संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ९० द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ९० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ९० Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि! त्वं येषां स्वर्गं हि शाश्वतम् ।दानधर्मयुता नित्यं देवभक्ताः शुभाशयाः ॥१॥तपःसत्यपराः शुद्धा यान्ति स्वर्गं निरामयम् ।गुरुशुश्रूषावदाता विद्याशीलसुशोभनाः ॥२॥प्रतिग्रहाघरुचयो यान्ति स्वर्गं निरामयम् ।स्वार्थात् कीर्तेर्भयाद् व्याधेः कष्टाद् दारिद्र्यदूषणात् ॥३॥ज्ञानाल्लोभादाश्रयाच्च स्नेहात् सम्बन्धयोजनात् ।सहवासाद्भक्तिमन्तो यान्ति स्वर्गं निरामयम् ॥४॥क्षमाधैर्यतितिक्षाढ्याः सत्कार्येषु सदोत्थिताः ।पूजाद्याचारसम्पन्ना यान्ति स्वर्गं निरामयम् ॥५॥मद्यमांसव्यवायादिनिवृत्ताश्चौर्यवर्जिताः ।देवप्रसादभोक्तारो यान्ति स्वर्गं निरामयम् ॥६॥धर्मशालाप्रकर्तारो देशोद्धारादिकारिणः ।द्रुमोद्यानाश्रमपाश्च यान्ति स्वर्गं निरामयम् ॥७॥ग्रामनगरपातारः प्रजारक्षाविधायकाः ।आपत्सहायदाः सर्वे यान्ति स्वर्गं निरामयम् ॥८॥भूषाम्बरप्रदातारश्चान्नपानप्रदास्तथा ।कुटुम्बसेवकाः सर्वे यान्ति स्वर्गं निरामयम् ॥९॥हिंसाद्रोहादिनिवृत्ताः सोढारश्चापदां सदा ।शरणस्य प्रदाः सर्वे यान्ति स्वर्गं निरामयम् ॥१०॥आश्रयदास्तथापेक्ष्यपर्यंकशयनप्रदाः ।यानवाहनदातारो यान्ति स्वर्गं निरामयम् ॥११॥ग्रामक्षेत्रादिदातारो गृहगोवृषदास्तथा ।पात्रोपकरणप्रादा यान्ति स्वर्गं निरामयम् ॥१२॥वृद्धं गुरुं सुरं कान्तं मातरं पितरं हरिम् ।शुश्रूषयन्ति साध्वीं च यान्ति स्वर्गं निरामयम् ॥१३॥स्नेहवन्तो यथायोग्यं हितकाराः कुटुम्बिनाम् ।परार्थसाधकाः सुज्ञा यान्ति स्वर्गं निरामयम् ॥१४॥धर्माढ्या माधवबला जिततृष्णा जितेच्छवः ।आराधनरता धीरा यान्ति स्वर्गं निरामयम् ॥१५॥अपराधिदयावन्तो वत्सला मार्दवान्विताः ।अदण्डरोषाः शास्त्रज्ञा यान्ति स्वर्गं निरामयम् ॥१६॥आतिथेयाः शरण्याश्च सहस्रदाः सुसाधवः ।अनेकत्राणकर्तारो यान्ति स्वर्गं निरामयम् ॥१७॥स्वर्णरूप्यकरत्नानां दातारो वाससां तथा ।मौक्तिकानां प्रदातारो यान्ति स्वर्गं निरामयम् ॥१८॥महोत्सवेषु द्रव्याणां वस्तूनां चार्पकास्तथा ।यौतकादिप्रदातारो यान्ति स्वर्गं निरामयम् ॥१९॥वैवाहिकानां वस्तूनां दीक्षांगानां तथा प्रदाः ।दासदासीप्रदाश्चापि यान्ति स्वर्गं निरामयम् ॥२०॥प्रपाऽऽरामसभाकूपसरसां च विधायकाः ।दीर्घिकासत्रकर्तारो यान्ति स्वर्गं निरामयम् ॥२१॥क्षेत्रवसतिसौधानां गह्वरसरितां तथा ।जलाशयानां दातारो यान्ति स्वर्गं निरामयम् ॥२२॥कणानां द्विदलानां च धान्यानां दायिनस्तथा ।रसानां च प्रदातारो यान्ति स्वर्गं निरामयम् ॥२३॥मिष्टान्नानां फलानां च कन्दानां पत्रिणां तथा ।शाकानां च प्रदातारो यान्ति स्वर्गं निरामयम् ॥२४॥दुःखानां हारका ये च तापसन्तापनाशकाः ।विपद्विनाशका लक्ष्मि यान्ति स्वर्गं निरामयम् ॥२५॥यत्र क्वापि कुले जाता अपि स्नेहस्वभाविनः ।वंशविस्तारवन्तश्च पुत्रपौत्रसुतान्विताः ॥२६॥दयावन्तः साधुशीला लज्जामर्यादया स्थिताः ।अमृषाहृदयाः शान्ता यान्ति स्वर्गं निरामयम् ॥२७॥पराऽनिष्टाऽप्रकर्तारो निन्दाद्वेषाऽस्पृशो जनाः ।सन्तुष्ट्या गुरुसेवाढ्या यान्ति स्वर्गं निरामयम् ॥२८॥आशीर्वादगृहीतारः पुण्यकार्यनिषेविणः ।पुण्यसाहाय्यकर्तारो यान्ति स्वर्गं निरामयम् ॥२९॥प्रतिष्ठायामलुब्धाः स्वगौरवे स्नेहवर्जिताः ।निर्माना दासवद्भावा यान्ति स्वर्गं निरामयम् ॥३०॥निरपेक्षा धनानां च महासन्तोषसंभृताः ।अपरिग्रहसर्वस्वा यान्ति स्वर्गं निरामयम् ॥३१॥परिग्रहे सदा चाप्यकृतलम्बकराऽननाः ।लुञ्चाभक्ष्यादिशून्याश्च यान्ति स्वर्गं निरामयम् ॥३२॥सर्वघातादिशून्याश्च तथाऽत्मघातवर्जिताः ।ब्रह्मघातादिशून्याश्च यान्ति स्वर्गं निरामयम् ॥३३॥सहधर्मस्थिता नित्यं गृहस्था धर्मिकर्मिणः ।भक्तिदानपराः शुद्धा यान्ति स्वर्गं निरामयम् ॥३४॥शीलव्रतिनः सततं वनव्रतिन एव च ।सन्न्यासव्रतशीलाश्च यान्ति स्वर्ग्रं निरामयम् ॥३५॥कृतस्याऽऽघातकाश्चापि विश्वासस्याऽप्यघातकाः ।ईष्टस्याऽघातकाः पुण्या यान्ति स्वर्गं निरामयम् ॥३६॥लोकोपकारकाराश्च मोक्षोपकारकारकाः ।हितोपकारकाराश्च यान्ति स्वर्गं निरामयम् ॥३७॥शास्त्रोपकारकाराश्च कलोपकारकारकाः ।उद्योगोपकारकारा यान्ति स्वर्गं निरामयम् ॥३८॥नवीनयोजनावन्तो देशविघ्ननिवारकाः ।प्रजासौख्यप्रकर्तारो यान्ति स्वर्गं निरामयम् ॥३९॥अघाता ये सदा सन्ति चाऽहिंसाव्रतशीलिनः ।देवाश्रिताश्चात्मतृप्ता यान्ति स्वर्गं निरामयम् ॥४०॥अघातयित्वा ये सन्ति घातकाख्या जनास्त्विह ।तेषां संगं न कुर्वन्ति यान्ति स्वर्गं निरामयम् ॥४१॥श्रीनारायणीश्रीरुवाच-अघातयित्वाऽपि च ये घातकाः सन्ति मानवाः ।ताँस्तान् वेदितुमिच्छामि प्रदर्शय हरेऽत्र मे ॥४२॥श्रीपुरुषोत्तम उवाच-शृणु लक्ष्मि कथयामि तादृशान् मानवानपि ।अहिंसयित्वाऽपि जना हिंसकाः संभवन्ति तान् ॥४३॥घातवदुःखदो यः स्याद् घातकः स तु कीर्तितः ।घातवत् फलदश्चापि घातकः सम्प्रकीर्त्यते ॥४४॥भिक्षुकं स्वयमाहूय भिक्षार्थे तिथिवर्जितम् ।ब्रूयान्नास्तीति यः काले विद्याद् भिक्षुहणं तु तम् ॥४५॥न्यायस्थितं तु यो राजा दण्ड्यं मत्वा ततः परम् ।वृत्तिं हरति तस्मात् स जीवहा वृत्तिहारकः ॥४६॥तृषितानां गवां विघ्नं तथान्येषां करोति यः ।जलहा गोघ्न एवापि प्राणहा स भवेदिह ॥४७॥यश्च शास्त्रं नियमाँश्च शासनं चोपदेशनम् ।हन्ति चाज्ञो दूषयति न्यायहा शास्त्रकारहा ॥४८॥निजपुत्रीं युवतीं च समये सदृशे वरे ।न प्रयच्छति कन्याहा धर्महा स भवेदिह ॥४९॥अधर्मिष्ठश्च यः साधुद्विजपूज्यादिदेहिषु ।मर्मभेदं क्रियाच्छोकं पूज्यहा स मतो भवेत् ॥५०॥पंगोरन्धस्य मूर्खस्य नार्याश्चाऽनाथदेहिनः ।सर्वस्वहर्ता भवति जीवहा सर्वहा तथा ॥५१॥ग्रामारण्यवनादौ चाऽश्रमक्षेत्रगृहादिषु ।अग्निदाता सर्वहा वै ग्रामहा ब्रह्महा मतः ॥५२॥विषदश्चाऽस्त्रनिक्षेप्ता रोधयिता च मर्दकः ।पाशदो भयमार्गदर्शकोऽनिष्टौषधिप्रदः ॥५३॥अभिचारप्रदो मिथ्याकलंकदो यशःप्रहा ।राज्यहा च कलायन्त्रसाधनाद्यपहारकः ॥५४॥अङ्गुष्ठहा ऋतुहा च धर्महा यज्ञहा तथा ।लग्नहा पाठहा पूजाघातको भक्तिघातकः ॥५५॥गर्भहा नेत्रहा हस्तघातको लिंगहा तथा ।बीजहा मुष्कहा जीव्यपशुहारक इष्टहा ॥५६॥गुरूणां धिक्प्रवक्ता च सर्वे ते प्राणघातिनः ।मोक्षहा चात्महा प्रोक्तो नास्तिको ब्रह्महा मतः ॥५७॥शीलहा धर्महा प्रोक्तः पापकृत् स्वर्गहा मतः ।सतीत्वदूषको नारीघ्नश्चोक्तो धर्महा अपि ॥५८॥ब्रह्मणः श्रीहरेर्भीतिं त्यक्त्वा मे परमात्मनः ।हनो भवन्ति ते तस्मात् सर्वेऽपि ब्रह्मघातिनः ॥५९॥निरया याम्यलोका वै तेषां तु शाश्वतीः समाः ।प्रेतभावास्तथा गर्भवासास्तिर्यग्भवादयः ॥६०॥नारकास्ते नरकस्था यत्र क्वापि भवन्ति वै ।सर्वदा दुःखभोक्तारः सुखलेशविवर्जिताः ॥६१॥नहि तेषामयं लोकः स्वर्गं नैव कुतोऽक्षरम् ।किन्तु मद्भक्तिमासाद्य तरन्ति कृपया चिरात् ॥६२॥श्रीनारायणीश्रीरुवाच-ननु पापकराणां ते कृपा वै जायते कथम् ।तत्रापि घातकानां वै क्रूराणां लोकनाशिनाम् ॥६३॥श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि! त्वं यथा मे जायते कृपा ।क्रमं ते विशदं चात्र वक्ष्यामि येन मोक्षणम् ॥६४॥घातकानां तीव्रवेगवतां शापा भवन्ति वै ।प्राणिनां शापनिःश्वासैः पुण्यहानिर्द्रुतं भवेत् ॥६५॥शीघ्रं च दुःखभोगानामानन्त्यमुपतिष्ठति ।गृहं द्वारा सुताः पुत्र्यः कुटुम्बं पशवो धनम् ॥६६॥अचिरादेव नश्यन्ति दारिद्र्यं जायतेऽसहम् ।रोगा भयंकराश्चापि सर्वनाशोऽपि जायते ॥६७॥अन्नसलिलवस्त्राणां प्राप्तिः सर्वा विलीयते ।भिक्षुकाः किंकरा यद्वत् कदर्यास्ते भ्रमन्ति च ॥६८॥धिक्काराऽमंगलाः स्थानहीना विवासितास्ततः ।श्ववल्लोके विभ्रमन्ति दुःखदारिद्र्यधर्षिताः ॥६९॥दुःखान्येतानि संभुक्त्वा चिरं धैर्यविवर्जिताः ।तितिक्षारहिता दुःखदण्डैर्मार्दवमागताः ॥७०॥शोचन्ति सुतरां क्वापि भाग्यं दैवं हरिं तथा ।हृदये शरणं यान्ति दुःखनिवारकं प्रति ॥७१॥ 'इदं दुःखमसह्यं मे लीयतां नाऽऽचरे पुनः ।अहो नारायण! दुःखं मम नाशय चाऽसहम् ॥७२॥शरणं ते पतितोऽस्मि चासह्यं त्वं निवारय ।दानं पुण्यं तीर्थयात्रां करिष्ये सत्क्रियां शुभाम् ॥७३॥जपं सेवां सतां वापि करिष्ये मानतां हरेः ।व्रतं तपो गुरोश्चापि प्रायश्चित्तं करोमि च' ॥७४॥इत्येवं शुभसंकल्पाः प्रजायन्तेऽवशस्य वै ।राजदण्डैर्लोकदण्डैर्देवदण्डैर्विपद्गणैः ॥७५॥दुःखदण्डैर्याम्यदण्दैर्महाकष्टातिकष्टकैः ।प्रजायन्ते शुभा बुद्धिस्ततो याति हृदा हरिम् ॥७६॥धर्मं पुण्यं व्रतं भक्तिं जपं दानं शुभं प्रति ।एवं शुभप्रसंगेन शुभक्रियाविधायिना ॥७७॥मनाक्पुण्यं प्राप्यते वै पापध्वंसो मनाङ् मनाक् ।शनैः पुण्यक्रियाभिश्च सुयोगाः संभवन्ति च ॥७८॥सतां सेवा तीर्थसेवा परोपकार आर्जवम् ।भजनं घातपापेभ्यो भयं मे स्मरणं तथा ॥७९॥एवं चिरेण करणैर्याति मे शरणं सताम् ।साधवो मम भक्ताश्च मन्त्रदानं च मालिकाम् ॥८०॥नामकीर्तनभक्तिं च सत्संगं कारयन्ति तम् ।एवं पुण्योदये चित्ते नैर्मल्ये च मुमुक्षुता ॥८१॥जायते लीयते बुभुक्षता सम्पद्यते श्रितः ।शिष्यः स वैष्णवः स्याच्च जिज्ञासति हरिं गुरुम् ॥८२॥कथासत्संगसेवाभिर्वर्धते भजनेऽनिशम् ।आराधनायाः सोपानं यथा यथाऽधिरोहति ॥८३॥तथा तथोपासना मे वर्धते प्रबला सुखा ।एवं दग्धाऽघ एव स्यात् पुण्यशेवधिरित्यपि ॥८४॥ततो दास्यं मम चाप्तस्ततश्चात्मनिवेदिताम् ।ततः कृपा मे भवति जायते पंक्तिपावनः ॥८५॥साधुर्वा जायते भक्तो मुक्तो वा जायते शुभः ।परधामाऽर्ह एवाऽपि जायते च महेश्वरः ॥८६॥एवं लक्ष्मि! नरो नारायणो भवति सा कृपा ।कारणं तत्र बोद्धव्या मोक्षदा मन्नियोजिता ॥८७॥पापाः पापतमाश्चापि तरन्त्येव चिरेण ह ।यातनादुःखभोगाश्चाऽसह्यास्ते गुरुसदृशाः ॥८८॥दण्डा निवर्तने लोके भवन्ति हेतवः क्वचित् ।एवमार्त्ताः प्रायशो मां भजन्ति बहुदुःखिताः ॥८९॥अर्थार्थिनश्च वै तद्वत् तरन्त्यपि न संशयः ।साधवस्तारकाः शीघ्रं चेन् मिलन्ति कृपावशाः ॥९०॥तेभ्यो दत्वा मनःप्राणाँस्तरन्ति पापिनोऽपि च ।प्रातः सम्पूज्य साधूँश्च वृद्धान् प्रणम्य सर्वदा ॥९१॥गुरून् समर्प्य विप्राँश्च तरन्ति पापकोटितः ।अर्पयेद् वस्तुजातं च तोषयेत् साधुसत्तमान् ॥९२॥मम भक्ताः शीलधर्मा निःस्पृहाः स्वादवर्जिताः ।पुण्याब्धयः साधवो ये तेभ्यो दत्तं महाफलम् ॥९३॥कामक्रोधादिरहिताः सर्वसहा जितेन्द्रियाः ।तापसा हितमैत्राश्च तेभ्यो दत्तं महाफलम् ॥९४॥अरागा ज्ञानविज्ञानपारगाः सत्यसद्व्रताः ।मोक्षमार्गरताः सन्तस्तेभ्यो दत्तं महाफलम् ॥९५॥येषां शिष्याः प्रतीक्षन्ते सुवृष्टिमिव कर्षुकाः ।तेभ्यो दत्तं प्रजायेत सहस्रगुणितं त्विह ॥९६॥शीलचारित्रयुक्ता ये कृशाऽऽयजीविकादयः ।भिक्षुकाः साधवो विप्रास्तेषु दत्तं महाफलम् ॥९७॥स्वभक्ताः स्वगृहावासाः स्वबलाः स्वाश्रया द्विजाः ।पावनाश्चार्थिनश्चेत् स्युस्तेषु दत्तं महाफलम् ॥९८॥यस्य सत्राणि विद्यन्ते बटवः साधवो गृहे ।भुञ्जते यस्य तस्यापि सत्रे दत्तं महाफलम् ॥९९॥हृतसर्वविधस्वाश्च भक्तिमात्रपरायणाः ।अनाथाः साधवो ये स्युस्तेषु दत्तं महाफलम् ॥१००॥पारायणस्थिता यज्ञस्थिता महोत्सवस्थिताः ।तेभ्यः पूर्त्यर्थमेवापि दत्तं सर्वं महाफलम् ॥१०१॥आपत्काले कृशप्राणाः कृशद्रव्याः कृशव्रताः ।तथापि साधुशीला ये तेभ्यो दत्तं महाफलम् ॥१०२॥त्यागवन्तश्च निःस्नेहा दम्भमानविवर्जिताः ।साधवः साधुभूषा ये तेभ्यो दत्तं महाफलम् ॥१०३॥जापका ब्रह्मसर्वस्वा भैक्षाचारास्तपस्विनः ।सन्तो मृषागन्धशून्यास्तेभ्यो दत्तं महाफलम् ॥१०४॥बालाऽपराधशून्याश्च चात्माऽपराधवर्जिताः ।ब्रह्माऽपराधशून्या ये तेभ्यो दत्तं महाफलम् ॥१०५॥सतां ये तु कृपापात्राण्यपि भक्ता हरेस्तथा ।साध्वीसन्तोषपात्राणि तेभ्यो दत्तं महाफलम् ॥१०६॥इत्येवं कमले! दत्त्वा साधुभ्यो दानमुत्तमम् ।अन्नजलाम्बरयोग्यवस्त्वात्मकं तरेत् ततः ॥१०७॥नौका वै साधवः सन्ति पापिनः प्रस्तराः खलु ।साधुनौकास्तरन्त्येव तारयन्त्यपि चाऽऽश्रितान् ॥१०८॥पठनाच्छ्रवणाच्चास्य घातपापप्रणाशनम् ।साधुसेवाफलं प्राप्य स्वर्गं लभेत शाश्वतम् ॥१०९॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने स्वर्गगामिनः, अघातयित्वाऽपि घातकिनः, कृपया क्रमोद्धारः सत्सेवयोद्धारश्चेत्यादिनिरूपणनामा नवतितमोऽध्यायः ॥९०॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP