऽभूद् द्युवासिनाम् ।
पर्यायेण च सम्प्राप्तं त्रैलोक्यं पाकशासनम् ॥२४॥
ततो यज्ञस्य भागांश्च यज्ञे देवा ह्युपागमन् ।
यज्ञनारायणश्चापि देवपक्षी ततोऽभवत् ॥२५॥
यज्ञे देवानथ गते शुक्रं प्राहुर्हि दानवाः ।
दैत्याश्चासुरमूर्धन्यास्त्रासमाप्त्वा हि निर्बलाः ॥२६॥
स्थातुं न शक्नुमो भूमौ प्रविशामो रसातलम् ।
एवमुक्तोऽसुरगुरुर्विषण्णः सान्त्वयन् गिरा ॥२७॥
माऽभैष्ट धारयिष्यामि तेजसा स्वेन वोऽसुरान् ।
वृष्टिमोषधीन् भोज्यानि रसान्सुधाः सुखानि च ॥२८॥
युष्मदर्थं प्रदास्यामि धारयित्वा स्वतेजसा ।
यास्याम्यहं महादेवं मन्त्रार्थे विजयाय च ॥२९॥
युष्माननुग्रहीष्यामि पुनः पश्चादिहागतः ।
यूयं तपश्चरध्वं वै संवृता वल्कलैर्वने ॥३०॥
नो चेद् देवा हनिष्यन्ति यावदागमनं मम ।
अतश्चोग्रान् महामन्त्रान् सम्प्राप्याऽहं महेश्वरात् ॥३१॥
आगच्छामि ततो योत्स्यामहे जेष्याम एव तान् ।
पितुर्भृगोश्चाश्रमस्थाः सम्प्रतीक्षत दानवाः ॥३२॥
सः सन्दिश्याऽसुरान् काव्यो महादेवं प्रपद्य च ।
सम्प्रपूज्य स्वागतं प्राप्य प्रणम्योवाच शंकरम् ॥३३॥
मन्त्रानिच्छामि शंभो त्वत् ये न सन्ति बृहस्पतौ ।
पराभवाय देवानामसुरेष्वभयावहान् ॥३४॥
श्रुत्वा महेश्वरः प्राह चरव्रतं मयोदितम् ।
पूर्णं वर्षसहस्रं वै कुण्डधूममवाक्छिराः ॥३५॥
पास्यसि ब्रह्मचारी संस्ततो मन्त्रानवाप्स्यसि ।
तयोक्तः शुक्र एवाऽसौ धूम्रपस्तापसोऽभवत् ॥३६॥
वटशाखां समालम्ब्य कैलासेऽवाक्शिराः सदा ।
तस्मिन् छिद्रे तदाऽमर्षाद् देवा दैत्यानुपाद्रवन् ॥३७॥
प्रगृहीतायुधा बृहस्पतिपुरोगमा द्रुतम् ।
अथ जेतुं सुरान्नैव शक्ष्याम इति दानवाः ॥३८॥
नत्वा ययुस्तदा शुक्रमातरं ख्यातिमेव ह ।
शरणं भीतभीतास्ते प्रापद्यन्त तदाऽभयम् ॥३९॥
चक्रे रक्षां भृगोः पत्नी किन्तु देवा रुषान्विताः ।
असुरान् जघ्नुः परितः ख्यातिः क्रुद्धाऽभवत्तदा ॥४०॥
पातिव्रत्यबलेनेन्द्रं संस्तभ्याऽभ्यचरत् सती ।
संस्तम्भितो द्रुतं चेन्द्रो वशीकृतो जडोऽभवत् ॥४१॥
व्यद्रवन्त विलोक्यैनं देवास्ततो दिशो दश ।
अथ विष्णुः प्राह शक्रं शीघ्रं त्वां न्यस्य वै मयि ॥४२॥
प्रवेशयित्वा रक्षामि माऽभैषीस्त्वं सुरोत्तम ।
इन्द्रं विष्णुः स्वमूर्तौ प्रावेशयित्वा ररक्ष ह ॥४३॥
विष्णुना रक्षितं वीक्ष्य ख्यातिः क्रुद्धा वचोऽवदत् ।
एषा विष्णुं महेन्द्रं च दहामि क्षणमात्रतः ॥४४॥
इन्द्रः श्रुत्वा हरिं प्राह शीघ्रं कुरु परेश्वर ।
जहि सुदर्शनेनैनां यावन्नो न दहेत् सती ॥४५॥
विष्णुः ससंभ्रमश्चक्रं मुमोच प्राणहेतवे ।
ख्यातेश्चिच्छेद मूर्धानं पतिता सा मृताऽभवत् ॥४६॥
स्वस्त्रीवधं समाकर्ण्य भृगुश्चुकोप सत्वरम् ।
शशाप स्त्रीविहन्ता त्वं मानुषेषु पुनः पुनः ॥४७॥
जन्म धृत्वाऽतिदुःखानि चानुभव मुहुर्मुहुः ।
स्त्रीनिमित्तानि दुःखानि भुंक्ष्व लोके पुनः पुनः ॥४८॥
एवं भृगोः प्रतापेन जायते विष्णुरच्युतः ।
नष्टे धर्मे लोककार्यहितार्थं मानुषेष्विह ॥४९॥
अथ भृगुः शिरो धृत्वा काये द्राक् समयोजयत् ।
यदि कृत्स्नो मया धर्मश्चिरितो ज्ञायतेऽपि वा ॥५०॥
पत्नीव्रतपरश्चाऽहं त्वं पतिव्रततत्परा ।
तेन सत्येन जीवस्व जीवस्व विष्णुसन्निधौ ॥५१॥
इत्युक्त्वा प्रोक्ष्य वार्भिश्च जीवयामास तां भृगुः ।
ख्यातिस्तूर्णं गतनिद्रेवाऽभिबुबोध तत्क्षणम् ॥५२॥
इन्द्रस्य स्तंभनं विष्णुर्नाशयामास योगतः ।
भृगुः शान्तोऽभवत् पश्चात् तुष्टाव परमेश्वरम् ॥५३॥
क्षमां ययाचे सततं भोजनादि ददौ शुभम् ।
विष्णुर्नैव हि जग्राह भृगुं प्राह हि माधवः ॥५४॥
तव पुत्री मम पत्नी भाविनी भार्गवी यदा ।
तदा ग्रहीष्याम्यागत्य तया साकं हि भोजनम् ॥५५॥
इत्युक्त्वा प्रययौ विष्णुस्त्यक्त्वा दैत्यादिकाँस्तदा ।
इन्द्रः स्वस्थो ययौ स्वर्गं देवा ययुर्निजालयान् ॥५६॥
दैत्याद्याश्च भृगोः क्षेत्रे स्वस्था आश्रमसन्निधौ ।
तपन्ति च प्रतीक्षन्ते शुक्रस्यागमनं प्रति ॥५७॥
शुक्रोऽपि हरपार्वत्योः सन्निधौ वटवृक्षके ।
अधःशिरास्तपश्चोग्रं करोति शंकराज्ञया ॥५८॥
पूर्णे वर्षसहस्रे तु विगते शंकरः स्वयम् ।
दिव्यरूपेण निकटेऽदृश्यताऽऽगत्य वै वटे ॥५९॥
शक्रस्तुष्टाव शंभुं तं लम्बमानो वटेऽपि च ।
नमोऽस्तु शितिकण्ठाय कपर्दिने च शंभवे ॥६०॥
मीढुषे वसुवीर्याय रुद्राय रोहिताय ते ।
गिरीशायाऽर्कनेत्राय तक्षकक्रीडनाय च ॥६१॥
पिनाकिने च श्वेताय भीमायोग्राय ते नमः ।
महादेवाय शर्वाय मृगव्याधाय ते नमः ॥६२॥
स्थाणवे बहुरूपाय त्रिनेत्राय च मृत्यवे ।
त्र्यम्बकाय नमस्तेऽस्तु शंकराय शिवाय च ॥६३॥
ध्यानिने व्यापिने सद्योजातायेशाय ते नमः ।
वामदेवाय च कृत्तिवस्त्राय प्रभवे नमः ॥६४॥
भगनेत्रविहन्त्रे ते पशूनां पतये नमः ।
भूतानां पतये पूषाहन्तघ्नाय च ते नमः ॥६५॥
अर्करूपाय च न्यग्रोधाय कालाय ते नमः ।
संकर्षणाय रुद्राय वह्नये योगिने नमः ॥६६॥
पृथिव्याद्यष्टरूपाय लिंगायाऽलिंगिने नमः ।
पार्वतीपतये तुभ्यं गोपतये नमो नमः ॥६७॥
महेशाय च डमरूवादित्राय च ते नमः ।
कैलासस्थाय देवानां स्तुत्याय ते नमो नमः ॥६८॥
महावैष्णवसन्नाम्ने गणानां पतये नमः ।
ब्रह्मिष्ठाय च शुक्रस्य पित्रे भूयो नमो नमः ॥६९॥
इत्युक्त्वा विररामाऽसौ शुक्रस्तं प्राह शंकरः ।
मा तपः कुरु विप्रेन्द्र संकल्पस्ते भयावहः ॥७०॥
तथापि वत्सरान्तेऽहं पूरयिष्ये तु शीलिने ।
शीलव्रताय ते शुक्र दास्ये यथेष्टमन्त्रकान् ॥७१॥
इत्युक्त्वा शंकरो देवस्तत्रैवाऽन्तरधीयत ।
अथेन्द्रेण निजाकन्या जयन्ती प्रेषिता तदा ॥७२॥
कथिता पुत्रि शक्रो वै दारुणं चरते तपः ।
अनिद्रार्थं त्रिलोक्यां वै ततो याहि द्रुतं च तम् ॥७३॥
शुक्रं प्रसेवयस्वैनं शय्यासेवादिभिर्द्रुतम् ।
तैस्तैर्मनोऽनुकूलैश्च ह्युपचारैरतन्द्रिता ॥७४॥
श्रुत्वा सुरूपा कन्या सा जयन्ती प्रययौ हि तम् ।
पित्रा यथोक्तं वाक्यं सा शुक्रे कृतवती सती ॥७५॥
शुक्रस्तां प्राह सुश्रोणि! दशवर्षाणि वै मया ।
सह तिष्ठाऽदृश्यरूपा सम्प्रयोगं च मे कुरु ॥७६॥
इत्याज्ञप्ता दश समाः शुक्रेण सह सा स्थिता ।
शुक्रवत् तापसी भूत्वा सूक्ष्मयोगवती सदा ॥७७॥
अथ बृहस्पतिर्दशवत्सरेषु निजं वपुः ।
शुक्ररूपात्मकं कृत्वाऽसुरानशिक्षयत्तदा ॥७८॥
अथ शुक्रो दशवर्षोत्तरे दैत्यानुपागमत् ।
अहं शुक्रोऽस्मि दैत्येन्द्रा मद्वचः सन्निबोधत ॥७९॥
दैत्याः प्राहुर्न नः स्वामी भवान् शुक्रो न वै ऋतः ।
दशवर्षाणि नः स्वामी सत्योऽयं शुक्र एव ह ॥८०॥
इत्येवमसुरैः शुक्रोऽवमानितः शशाप तान् ।
दैत्या यूयं सत्यशुक्रं बोधिता नाऽभ्यनन्दथ ॥८१॥
तस्मात् प्रणष्टवीर्या वै पराभवमवाप्स्यथ ।
इति शप्ता असुरास्ते ज्ञात्वा शापं च देवताः ॥८२॥
युयुधुर्दानवाद्यैश्च हतवन्तोऽसुरान् बहून् ।
काव्यशापाऽभिभूताश्च शुक्राधारविवर्जिताः ॥८३॥
असुरा हन्यमानास्ते विविशुश्च रसातलम् ।
देवानां विजयो जातो विष्णुना तु सहायिना ॥८४॥
एतत्ते कथितं लक्ष्मि विष्णोर्जन्मसु कारणम् ।
भृगोर्निमित्तमालम्ब्य विष्णुः संजायते मुहुः ॥८५॥
धर्मान्नारायणो जातश्चाक्षुषे च मनौ हरिः ।
वैवस्वते पृथुर्विष्णुर्वामनश्चादितेः सुतः ॥८६॥
दत्तात्रेयोऽभवत्सोऽपि पर्शुरामोऽपि चैव सः ।
रामादित्यस्तथा विष्णुर्व्यासो भवति सर्वदा ॥८७॥
वासुदेवोऽपि विष्णुश्च कल्की विष्णुर्भविष्यति ।
एवमन्येऽप्यवतारा विष्णोर्भवन्ति मानवाः ॥८८॥
दैत्यानां तु विनाशार्थं धर्मरक्षणहेतवे ।
क्वचिन्नारीनिमित्तेन क्वचित्सुराऽवनाय च ॥८९॥
क्वचिद्धर्मनिमित्तेन क्वचिच्च कृपया किल ।
एते सर्वे मम लक्ष्मि ह्यवतारा विभूतयः ॥९०॥
अनादिश्रीकृष्णनारायणोऽहं पुरुषोत्तमः ।
इच्छयाऽनुग्रहेणापि चायामि हितवान् सताम् ॥९१॥
साधून् विप्रान् वृषं गाश्च रक्षामि मानवो मुनिः ।
साधवो मेऽवताराश्च हेतयोऽपि तथाविधाः ॥९२॥
ऐश्वर्याणि चावताराः शक्तयोऽपि तथाविधाः ।
मुक्ता मे ह्यवताराश्च भक्ताश्चापि तथाविधाः ॥९३॥
देवाश्चाप्यवतारा मे धर्मावनाय सर्वथा ।
आज्ञया सृष्टिलोकेषु जायन्तेऽन्तर्भवन्ति च ॥९४॥
मूर्तयो मम याः सन्ति दिव्याः सर्वा हि तास्तु मे ।
अवताराः सदा सेवाग्राहका भक्तवत्सलाः ॥९५॥
ममाऽवतारयोगं ये लब्धवन्तः सुराऽसुराः ।
दैत्याश्च दानवा यक्षा राक्षसाश्च नराः स्त्रियः ॥९६॥
पशवो वाहनात्मानो गजाश्च वाजिनोऽपि च ।
उष्ट्राश्च वृषभाश्चान्ये मम योगमुपागताः ॥९७॥
मत्साधुयोगमापन्ना याता यान्ति परं पदम् ।
इत्येवं मे कृपा चास्ते स्वभावो मेऽपि तादृशः ॥९८॥
मद्योगं समवाप्तस्य मत्तुल्यत्वं प्रजायते ।
साधुयोगात्साधुर्भवति दैवयोगाश्च देवता ॥९९॥
मम योगाद्भवत्येव मादृशो भक्तराट् स्वयम् ।
नारायणस्य योगेन नरो नारायणो भवेत् ॥१००॥
नारी नारायणी स्याच्च मुक्तानिका रमा यथा ।
यथा पद्मावती जाता नारायण्यौ प्रिये मम ॥१०१॥
श्रीनारायणीश्रीरुवाच-
अनादिश्रीकृष्णनारायणस्वामिन् पते मम ।
जिज्ञासां पूरय जाते न्रायण्यौ तु रमाऽब्जके ॥१०२॥
कथं केन निमित्तेन संजाता संगतिस्तव ।
पद्मावत्या रमायाश्च स्फुटं कृष्ण वदाऽत्र मे ॥१०३॥
श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं सर्वज्ञाऽसि हि मादृशी ।
तथापि मानवं भावमाप्य जिज्ञाससि त्विदम् ॥१०४॥
कथयामि पुरा वृत्तं येन ये संगमोऽनयोः ।
ककुप्सूर्यात्मजयोर्वै कुटुम्बे कारवेऽभवत् ॥१०५॥
पुरा सूर्यो यदोत्पन्नः सहस्रकिरणोऽभवत् ।
उच्चावचप्रदेशश्च ब्रह्माण्डदाहकाऽग्निकः ॥१०६॥
असह्यतेजाश्चात्युग्रो विवराण्यज्वलन् यतः ।
सूर्यं तेजस्विनं ज्ञात्वा याऽर्पिता विश्वकर्मणा ॥१०७॥
संज्ञानाम्नी कन्यकाऽपि सा जज्वालार्कतेजसा ।
विहायेयं पतिं स्वस्याः छायां कृत्वा निजां स्त्रियम् ॥१०८॥
स्वधिष्ण्ये तां समास्थाय निर्ययौ सा गृहान्निजात् ।
क्लिष्टचित्ता गूहती स्वां विश्वकर्मालयं ययौ ॥१०९॥
पित्रोपदिष्टा सूर्यस्य गृहे गन्तुं तथापि सा ।
न याता वडवा भूत्वा हिमाद्रौ व्यचरत् सती ॥११०॥
तदाऽर्कस्तां मार्गयितुं समायाद्धिमपर्वते ।
अश्वो भूत्वाऽऽरब्धवाँस्तां सा न कामं ददौ तदा ॥१११॥
मुखं ददौ तदा सूर्यो धातुं नसोर्व्यसर्जयत् ।
नासिकाद्वयतो जातावश्विन्याः सुकुमारकौ ॥११२॥
ततः सा प्रययौ साकं सूर्येण सूर्यमण्डलम् ।
किन्तु सूर्यस्य तेजोभिर्जज्वालैषा पुरा यथा ॥११३॥
सोवाच पितरं सूर्यमन्दतार्थं पिता ततः ।
विश्वकर्मा दिवानाथं शाणोल्लीढं चकार ह ॥११४॥
शातितश्चाभितः सूर्यश्चातिरूपोऽतिमोहकः ।
सह्यतेजाः समभवत् संज्ञा तस्मिन् स्थिराऽभवत् ॥१११॥
तदा सुरूपं सुखदं सह्यं भोगप्रदं सुरम् ।
वीक्ष्य चकमे युवती दिशा भूत्वा सुकन्यका ॥११६॥
हावभावविलासाद्यैश्चेष्टाभिस्तं दिगिच्छति ।
रन्तुकामां सुमुग्धां च पार्श्वे प्राप्तां रजोन्विताम् ॥११७॥
सूर्यस्तां वीक्ष्य तत्राह दिग्देवते किमच्छसि ।
दिग्देवी स्वेष्टमाहाऽस्मै कामं देहि सुतृप्तिदम् ॥११८॥
सूर्यः प्राह न मे भोगो व्यर्थः स्यात् तद्विचारय ।
यदीष्टस्तेऽस्ति चेद् गर्भो गृहाण मम संगमम् ॥११९॥
तदा दिशा स्वयं देवी गर्भो नेष्ट इति स्वयम् ।
विचार्याऽपि महामुग्धा भोगमैच्छद् दिनाधिपात् ॥१२०॥
सूर्यः प्राह प्रिये देवि भोगं दास्ये फलान्वितम् ।
कदाचिन्मानवे भावे त्वं कन्या संभविष्यसि ॥१२१॥
तदा ते मानवीनार्यै मद्योगः सफलो भवेत् ।
यदाऽनादिकृष्णनारायणः श्रीपुरुषोत्तमः ॥१२२॥
पृथ्व्यां मानवरूपेण विचरिष्यति कामदः ।
गोपालबालकः कृष्णः कंभरानन्दनः प्रभुः ॥१२३॥
तदा ते जन्मसाफल्यं सर्वथा संभविष्यति ।
इत्युक्त्वा विररामाऽर्को दिशा कन्या तिरोऽभवत् ॥१२४॥
अथ सूर्यः श्वशुरं स्वं प्रसन्नः प्राह साञ्जलिः ।
वरं वृणु प्रदात्येऽत्र यन्मनोऽनुगतं प्रियम् ॥१२५॥
विश्वकर्मा तदा प्राह प्रसन्नोऽसि यदि प्रभो ।
जामाता पुत्ररूपो वै तथापि पुत्रवाञ्च्छया ॥१२६॥
अर्थयामि वरं रम्यं पुत्रो मे भव भास्कर ।
सूर्यस्तथाऽस्त्विति प्राह प्रजगाद च तत्पराम् ॥१२७॥
यदाऽनादिकृष्णनारायणः पृथ्व्यां भविष्यति ।
गोपालबालकः सत्याः कम्भरायाः सुखात्मजः ॥१२८॥
तदा तद्योगलाभार्थमहं चेच्छामि जन्म वै ।
अद्य वा च युगान्ते वा युगानामयुतेऽपि वा ॥१२९॥
श्रीहरेर्योगलाभार्थं भविष्यामि सुमानवः ।
तत्र काले विश्वकर्मन् भवता पृथिवीतले ॥१३०॥
प्राकट्यं मानवे कार्यं मत्पितृत्वस्य सिद्धये ।
भवन्तं पितरं प्राप्य कारुयोनौ त्वदात्मजः ॥१३१॥
भविष्यामि सुपुत्रस्ते पूरयिष्ये मनोरथम् ।
इत्येतत् समयं प्राप्य पृथ्व्यां यदा हरिः स्वयम् ॥१३२॥
गोपालबालकोऽनादिकृष्णनारायणोऽभवत् ।
कभराश्रीगृहे तत्र विश्वकर्माऽऽप्य वै क्षणम् ॥१३३॥
मंकणकसुकारोर्वै गृहे बालुजशिल्पिराट् ।
विश्वकर्मा स्वयं जज्ञे जटिलापतिरित्ययम् ॥१३४॥
बालुजंशिल्पिनं विश्वकर्मावतारमुत्तमम् ।
पितरं सम्प्रकल्प्यैव सूर्यः पुत्रोऽभवत्ततः ॥१३५॥
नाकमिच्छिल्पिराट् सर्वशिल्पिवर्यः सुयोगिराट् ।
तस्याऽस्य पूर्णरूपस्य भार्याऽभवत्तु सा ककुब् ॥१३६॥
या जाता कन्यका दिगंशात्मिका मानवी सती ।
अम्बामाता शिल्पिवर्यमनोजित्पुत्रिका शुभा ॥१३७॥
विवाहिता दिगंशा साऽर्कांऽशनाकजिता भुवि ।
दम्पत्योः पुत्रिका जाताः पञ्च ज्येष्ठाऽत्र चाब्जिका ॥१३८॥
दिशामंशस्वरूपा या साऽम्बायाः पुत्रिकाऽग्रजा ।
पद्मावती सतीतुल्या कृष्णकान्तस्य सत्प्रिया ॥१३९॥
सूर्यप्रभा स्वयं सूर्यजन्या हरौ सुमोहिता ।
हरिं पतिं प्रकर्तुं सा सूर्यपुत्री तु मानवी ॥१४०॥
व्यजायत सुरूपा वै सूर्यमानवपुत्रिका ।
द्वितीया सा रमा जाता सूर्यांशनाकजित्सुता ॥१४१॥
सूर्यपुत्री रमा साऽम्बादेव्यां व्यजायतोत्तमा ।
पद्मिनीरूपसौभाग्यगुणयुक्ता हरिप्रिया ॥१४२॥
ब्रह्मणो ये पुरा पुत्र्यौ रमापद्मावतीभिधे ।
पुरुषोत्तममासस्य त्रयोदश्या व्रतेन वै ॥१४३॥
प्राप्तेऽक्षरं परं धाम ते पुनः श्रीहरीच्छया ।
भुवि श्रीभगवत्सेवाकरणायाऽर्कपुत्रिका ॥१४४॥
रमा जाताऽथ दिक्पुत्री जाता पद्मावती तथा ।
मानवे तु हरौ पत्नीरूपेणोभेऽर्पिते भुवि ॥१४५॥
पार्षदौ मे धामसंस्थौ भर्गो हेमन्त इत्यमू ।
सेवार्थं नीतवानेतौ सहाऽहं तौ सहोदरौ ॥१४६॥
प्रजातौ तौ यत्र पत्नीजन्म तत्र गृहे त्विमौ ।
भर्गोऽभवद्धि भगवान् हेमन्तो हेमसंज्ञकः ॥१४७॥
सिषेवाते हरिं मां तौ परब्रह्मपरायणौ ।
भगवान् स सुतो मध्ये जातो वै भगवद्गणः ॥१४८॥
हेमन्तश्च ततो जातोऽनुजो हेमसमोत्तमः ।
ततस्तिस्रः सुता या मालती हंसी च सद्गुणा ॥१४९॥
वैकुण्ठसख्यस्तिस्रस्ता अभवन्नम्बिकासुताः ।
एवं सर्वं भक्तियुक्तं कृष्णनारायणाश्रयम् ॥१५०॥
कुटुम्बं देवतारूपं जातं भक्त्यर्थमुत्तमम् ।
सेवार्थं श्रीकृष्णनारायणस्यैवाऽभवत् क्षितौ ॥१५१॥
इत्येषः कथितः पूर्ववृत्तान्तस्तेऽत्र मत्प्रिये! ।
पद्मावत्यारमा याश्च प्रिययोर्मम सर्वदा ॥१५२॥
यथा लक्ष्मीर्जया राधा माणिक्या ललिता, प्रिया ।
यथा श्रीस्त्वं तथा पद्मावती रमाऽत्र मे प्रिया ॥१५३॥
ब्रह्मप्रियाऽष्टकं त्वेतत् कोट्यर्बुदाऽङ्गनोत्तमम् ।
पठनाच्छ्रवणादस्य भुक्तिं मुक्तिं लभेत्तथा ॥१५४॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने भगवदवताराणां सृष्टावागमने कृपा वा भृगोः शापो निमित्तं, दैत्यानां द्वादशसंग्रामाः, पद्मावतीरमाकुटुम्बस्य प्राग्वृत्तान्तादिश्चेत्यादिनिरूपणनामा शततमोऽध्यायः ॥१००॥
N/A
References : N/A
Last Updated : May 04, 2021
TOP