द्वापरयुगसन्तानः - अध्यायः १०७
लक्ष्मीनारायणसंहिता
श्रीपुरुषोत्तम उवाच-
शृणु लक्ष्मि चमत्कारं साधोः श्रीचिह्नयोगिनः ।
सौराष्ट्रवासिनस्तेऽत्र वदामि स्मृद्धिमोक्षदम् ॥१॥
आसीत् साधुर्मम भक्तो कीशादनपुरस्थितः ।
श्रीचिह्नयोगीतिसिद्धो दिव्यकर्मा समाधिमान् ॥२॥
अनादिश्रीकृष्णनारायणं मां भजते स्म सः ।
क्वचिददृश्यरूपेण क्वचिद् दृश्येन वर्तते ॥३॥
क्वचिज्जले वने वृक्षे पर्वते वसति क्वचित् ।
वृष्टौ तापे क्वचिच्चाऽब्धितटे चाऽश्वसरोवरे ॥४॥
क्वचिद् वह्ना च वायौ च क्वचिद् विशति गह्वरे ।
एतादृशः समर्थोऽपि भजते मां निरन्तरम् ॥५॥
'अनादिश्रीकृष्णनारायण श्रीपरमेश्वर ।
अक्षराधिपते लक्ष्मीपते श्रीपुरुषोत्तम' ॥६॥
एवं मां रटति नित्यं भजते च पुनः पुनः ।
कृष्णनारायणनाम्ना मालां करोति नित्यशः ॥७॥
स्नानं ध्यानं च पूजां करोति मम नित्यदा ।
मानसे हृदये नित्यं मूर्तं पश्यति मां हि सः ॥८॥
सहस्रशो लक्षशश्च मानवा यमुपासते ।
कल्पवृक्षसमं सन्तं वीक्ष्य यत् कल्पयन्ति ते ॥९॥
सर्वं तत् फलति तेषां कल्पनादेव सन्निधौ ।
नाऽऽशीर्वादावश्यकता सेवावश्यकता न च ॥१०॥
एवंविधः स साधुस्त्वेकदा कौपीनमात्रधृक् ।
यदृच्छया चोपपन्नो देवानीकनृपं प्रति ॥११॥
सौराष्ट्रराजो विज्ञाय सन्तं नेमे पुपूज तम् ।
स्वागतं चासनं दत्वा मधुपर्कं ददौ ततः ॥१२॥
पादामृतं जलं लब्ध्वा पपौ कुटुम्बयुङ्नृपः ।
कल्याणदेवानीकस्त्री सहजाश्रीरिति नृपी ॥१३॥
नेमे तं च ददौ भोज्यं मिष्टं फलं जलं घृतम् ।
मुनिर्जग्राह भावेन पपौ वारि तुतोष च ॥१४॥
राजा सत्कृत्य बहुधा मुनिं पुनरथाऽब्रवीत् ।
भगवन् परवन्तौ स्यो ब्रूहि किं करवावहै ॥१५॥
यदि राज्यं यदि धनं यदि गा यदि भामिनीम् ।
यानं सुतां सुतं सौधं ब्रूहि सर्वं ददामि ते ॥१६॥
इदं गृहमिदं राज्यमिदं धर्मासनं च ते ।
नृप त्वमसि शाध्युर्वीमहन्तु परवाँस्त्वयि ॥१७॥
श्रुत्वा श्रीचिह्नयोगी तं प्राह भक्तं नृपं द्विजम् ।
न राज्यं कामये राजन्न धनं भामिनीं न च ॥१८॥
न गाः पानं सुतां सौधं सुतं वा कामये नृप ।
किन्तु मया गृहीतोऽस्ति नियमस्तस्य पूर्तये ॥१९॥
परिचर्योऽस्मि यत्ताभ्यां युवाभ्यामविशंकया ।
राजा हृष्टोऽभवच्छ्रुत्वा प्राह तथाऽस्तु तं मुनिम् ॥२०॥
प्रावेशयद् गृहोद्देशं दर्शनीयमदर्शयत् ।
इयं शय्या भगवतो यथाकाममिहोष्यताम् ॥२१॥
प्रासादोऽयं च भोगाश्च भुज्यन्तां स्वीयसम्पदः ।
व्रतं सम्यगनुतिष्ठ सर्वं गृहाण पूर्तये ॥२२॥
किमन्नं किं जलं चान्यत् किं किं भवतोऽपेक्षितम् ।
यतिष्ये प्रीतिमाहर्तुं किमुपस्थापयामि च ॥२३॥
श्रुत्वा मुनिर्भोजनं च यथोपपन्नमुत्तमम् ।
पायसाद्यं प्रयच्छस्वेत्याह राजा समानयत् ॥२४॥
बुभुजे च जलं पीत्वा प्राह श्रीचिह्नयोगिराट् ।
स्वप्तुमिच्छामि शय्यायां न प्रबोध्योऽस्मि सर्वथा ॥२५॥
संवाहितव्यौ मे पादौ जागृतव्यं च ते निशि ।
इत्युक्त्वा स प्रसुष्वाप दिवसानेकसप्ततिम् ॥२६॥
शुश्रूषापरमौ राज्ञीनृपौ चाहारवर्जितौ ।
बभूवतुस्ततः साधुरुत्तस्थौ व्रतमास्थितः ॥२७॥
प्रोवाच स तदा तैलाभ्यंगो मे रोचतेऽधुना ।
राज्ञीनृपौ सुगन्धाढ्यतैलाभ्यंगं प्रचक्रतुः ॥२८॥
कारयामासतुः स्नानं भूषयामासतुस्तथा ।
भोजयामासतुश्चापि साधुं मिष्टान्नकानि च ॥२९॥
मिष्टपाकान् समग्राँश्च लड्डुकान् सर्वजातिकान् ।
वेशवारविशेषाँश्च पोलिकाः पूरिकादिकाः ॥३०॥
रसान्नानाप्रकाराँश्च शाकानि विविधानि च ।
द्रवाणि सर्वरूपाणि भर्जिताँच कणाँस्तथा ॥३१॥
क्षाराम्लमिष्टचूर्णानि फलानि विविधानि च ।
आरनालानि रम्याणि राजभोज्यानि सर्वशः ॥३२॥
भोजयामासतुस्तत्र महर्षिर्बुभुजे सुखः ।
आह कल्याणनृपतिं राज्ञीं वहत मां वनम् ॥३३॥
स्कन्धे कृत्वा शिबिकायां राजा राज्ञी मुदं गतौ ।
स्वर्णरूप्यादिसंशोभमारोहयित्वा तं मुनिम् ॥३४॥
ऊहतुर्नगरे चापि नगरान्ते तथा वने ।
दृष्ट्वा प्रसन्नमनसौ निर्विकारौ हि सेवकौ ॥३५॥
प्रसन्नः श्रीचिह्नयोगी शिबिकातो ह्यवातरत् ।
विमुक्त्वा तौ वरं श्रेष्ठं ब्रूतां ददान्युवाच तौ ॥३६॥
सुकुमारौ च तौ विद्धौ पादयोः स्कन्धयोस्तथा ।
पस्पार्शाऽमृतकल्पाभ्यां कराभ्यां चिह्न योगिराट् ॥३७॥
सुसम्पन्नौ श्रमहीनौ दिव्यदेवाविव ह्युभौ ।
सञ्जातौ नवरूपौ च तथा च नवयौवनौ ॥३८॥
तौ मुनिश्चाह गम्येतां कीशादनं निजं पुरम् ।
अहमत्र निवत्स्यामि वने व्रतं चराम्यपि ॥३९॥
यत्कांक्षितं युवयोस्तु सर्वं तद्वै भविष्यति ।
इत्युक्ते नृपराज्ञ्यौ चाहतुस्तं वै मुनीश्वरम् ॥४०॥
अपराधाश्च सेवायां जाताश्चेत्ते मुनीश्वर ।
क्षन्तव्याः सर्व एवैते दयावार्धिमहात्मना ॥४१॥
तव प्रीतिं प्रसादं चाऽभिकांक्षावः सदा मुने ।
प्राह श्रीचिह्नयोगी तु पश्यतां रूपमैश्वरम्॥
प्रसन्नोऽस्मि हरिश्चाऽस्मि श्रीचिह्नहृदयोऽस्म्यहम् ।
श्रीवत्सवक्षा मे नाम लक्ष्मीपतिर्भवाम्यहम् ॥४३॥
साधुरूपो गृहे तेऽत्र चागतोऽस्मि कृपावशः ।
ममाऽवतारो भक्तानां सदा कल्याणहेतवे ॥४४॥
अतश्चरामि साधुर्वै दिव्यदेहो जनार्दनः ।
देवानीक! प्रसन्नोऽस्मि सहजाश्रि रतोऽस्मि च ॥४५॥
वृणुतं सद्वरान् स्वेष्टान् सेवाफलं ददामि च ।
श्रुत्वैवं तु तदा लक्ष्मि देवानीकः प्रणम्य तम् ॥४६॥
प्रपूज्य परमात्मानं मत्वा सुकृतमात्मनः ।
प्रोवाच स्नेहमद्वाक्यैर्भगवन्तं हि मां तदा ॥४७॥
प्राप्तं सर्वं मया कृष्णनारायण तवागमात् ।
सेवया पूर्णया तीर्णः सपत्नीकश्च तद्बहु ॥४८॥
यत्प्रीतोऽसि हरेकृष्ण कुलं त्रातं च तारितम् ।
एष मेऽनुग्रहस्तत्र सेवा फलं च जीवतः ॥४९॥
एतद्राज्यफलं चैव भक्तेश्चापि फलं मम ।
किं च त्वं प्रीतिमानास्से संशयं मे निवारय ॥५०॥
किंव्रतं कीदृशं कस्मादेतत्सर्वमनुष्ठितम् ।
श्रुत्वा श्रीचिह्नयोगी च देवानीकमुवाच ह ॥५१॥
शृणु भक्त समग्रं तन्मया यन्निश्चितं स्वतः ।
तव वंशे भविष्यामि भगवान् भक्तवल्लभः ॥५२॥
त्वां तथा तव राज्ञीं च पावनार्थमुपागतः ।
पावने भक्तवंशेऽहं ततश्चावतरामि हि ॥५३॥
साधुरूपं मम रूपं पावयत्येव मानवान् ।
साधुरूपेण बीजं त्वां पूतं कृत्वा ततः परम् ॥५४॥
अनादिश्रीकृष्णनारायणः श्रीकृष्ण एव वै ।
श्रीमद्गोपालबालोऽहं कंभराश्रीसुतो हरिः ॥५५॥
भविष्यामीति सेवायाः फलदानार्थमेव ह ।
सेवां कारयितुं चात्र समायातोऽस्मि सर्वथा ॥५६॥
यथोक्ता मम सेवा वै कृता त्वया च योषिता ।
पादसंवाहनं स्नानं भोजनं शिबिकाधृतिः ॥५७॥
सर्वं सम्पादितं मे वै तेन ते वंशजास्त्विह ।
परत्रापि तथा सर्वे भविष्यन्ति सुखान्विताः ॥५८॥
भवानपि च गोलोकं कालान्तरे गमिष्यति ।
सभार्यस्त्वं महानन्दं धाम्नो मेऽपि लभिष्यसि ॥५९॥
पत्नीव्रतस्य विप्रस्य ब्राह्मण्यं वर्तते तव ।
त्वद्वशे राजलक्ष्म्याश्च राजता ब्रह्मता पुनः ॥६०॥
ब्राह्मण्यं मम वासेन ध्रुवं सदा भविष्यति ।
ब्रह्मिष्ठत्वे महर्षित्वं तपस्विता च साधुता ॥६१॥
मुक्तता दिव्यता चापि कृष्णता मोक्षदातृता ।
सर्वपूज्यत्वमेवाऽपि सर्वरत्नसमुद्रता ॥६२॥
सर्वसौभाग्यखनिता सर्वैश्वर्याढ्यता तथा ।
श्रीलक्ष्मीशारदाभूतिसम्पदाश्रयता सदा ॥६३॥
एतत्सर्वं मम वासाद् भविष्यति पुरा कुले ।
इत्युक्त्वा भगवान् सोऽहं दत्वा हारं तु कानकम् ॥६४॥
मणिमालां तथा दत्वा दत्वा मन्त्रं परं मनुम् ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः' ॥६५॥
पात्रं तथाऽक्षयं दत्वा दत्वा चक्रं सुदर्शनम् ।
अदृश्यतां गतश्चाऽहं देवानीको ययौ गृहम् ॥६६॥
स्वर्णवर्णान् सुप्रासादान् प्राकारं कानकं तथा ।
कल्पोद्यानावृतं दृष्ट्वा वीक्ष्याऽप्सरोयुतं निजम् ॥६७॥
मन्दिरं च तथा दिव्यविमानेन सुशोभितम् ।
दासदासीगणान् दिव्यान् शंखचक्रादिचिह्नितान् ॥६८॥
कामधेनूश्च परितो गौरीर्लक्ष्मीश्च कन्यकाः ।
प्रजा वैकुण्ठतुल्याश्च हस्तिनश्चाष्टदन्तिनः ॥६९॥
अश्वान् श्वेतान् श्यामकर्णान् हंसान् श्वेतान् विहंगमान् ।
रथान् सूर्यशशिव्रातसंशोभान् व्योमगामिनः ॥७०॥
पार्षदान् विष्णुरूपाँश्च देवानीको मुमोद ह ।
यज्ञकुण्डान् मण्डपाँश्च महर्षीन् साधुमण्डलम् ॥७१॥
साधुजनान् लक्षशश्च देवान् सर्वान् ददर्श ह ।
स्वर्णनदी पार्श्वतश्च यान्तीं ददर्श भक्तराट् ॥७२॥
श्रीहरेः कृपया लक्ष्मि देवानीकोऽभवत्तथा ।
महेन्द्र इव नृपतिः स्वराड् राज्ञी रमा यथा ॥७३॥
कृपया मम योगेन धामाऽक्षरं व्यजायत ।
कीशादनं नगरं तच्छ्रीशायनं व्यजायत ॥७४॥
देवानीको महाश्चर्यं जगाम तं च मां प्रभुम् ।
अभजत् परया प्रीत्या संस्मरन् साधुरूपिणम् ॥७५॥
अथाऽहं गतकालेन जातोऽस्मि भक्तवत्सलः ।
कोट्यर्बुदाब्जपत्नीनां नाथः श्रीपुरुषोत्तमः ॥७६॥
एवं साधोः प्रसंगेन प्रसंगेन हरेस्तथा ।
सेवकस्य कुलं सर्वं भवत्येव हरेः कुलम् ॥७७॥
श्रीनारायणीश्रीरुवाच-
कान्तोऽसि सर्वनाथोऽसि परमेशः स्वयं हरिः ।
अकुलस्य कुलं नास्ति श्रीहरेस्तव शार्ङ्गिणः ॥७८॥
तथापि मानवे लोके वंशमूला परम्परा ।
प्रवर्ततेऽतस्ते कृष्ण तामिच्छामि प्रवेदितुम् ॥७९॥
श्रीपुरुषोत्तम उवाच-
शृणु लक्ष्मि पुरा सृष्टेरहं नारायणोऽभवम् ।
ममांगेभ्योऽभवन् ब्रह्मविष्णुरुद्रसुरादयः ॥८०॥
सृष्ट्यादौ च तदा नारायणस्य परमात्मनः ।
मुखपिण्डाद् ब्राह्मणः श्रीपत्नीव्रतो बभूव ह ॥८१॥
पतिव्रताख्या भार्याऽस्य युगलं तद्बभूव ह ।
परमेष्ठिसमायुष्यं वृषमूर्त्यात्मकं हि तत् ॥८२॥
पूर्वपितामहाख्यं मे लक्ष्मि निबोध चादिमम् ।
पत्नीव्रतस्य वै पुत्रो ब्रह्मव्रतस्तु मानसः ॥८३॥
शीलव्रताऽस्य भार्या च बभूव मानसी च सा ।
परमेष्ठिसमायुष्यौ तावुभौ व्यूहकोटिजौ ॥८४॥
वासुदेवो वासुदेवी यौ तावुभौ बभूवतुः ।
तयोः शिष्या लक्षशोऽपि स्वतःप्रकाशयोगिना ॥८५॥
निभालिता अभवँश्च सौराष्ट्रे सर्वतोदिशि ।
ब्रह्मव्रतस्य वै पुत्रो ब्राह्मणः पृथिवीपतिः ॥८६॥
नाम्ना कल्याणदेवानीकस्तु कीशादनेश्वरः ।
सहजाश्रीसंज्ञया च भार्यया युग् बभूव ह ॥८७॥
वेधःपूर्वार्धसमयायुष्यौ तौ च बभूवतुः ।
भूमानारायणो योऽसौ भौमानिकीश्रिया युतः ॥८८॥
ब्रह्माण्डेऽत्राऽऽज्ञया मे वै प्रादुर्भूतो हि ताविमौ ।
ताभ्यां श्रीचिह्नयोगीतिस्वरूपेण सता मया ॥८९॥
आशीर्वादः प्रदत्तो वै प्राकट्यार्थं कुले मम ।
अथ कल्याणदेवानीकस्य पुत्रोऽपि मानसः ॥९०॥
कृष्णमुकुटमण्यात्मा चानर्तनृपपूजितः ।
पिचुदेवानीकनामा नारायणस्वरूपवान् ॥९१॥
वभूव मुकुटकल्ग्या मिष्टादेव्या पुत्रोऽत्र ह ।
वेधःपूर्वार्धसमयायुष्यौ त्वेतौ बभूवतुः ॥९२॥
पिचुदेवानीकपुत्रो महाविष्णुः स्वयं प्रभुः ।
श्रीमान् गोपालकृष्णाऽऽख्यो दशकल्पायुरेव ह ॥९३॥
महालक्ष्म्या कंभराश्रीदेव्या युतो बभूव ह ।
खट्वांगदनृपस्याऽर्थे वरदानाय चागतौ ॥९४॥
एतौ तु पितरौ मत्वाऽनादिकृष्णनरायणः ।
मानसोऽहमभवं सुपुत्रः श्रीपुरुषोत्तमः ॥९५॥
कोट्यर्बुदाब्जपत्नीनां भक्तानां च पतिः प्रभुः ।
अक्षराधिपतिः श्रीशश्चावतारी परात्परः ॥९६॥
भवामि शिवराज्ञीश्रि! कान्तस्ते कृष्णमाधवः ।
अहं, मम पिता, तस्य पिता, तस्य पिता तथा ॥९७॥
तत्पिता, तत्पिता, तस्य पिता चैते तु पूर्वजाः ।
सर्वे नारायणा नारायणांशा मत्स्वरूपिणः ॥९८॥
नारायण्यो मातरश्च सर्वा मदात्मिकाः खलु ।
किमु तद्बहुनोक्तेन लक्ष्मि जानासि सर्वथा ॥९९॥
अहं सर्वात्मको भूत्वा लीलां विस्तारयामि ताम् ।
वंशस्य श्रवणात्पाठाद् भुक्तिर्मुक्तिर्ध्रुवा भवेत् ॥१००॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने कल्याणदेवानीकभक्तस्य सेवापरीक्षा, श्रीकृष्णनारायणपरम्परानिर्देशश्चेत्यादिनिरूपणनामा सप्ताधिकशततमोऽध्यायः ॥१०७॥
N/A
References : N/A
Last Updated : May 04, 2021
TOP