द्वापरयुगसन्तानः - अध्यायः १११
लक्ष्मीनारायणसंहिता
श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि! त्वं जलं तु जीवनं सदा ।
जलदानं जीवदानं कीर्तितं चामृतात्मकम् ॥१॥
शीतलं मधुरं वारि मिष्टं कृत्वा सुगन्धयुक् ।
शार्करं पाययेत् साधून् विप्रानन्याँस्तृषान्विताम् ॥२॥
प्रपाः कुर्यात् कारयेच्च पाययेत् सुजलानि वै ।
कूपान् वापीतडागाँश्च कारयेल्लोकतृप्तिदान् ॥३॥
जलदानं रसदानं परे लोके प्रपद्यते ।
अर्धं पापस्य हरति जलं दत्तं सुतृप्तिदम् ॥४॥
जलं साक्षिस्वरूपं च वरुणात्म प्रदीव्यति ।
चेतनं ब्रह्म वार्यास्ते देयं पुण्यतमं जलम् ॥५॥
गावो विप्राः साधवश्च साध्व्योऽन्ये देहिनोऽपि च ।
यस्य खाते पिबन्त्यंभस्तारयन्ति कुलानि ते ॥६॥
यथा वारि तथा पुण्यं घृतं दद्यात् प्रभक्षणे ।
साधुद्विजातिथिभ्योऽपि रूपवान् रसवान् भवेत् ॥७॥
फलं पुष्टिं यशः स्नेहं चामृतं लभते दिवि ।
बलं गाश्च महिषीश्च लभते घृतदानकृत् ॥८॥
दद्याद् दाने पायसं च सर्पिर्दद्याद् विशेषतः ।
घृतदातुर्गृहं रक्षोयमाद्या धर्षयन्ति न ॥९॥
पिपासया न म्रियते करकावारिदानकृत् ।
शकटस्य प्रदातुश्च भवन्ति वाहनानि वै ॥१०॥
स्वर्गयानानि रम्याणि विमानानि शुभानि च ।
उपानत्संप्रदातुश्च नश्यन्ति कण्टकाः सदा ॥११॥
शकटं दम्यसंयुक्तं दत्तं भवति तस्य वै ।
तिलदानं प्रकर्तव्यं पितृभोज्याः शुभास्तिलाः ॥१२॥
सर्वसत्रैर्यजते स यस्तिलान् सम्प्रयच्छति ।
पौष्टिकान् रूपदाँश्चापि तथा पापविनाशकान् ॥१३॥
यत्र घृतं व्रीहिर्नास्ति नास्ति फलानि पायसम् ।
तत्र तिलैः प्रहोतव्यं तृप्यन्ति पितरः सुराः ॥१४॥
तिलदस्याऽमृतं स्वर्गं चोपतिष्ठति सर्वदा ।
तिलदाताऽन्नदः प्रोक्तः फलदश्चापि कथ्यते ॥१५॥
एवं लक्ष्मि! भूमिदाता यज्ञषष्ठांशमृच्छति ।
न सीदति स कृच्छ्रेषु न च दुर्गाणि गच्छति ॥१६॥
शीतवातातपसहां गृहभूमिं सुशोभिताम् ।
यो दत्ते मोदते स्वर्गे पुण्यान्तेऽपि न चाल्यते ॥१७॥
प्रतिश्रयप्रदाता वै स्वर्गे याति प्रमोदते ।
धर्मशालाविधाता च स्वर्गलोके प्रमोदते ॥१८॥
यस्य सौधे पाठशाला साधुशाला गवां कुलम् ।
स दाता स्वश्च वैराजं प्राधानिकं गृहं लभेत् ॥१९॥
आशतानि कुलान्येव तारयत्याश्रयप्रदः ।
क्षेत्रदः सततां लक्ष्मीं रत्नदो वंशविस्तरम् ॥२०॥
उद्यानदः फलरसान् तीर्थदो मोक्षमुत्तमम् ।
गोदो याति तु गोलोकं विप्रदो ब्रह्म चाक्षरम् ॥२१॥
कुमारदो भूमलोकं कन्यादः श्रीस्थलीं शुभाम् ।
दासीप्रदोऽप्सरोलोकं दीपदः सूर्यसन्निधिम् ॥२२॥
घृतदः सोमलोकं च दुग्धदोऽमृतधाम च ।
रत्नदोऽव्याकृतं धाम स्त्रीदो विष्णुपदं परम् ॥२३॥
गृहदः सत्यलोकं च ऋद्धिदः प्राकृतं स्थलम् ।
भूषादो वैष्णवं धाम प्रयाति शाश्वतीः समाः ॥२४॥
गोदः प्राणप्रदः प्रोक्तः शरण्यस्य प्रदस्तथा ।
गोसहस्राणि दश यो ददातीन्द्रत्वमृच्छति ॥२५॥
स्वायंभुवं महत्स्थानं कणदः समगच्छति ।
लोमशश्च गुरुः प्राह प्राणदानं परं मतम् ॥२६॥
येन प्राणाः प्ररक्ष्यन्ते प्राणदानं हि तन्मतम् ।
अन्नेनापि जलेनापि तथौषधादिभिः क्वचित् ॥२७॥
शरणेनाऽभयेनाऽप्याश्रयेण प्राणरक्षणम् ।
तानि दानानि कमले प्राणदानानि सर्वदा ॥२८॥
दातव्यानि चिरायुष्ट्वफलानि स्वर्गदानि च ।
जलं सुराणाममृतं जायते दत्तमत्र यत् ॥२९॥
नागानां तत् सुधारूपं पितॄणां च स्वधात्मकम् ।
वत्सानां चापि बालानां जलं दुग्धात्मकं भवेत् ॥३०॥
जलदानं सदा दद्याद् यदीच्छेद् भूतिमात्मनः ।
दानान्येतानि धन्यानि चायुष्याणि सुखानि च ॥३१॥
सर्वकामप्रदान्येव प्रेत्यानन्दप्रदानि च ।
एतद्दानानि दत्वाऽत्र भोगान् भुक्त्वा त्रिविष्टपे ॥३२॥
उषित्वा चिरकल्पाँश्चाऽक्षरं स्तोत्रात् प्रयाति च ।
पुरुषोत्तमसाम्नश्च फलं त्वक्षरधाम वै ॥३३॥
निजदानं प्रदातव्यं गृहिणा त्यागिने शुभम् ।
सर्वं त्यक्त्वा साधवे स्वार्पणकर्ताऽक्षरे पदे ॥३४॥
मोदते ब्रह्मविद्भक्तो मुक्तो भूत्वा निरन्तकः ।
पूर्वे नृपास्तथा विप्राः स्वार्पणं त्यागिने रमे ॥३५॥
गुरवे चार्पणं चक्रुर्नैजं त्यागाश्रमाय ह ।
भूत्वा वनी ततो न्यासी गच्छेद्वै परमं पदम् ॥३६॥
पुरुषोत्तमसाम्ना वै लभेताऽक्षरधाम च ।
शृणु लक्ष्मि कथां दीर्घशीलस्य ब्राह्मणस्य वै ॥३७॥
शत्रुंजयायाः सरितस्तटे ग्रामे विरामणे ।
दीर्घशीलोऽभवद्विप्रो वसन्त्येऽपि भूसुराः ॥३८॥
अथ प्राह यमः कंचिद् दूतं भयंकरं निजम् ।
याहि विरामणं दीर्घशीलं समानय ॥३९॥
भारद्वाजं गोत्रतश्च स्नानपूजाविवर्जितम् ।
नास्तिकं निन्दकं शास्त्रमृषावादिनमेव तम् ॥४०॥
मा चाऽन्यमानयेथास्त्वं नाम्ना गोत्रेण सदृशम् ।
दानशीलं दीर्घशीलं वसन्तं वै विरामणे ॥४१॥
स गत्वा त्वानयद् दूतो निषिद्धं दानशीलिनम् ।
ग्रामे कोलाहलो जातो मृतो वै दीर्घशीलवान् ॥४२॥
सम्बन्धिनः सुहृदश्चाययुस्तदुभयोर्गृहम् ।
भ्रान्ता न्यवर्तयँश्चापि दृष्ट्वा जीवन्तमेककम् ॥४३॥
केचिदाहुर्यमदूतोऽस्माभिर्दृष्टो भयंकरः ।
दीर्घशीलं सुनीत्वैव गच्छन् व्योमगतिस्त्वरन् ॥४४॥
श्रुत्वा त्रासं जगामापि नास्तिको मरणं निजम् ।
अन्तिके त्वागतं किन्तु दूतो विस्मृत्य मां परम् ॥४५॥
आस्तिकं हृतवानेव ततो दानं करोमि च ।
दत्तवान् द्रुतमेवाऽयं गोतिलाम्बरभूषणम् ॥४६॥
गृहं घृतं सुभोज्यान्नं जजाप च पुनः पुनः ।
पुरुषोत्तमसामाऽपि भीयुक्तो मरणस्य सः ॥४७॥
तत्पुण्यं बहुधा जातं सर्वपापविनाशकम् ।
प्रतीक्षते यमदूतं त्वायास्यन्तं मुहुर्दिशम् ॥४८॥
अथ संयमिनीपुर्यां गतश्चास्तिकभूसुरः ।
दृष्टो यमेन धर्मेण नतश्चोत्थाय पूजितः ॥४९॥
मधुपर्कादिभिः सम्यक् सत्कृतो वन्दितस्तथा ।
भोजितश्चामृतान्नैश्च क्षमां प्रति ततोऽर्थितः ॥५०॥
अथ धर्मनृपो दूतं प्राह नाऽयं स दण्डभाक् ।
पूजितो नीयतामेषः सोऽन्य आनीयतामिति ॥५१॥
एवमुक्ते तु वचने त्वास्तिकः प्राह धर्मजम् ।
निर्विण्णोऽहं शेषकालं वसेयमिति सर्वदा ॥५२॥
नाऽहमिच्छामि दुःखाढ्ये देहे निवसितुं यम ।
धर्मान् श्रावय भद्रं ते यान् प्रपाल्याऽप्यते सुखम् ॥५३॥
धर्मराजस्ततः प्राह शृणु तत्त्वं हि भूसुर ।
भूमिदानं सर्वदानसमं सर्वसुखप्रदम् ॥५४॥
गृहदानं सर्वसाध्यसाधनैश्चोपबृंहितम् ।
सुखदं पुण्यदं स्वर्गप्रदं विप्र परं मतम् ॥५५॥
उद्यानवाटिकादानं रसदानं परं मतम् ।
सर्वरसानवाप्नोति फलपुष्पादनानि च ॥५६॥
तटाकसरितां दानं श्रेष्ठं तृप्तिप्रदं मतम् ।
गोदानं परमं विप्र स्वर्गमोक्षप्रदं मतम् ॥५७॥
वैतरणीतारकं च मायाबन्धननाशकम् ।
भवाब्धितारकं पापक्षालकं हि गवार्पणम् ॥५८॥
स्वर्गदानं भूषणादिसमर्पणं परं मतम् ।
शृंगाराम्बरदानं च स्मृद्धिदं परमं मतम् ॥५९॥
कन्यादानं च दाम्पत्यप्रदं श्रेष्ठं दिवम्प्रदम् ।
दासदासीप्रदानं च धनदानं तथा शुभम् ॥६०॥
सर्वगार्हस्थ्यभोगानां सम्पादकं तु नाणकम् ।
तिलदानं घृतदानं दीपदानं परं तथा ॥६१॥
शर्करागूडदानं च यवगोधूमदानकम्।
छत्रोपानत्प्रदानं च स्वर्गराज्यप्रदं मतम् ॥६२॥
तानि सर्वाणि देयानि देयं चाभयदानकम् ।
मोक्षदानं परतमं सर्वेभ्यो वै विशिष्यते ॥६३॥
विप्र त्वया प्रदत्तानि बहूनीमानि सर्वथा ।
पुण्यवानसि सम्यक् त्वं कुरु श्रेयो हि देहिनाम् ॥६४॥
पुरुषोत्तमसामाख्यं स्तोत्रं जप पुनर्मुहुः ।
मोक्षदं शाश्वतानन्दप्रदं मोक्षप्रमोददम् ॥६५॥
नित्यसुखप्रदं पापध्वंसकं चाक्षरप्रदम् ।
पुरुषोत्तमसाम्नस्तु पाठकं पूर्वपापिनम् ॥६६॥
दण्डं नाऽहं ददाम्यत्र पावनः स तु कीर्त्यते ।
अदण्ड्यो मे भवेद् विप्र महापाप्यपि पाठकः ॥६७॥
याहि विप्र सुखेनैव क्षन्तव्यश्चापि धर्मराट् ।
इत्युक्तो दीर्घशीलश्च दूतेन सह सत्वरम् ॥६८॥
नत्वा धर्मं चाययौ वै निजं देहं विनेश ह ।
प्रसन्ना बान्धवा जाता विप्रो दानानि वै ददौ ॥६९॥
ययौ धामाऽक्षरं चान्ते जप्त्वा स्तोत्रं मम प्रियम् ।
पुरुषोत्तमसामाख्यं सर्वबाधानिवर्तकम् ॥७०॥
यमदूतो नास्तिकं तं नीत्वाऽऽययौ यमं प्रति ।
दण्डायाऽऽवेदयामास चित्रगुप्तं तु धर्मराट् ॥७१॥
दृष्ट्वाऽऽह चित्रगुप्तोऽपि पुण्यं विवर्धतेऽस्य वै ।
पापान्यद्यानि सर्वाणि दुरीतानि कृतानि तु ॥७२॥
विलीनानि समग्राणि पुरुषोत्तमसामतः ।
पुण्यपुञ्जाः प्रवर्धन्ते सर्वदानादिभिस्त्विह ॥७३॥
ततो दण्ड्योऽस्ति नाऽयं वै पूजनीयोऽस्ति सर्वथा ।
श्रुत्वा श्रीधर्मराजोऽपि पुपूज दीर्घशीलिनम् ॥७४॥
भयेन पुण्यकर्तारं जप्तारं स्तवनस्य च ।
अर्घ्यं चाऽऽचमनं पादप्रक्षालनजलं ददौ ॥७५॥
स्वागतं चाऽर्हणं भोज्यं मधुपर्कादिकं ददौ ।
.कृत्वा च संविदं तेन विससर्ज तदा हि सः ॥७६॥
पप्रच्छ धर्मराजं तं कृतं नष्टं कथं मम ।
नास्तिकोऽहं निन्दकश्चाऽघर्मी पापी भवामि च ॥७७॥
तथापि नैव दण्डो मे महाश्चर्यमिदं मम ।
वद मे धर्मराज त्वं कथं दण्डो न वै मम ॥७८॥
श्रुत्वाऽऽह धर्मराजस्तं कृतं तु भुज्यते सदा ।
नियमोऽस्ति सदा लोके प्रज्वलितं न भुज्यते ॥७९॥
अन्नं वस्त्रं गृहं यानं शयनं पापकं वृषः ।
प्रज्वलिता न भुज्यन्ते ते पापं ज्वलितं द्विज ॥८०॥
पुरुषोत्तमसामाख्यस्तोत्रपाठेन सर्वथा ।
दानानां परमं पुण्यं चोद्भूतं तव भूसुर ॥८१॥
भुंक्ष्व पुण्यं क्षितौ दीर्घमुषित्वा स्वस्ततः परम् ।
ततः सत्यं च वैराजं वैकुण्ठं च ततः परम् ॥८२॥
ततोऽक्षरं शाश्वतं च याहि भुंक्ष्व महासुखम् ।
पुरुषोत्तमभक्तानामशुभं विद्यते न वै ॥८३॥
कालमायापापकर्मभया नश्यन्ति सर्वथा ।
पुरुषोत्तमभक्तेषु नाऽधिकारोऽस्ति मेऽपि च ॥८४॥
पूर्वनास्तिकविप्रोऽसौ पप्रच्छ च ततो यमम् ।
गत्वा तत्र मया यद्यत् कर्तव्यं तद् वदाऽत्र मे ॥८५॥
यथाशक्ति करिष्यामि कारयिष्यामि शोभनम् ।
श्रुत्वाऽऽह यमराजोऽपि विप्रं धर्ममयं वृषम् ॥८६॥
शृणु विप्र प्रकर्तव्यं मन्दिरं परमात्मनः ।
स्थापनीयोऽनादिकृष्णनारायणः श्रिया सह ॥८७॥
सेवाः सर्वविधाश्चास्य करणीया यथाक्षणम् ।
भोजनीयाः साधवश्च सेवनीया निरन्तरम् ॥८८॥
पादसंवाहनाद्यैश्च दानैश्च सर्ववस्तुभिः ।
दोषणीयाः सदा सन्तो मोक्षदा भवतारकाः ॥८९॥
मन्दिरे दीपदानं च जलप्रस्रवणार्पणम् ।
न वेदनार्पणं चापि पूजाद्रव्यार्पणं तथा ॥९०॥
यानवाहनदानं च वाटिकोद्यानकार्पणम् ।
ध्वजार्पणं कलशानामर्पणं पात्रकार्पणम् ॥९१॥
शय्यार्पणं रसानामर्पणं गन्धार्पणं तथा ।
स्वर्णभूषार्पणं दिव्याम्बराद्यर्पणमित्यपि ॥९२॥
शाकपत्रार्पणं चापि ताम्बूलकादिकार्पणम् ।
व्यजनाद्यर्पणं चापि कम्बलाद्यर्पणं तथा ॥९३॥
पूजाप्रवाहवस्तूनां द्रव्याणामर्पणं तथा ।
वादित्राणां शुभं दानं वेषाणामर्पण तथा ॥९४॥
महास्थाल्यादिदानं च गर्गरीदानमित्यपि ।
पर्यंकादिप्रदानं च महासनसमर्पणम् ॥९५॥
गोवाजिगजदानं च वृषभार्पणमित्यपि ।
मणिरत्नादिदानं च कर्तव्यं मन्दिरे सदा ॥९६॥
दातव्यं गुरवे सर्वं चेष्टदेवार्हणाय वै ।
दासीदासप्रदानं च सभाशालाप्रदानकम् ॥९७॥
कूपवापीतडागादिदानं कार्यं तु मन्दिरे ।
छत्रचामरदानं तु सिंहासनादिकार्पणम् ॥९८॥
पुस्तकार्पणमेवापि पेटिकाद्यर्पणं तथा ।
कणानामर्पनं चापि गोधूमतण्डुलार्पणम् ॥९९॥
एवंविधानि दानानि जलान्नसहितानि वै ।
दातव्यानि विशेषेण गृहिणा भूसुरेण ह ॥१००॥
स्नानं सन्ध्याजपं भक्तिं स्तोत्रपाठं समाचरेत् ।
मोक्षदं चात्मविज्ञानं ब्रह्मविद्यां पठेत्तथा ॥१०१॥
पित्रोः प्रसेवनं कुर्यात् परोपकारमित्यपि ।
ब्रह्मशीलो भवेच्चापि भक्तिशीलो भवेत्तथा ॥१०२॥
रागहीनो भवेच्चापि दोषान् प्रवर्जयेत् सदा ।
विष्णुपूजां प्रकुर्याच्च मोक्षशास्त्ररतो भवेत् ॥१०३॥
कीर्तयेत् सततं कृष्णनारायणं परेश्वरम् ।
ध्यायेत्तं श्रीपतिं लक्ष्मीपतिं मुक्तपतिं हरिम् ॥१०४॥
वन्देत श्रीपरमेशं पुरुषोत्तमसामगः ।
एवं कृत्वा सुकर्माणि पुण्यानि मोक्षदानि च ॥१०५॥
जित्वा मायां तथा कालं मृत्युं जित्वाऽक्षरं व्रजेत् ।
इत्येवं विप्र गत्वा त्वं कुरु देवार्चनं सदा ॥१०६॥
पित्रर्चनं सतां पूजां विधेहि स्वात्मवत् सदा ।
विजयस्ते सदा भावी स्वर्गे सत्ये तथाऽक्षरे ॥१०७॥
इत्युक्तः पद्मजे! विप्रो ययौ गृहं चकार तत् ।
अन्ते स्वर्गाण्यनेकानि भुक्त्वा धामाऽक्षरं ययौ ॥१०८॥
श्रुत्वा स्मृत्वा पठित्वाऽपि कृत्वा देवार्चनं तथा ।
भूत्वा ममाश्रितः प्राणी लभते मेऽक्षरं रमे! ॥१०९॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने जलदानभूदानविविधदानकर्तुः पुरुषोत्तमसामजापकस्य दीर्घशीलस्याऽऽस्तिकस्य दीर्घशीलस्य नास्तिकस्याऽपि
यमद्वारोपदेशो मोक्षणं चेत्यादिनिरूपणनामैकदशाधिकशततमोऽध्यायः ॥१११॥
N/A
References : N/A
Last Updated : May 04, 2021
TOP