संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः १९०

द्वापरयुगसन्तानः - अध्यायः १९०

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं चमत्कारमयीं कथाम् ।
महासौराष्ट्रदेशीया भक्ताः सङ्घगताः शतम् ॥१॥
कुंकुमवापिकाक्षेत्रं सोमनाथं च रैवतम् ।
स्वर्णवतीं कृष्णभूमिं गोपनार्थं च सुन्दरम् ॥२॥
एवमादीनि तीर्थानि कर्तुं सौराष्ट्रमाययुः ।
मार्गे महीं तथा वापीं तीर्त्वा नावा ततः परम् ॥३॥
साभ्रमतीं समुत्तीर्य गोपनाथं समाययुः ।
ततो गुप्तप्रयागं च कृत्वा सिंहवनं महत् ॥४॥
प्रविश्य यावदायान्ति सोमनाथं प्रति द्रुतम् ।
सिंहारण्ये तदा प्राप्ता लुण्टकाः शस्त्रधारिणः ॥५॥
लुण्टकाधिपतिस्तेषु नाम्ना सामान्तविक्रमः ।
अश्ववारैश्च सहितः शस्त्रादियुग्भटान्वितः ॥६॥
यन्त्रनादानकरोद्वै सन्निधौ नाऽतिदूरगः ।
आक्रोशान् भयदाँश्चापि चक्रुस्तस्यानुगामिनः ॥७॥
लुण्टनार्थं द्रुतं संघस्याऽभितो बन्धनं व्यधुः ।
मध्ये चक्रुर्भयदानैः संघस्य शतमानवान् ॥८॥
स्त्रीणां भूषा नराणां च भूषाद्रव्याणि यानि च ।
उत्तारयित्वा त्वेकत्र कारयामासुरुल्बणाः ॥९॥
शुभाम्बराणि सर्वाणि जगृहुः संघवर्तिनाम् ।
संघाग्रगण्यवणिजो बबन्धू रज्जुभिस्तदा ॥१०॥
पद्मचन्द्रं शंखचन्द्रं शृंखलाचन्द्रमित्यपि ।
वनचन्द्रं वालिचन्द्रं बबन्धुस्ते हि लुण्टकाः ॥११॥
अन्यान् दण्डैस्ताडनादि प्रचक्रुर्भयहेतवे ।
भीतास्ते वणिजः सर्वे मौना बभूवुरर्दिताः ॥१२॥
ददुः सर्वस्वमेतेभ्यो लुण्टकेभ्योऽतिताडिताः ।
अथैतेषु मम भक्तो वैष्णवो वनचन्द्रकः ॥१३॥
तस्य पत्नी सुखादेवी मम भक्ताऽभवद् रमे ।
आबाल्यात्तौ मम भक्तौ भजतो मां निरन्तरम् ॥१४॥
साधोर्मे सायनायननाम्नो योगेन वैष्णवौ ।
वर्तेते तौ भक्तियुक्तौ कृष्णनारायणाश्रितौ ॥१५॥
आपत्काले तु तौ भक्तौ सस्मरतुस्तदा हि माम् ।
अन्येऽपि बालगोपाला रुरुदुः सस्मरुः प्रभुम् ॥१६॥
लुण्टकेभ्यो हरेकृष्ण प्ररक्षय हि तीर्थिनः ।
अनाथानां वने कृष्णनाथनारायणो भवान् ॥१७॥
त्राता मोचयिता दुःखाद् रक्षयिता पिता भवान् ।
माता गुरुर्हरिकृष्णो बालकृष्णः प्ररक्षतु ॥१८॥
यतो वयं कृतपापा लुण्ट्यन्तेऽतो वनान्तरे ।
तथापि निजभक्तानां रक्षां विधेहि माधव ॥१९॥
तव भक्तिं करिष्यामो दानं दास्याम एव ते ।
सर्वस्वं भगवन् विष्णो रक्ष कृष्णनरायण ॥२०॥
कुंकुमवापिकातीर्थेऽर्पयिष्यामो धनादिकम् ।
यदि लुण्टकदुष्टेभ्यो रक्षां नस्त्वं विधास्यसि ॥२१॥
विभूषणानि सर्वाणि श्रेष्ठाम्बराणि यानि च ।
रूप्यकाः स्वर्णमुद्राश्च दास्यामोऽश्वसरोवरे ॥२२॥
व्रतं कार्तिकमासाद्य करिष्यामो फलादिभिः ।
नित्यं शतं मालिकाश्चाऽऽवर्तयिष्याम एव च ॥२३॥
सतां मठेषु वै मासं मासं स्थित्वा तु माघके ।
मासे सेवां करिष्यामः सतामाज्ञानुसारिणीम् ॥२४॥
इत्येवं वनचन्द्राद्या आर्त्ता लुण्टकधर्षिताः ।
मानता विविधाश्चक्रुर्लुण्ठकेभ्यो विमुक्तये ॥२५॥
वनचन्द्रस्य भार्याऽपि सुखादेवी तथा स्त्रियः ।
या याः संघगताश्चासन् प्रार्थयामासुरेव माम् ॥२६॥
हे हरे हे वनवासिन् वृन्दावनविहारकृत् ।
गोपीसंघान्तरगुप्त कृष्ण रक्ष स्वदासिकाः ॥२७॥
अबलानां सबलोऽसि भक्तानां भगवानसि ।
दासीनां मोदकर्ताऽसि कृष्ण रक्षय दासिकाः ॥२८॥
वने गोपीविहारोऽसि राधासखोऽसि निर्जने ।
शयने कमलानन्द कृष्ण रक्षय दासिकाः ॥२९॥
प्रलये मुक्तसेव्योऽसि सृष्टौ भक्तिमतीपतिः ।
रासे सर्वानुरक्तोऽसि कृष्ण रक्षय दासिकाः ॥३०॥
विपत्तौ चार्त्तदीनेश शरणागतरक्षक ।
अरातिकष्टहर्तस्त्वं कृष्ण रक्षय दासिकाः ॥३१॥
गर्भे भ्रूणस्य पोष्टा त्वं बाल्ये निर्मलहृत्स्थितः ।
यौवने प्रेमपात्रं त्वं कृष्ण रक्षय दासिकाः ॥३२॥
वार्धक्ये शिष्टवर्य त्वं युद्धे जयप्रदः पुमान् ।
निराश्रये त्वं चाधारः कृष्ण रक्षय दासिकाः ॥३३॥
रोहिणाण्डासुरः पूर्वमनादिद्युनरायणः ।
भूत्वा निषूदितः कृष्ण त्वया नः स प्ररक्षतु ॥३४॥
अनादिश्रीमेरुनारायणस्त्वं चाऽभवं पुरा ।
निम्नं तु पतमानस्य मेरोः रक्षा त्वया कृता ॥३५॥
सूर्याग्निना दह्यमानब्रह्माण्डस्य त्वया पुरा ।
रक्षा शान्तिः कृताऽनादिविष्णुनारायणात्मना ॥३६॥
धूम्रासुरविनाशश्च चन्द्ररक्षा त्वया पुरा ।
विहिता श्रीहरेऽनादिदेवनारायणात्मना ॥३७॥
त्वयाऽनादियज्ञनारायण यज्ञाः प्रवर्तिताः ।
रुद्रशास्ताऽनादिब्रह्मनारायणो ह्यभूः पुरा ॥३८॥
देवधिष्ण्यनियमायाऽनाद्याऽऽदित्यनरायणः ।
भवान् पुराऽऽभवत् कृष्ण कृष्ण रक्षय दासिकाः ॥३९॥
नागशास्ताऽनादिगरुत्मन्नारायणरूपवान् ।
ध्रुवस्थित्यै भवाननाद्यार्षनारायणोऽभवत् ॥४०॥
षुरानन्दादिदैत्यानां पराभूत्यर्थमेव ह ।
त्वमनादिप्राज्ञनारायणोऽभवः परेश्वर ॥४१॥
त्वमनादिवीरनारायणोऽभवो वृषावनः ।
त्वमनादिभद्रनारायणो दग्धप्रमुक्तये ॥४२॥
तुंगभद्रासनापुत्रीपतिर्हरिनरायणः ।
अभवस्त्वं पुरा कृष्ण कृष्ण रक्षय दासिकाः ॥४३॥
नाशार्थं कोशस्तेनाख्यरक्षसस्त्वं पुराऽभवः ।
अनादिश्रीबीजनारायणो बीजस्य रक्षकः ॥४४॥
धर्मव्रतस्य पुत्राणां मोक्षार्थं त्वं पुराऽभवः ।
अनादिश्रीवरनारायणो ना कृष्ण रक्षतु ॥४५॥
सुदर्शनीमहासाध्वीशापेन स्त्रीमयं जगत् ।
रक्षार्थं त्वमनादिस्त्रीपुंनारायणतामगाः ॥४६॥
अनादिश्रीजलनारायणस्त्वं माकरासुरम् ।
हत्वा लोकानरक्षः श्रीकृष्ण रक्षय दासिकाः ॥४७॥
अनादिश्रीशीलनारायणस्त्वमभवः पुरा ।
साधुधर्मप्ररक्षार्थं कृष्ण रक्षय दासिकाः ॥४८॥
अनादिश्रीवार्धिनारायणस्त्वमभवः पुरा ।
व्याघ्रानलादिनाशार्थं कृष्ण रक्षय दासिकाः ॥४९॥
त्वमनादिचतुर्मुखनारायणोऽभवः पुरा ।
राधनिकापुण्यरातविप्रयोरिष्टदो भवान् ॥५०॥
अभवच्छ्रीछ्रीपुरुषोत्तमनारायणः पुरा ।
तीर्थपूत्यर्थमनादितीर्थनारायणोऽभवः ॥५१॥
भक्त्यर्थं त्वमनादिश्रीजीवनारायणोऽभवः ।.
यज्ञे त्वं श्रीमदर्धश्रीश्वरनारायणोऽभव ॥५२॥
पित्रुद्धर्ताऽनाद्यर्धश्रीपितृनारायणोऽभवः ।
भक्त्या मोक्षोपदेशार्थं प्लक्षनारायणोऽभवः ॥५३॥
नरमेधे - भक्तरक्षामनादिपुंनरायणः ।
भूत्वाऽकरोस्त्वं देवेश कृष्ण रक्षय दासिकाः ॥५४॥
सूर्यवर्च्चनृपद्वाराऽनादिश्यामनरायणः ।
अभवस्त्वं पुरा कृष्ण कृष्ण रक्षय दासिकाः ॥५५॥
अनादिश्रीराजनारायणस्त्वं चाऽभवः पुरा ।
मायूरकाऽसुरहन्ता कृष्ण रक्षय दासिकाः ॥५६॥
अनादिश्रीब्रह्मचारिनारायणोऽभवः पुरा ।
नैष्ठिकतारक्षणार्थं कृष्ण रक्षय दासिकाः ॥५७॥
हल्लकासुरनाशार्थं शिवोज्जीवार्थमित्यपि ।
अनादिश्रीशिवनारायणस्त्वं चाऽभवः पुरा ॥५८॥
अनादिश्रीस्वर्णनारायणस्त्वं चाऽभवः पुरा ।
कुबेरस्योज्जीवनार्थं कृष्ण रक्षय दासिकाः ॥५९॥
ज्वालारुणाऽचलवह्निरसदग्धप्रजाऽवनम् ।
अनादिश्रीस्वामिनारायणस्त्वं चाऽकरोः पुरा ॥६०॥
निर्वाणिकाऽऽराधितया लक्ष्म्या साकं भवान् पुरा ।
अनादिसाऽवननारायणोऽभवत् स रक्षतु ॥६१॥
अंशुक्रमथनृपतेर्भक्त्या त्वमभवः पुरा ।
अनादिश्रीसाधुनारायणः कृष्णः स रक्षतु ॥६२॥
शप्तस्य वर्णिशालस्य मनोरुज्जीवनाय वै ।
अनादिश्रीभक्तनारायणोऽभवः स पातु नः ॥६३॥
वर्मधरक्ष्मेशमोक्षार्थं त्वं पुरा स्वयं प्रभुः ।
अनादिश्रीमेधनारायणोऽभवः स पातु नः ॥६४॥
अनलादमहासुरविनाशार्थं भवान् पुरा ।
अनादिश्रीवह्निनारायणोऽभवत् स पातु नः ॥६५॥
इलोदरविनाशार्थं रसनारायणोऽभवः ।
स त्वं नारायणकृष्णकृष्ण रक्षय दासिकाः ॥६६॥
अनादिश्रीचक्रनारायणस्त्वं चाऽभवः पुरा ।
दैत्यनाशकरः कृष्णकृष्ण रक्षय दासिकाः ॥६७॥
कृतधर्मस्थापनायाऽनादिसत्यनरायणः ।
अद्रिस्थित्यर्थमनादिश्रीहिरण्यनरायणः ॥६८॥
भक्तार्थं त्वमनादिश्रीनैरञ्जनिनरायणः ।
अनादिश्रीपुण्यनारायणश्चाऽप्यभवः पुरा ॥६९॥
पुण्यवतीशापनिवर्तकः कृष्णः स पातु नः ।
अनादिश्रीबृहद्ब्रह्मनारायणोऽभवद् भवान् ॥७०॥
अप्सरसां मनःपूर्त्यै कृष्ण रक्षय दासिकाः ।
अनादिश्रीगुरुनारायणस्त्वं चाऽभवः पुरा ॥७१॥
ब्रह्मविद्याप्रदानार्थं कृष्ण रक्षय दासिकाः ।
बृहद्धर्मभूपयज्ञे साधुदीक्षाप्रदायकः ॥७२॥
अनादिश्रीमदाचार्यनारायणः स पातु नः ।
अनादिश्रीमहाविद्युन्नारायणोऽभवः पुरा ॥७३॥
विद्युत्स्तावदैत्यहन्ता कृष्ण रक्षय दासिकाः ।
अनादिश्रीमधुनारायणस्त्वं चाऽभवः पुरा ॥७४॥
मधुभक्षाऽसुरहन्ता कृष्ण रक्षय दासिकाः ।
अनादिश्रीनाथनारायणस्त्वं चाऽभवः पुरा ॥७५॥
तिष्ये दैत्यविनाशार्थं कृष्ण रक्षय दासिकाः ।
अनादिश्रीविभुनारायणस्त्वं चाऽभवः पुरा ॥७६॥
स्वर्णोत्सवे वेधसः स कृष्ण रक्षय दासिकाः ।
अनादिश्रीमोक्षनारायणस्त्वं चाऽभवः पुरा ॥७७॥
अनादिश्रीकृष्णनारायणस्त्वं कान्तकेशव ।
ब्रह्मप्रियादिस्वामिन्नो लुण्टकेभ्यः प्ररक्षय ॥७८॥
बालकृष्ण हरे कृष्ण वल्लभेश कृपां कुरु।
लुण्टकेभ्योऽवनं शीघ्रं कुरु ते शरणं गताः ॥७९॥
इत्युक्त्वा ताः स्त्रियश्चापि लक्ष्मि ध्यानं व्यधुर्हरेः ।
अहं हरिः स्वयं तत्राऽऽगत्याऽदृश्योऽभवं क्षणम् ॥८०॥
शृण्वानः स्तुतिवाक्यानि मम प्राक्चरितानि वै ।
लुण्टकाश्च संचिन्वन्ति त्वेकत्र नाणकादिकम् ॥८१॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने महासौराष्ट्रयीसंघस्य लुण्टकजनप्रधर्षितस्य स्तवनमिति- निरूपणनामा नवत्यधिकशततमोऽध्यायः ॥१९०॥

N/A

References : N/A
Last Updated : May 05, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP