संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः २२१ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः २२१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २२१ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं गृहकारस्य वै कथाम् ।तक्षशिलायां पुर्यां वै नाम्ना शिवजयोऽभवत् ॥१॥भक्तः प्रासादकुशलो मन्दिरगृहकृत्कलः ।नगरीरचनाविज्ञो देवालयादिकारकः ॥२॥शिल्पिवर्यः स्बबुद्ध्यैव कुरुते च कलोद्भवम् ।राजप्रासादनिर्माताऽऽविष्कृतनवघट्टनः ॥३॥नवाकृतिकरश्चापि नवकक्षादिगोचरः ।असंख्यनाणकैः सौधान् निर्माति दैवसदृशान् ॥४॥एकदा वृषपर्वाख्यः ऋषिस्तं समुपाययौ ।महाभागवतो भक्तः साधुधर्मा सुसंयतः ॥५॥उत्थाय सहसा शिवजयः स्वागतमाचरत् ।अर्घं च मधुपर्कं च ददावृषये भाववान् ॥६॥न्यषादयद् रम्यपूतासने जलं समार्पयत् ।पादसंवाहनं चांगमर्दनं च व्यधादृषेः ॥७॥ऋषिस्तस्य तु कुशलं पप्रच्छ प्रीतमानसः ।सोऽपि तवाऽऽगमादत्र कुशलं मे उवाच तम् ॥८॥यत्र साधोश्चरणौ वै पूज्येते श्रद्धया गृहे ।तद्गृहं दिव्यवेति श्मसानं तु तदन्यकम् ॥९॥अद्य मे कुशलं सर्वं नष्टं त्वकुशलं मम ।धन्योऽस्मि दैवपुरुषो राजते यद्गृहेऽद्य वै ॥१०॥इत्युक्त्वा मौनमास्थाय वृषपर्वाणमाह सः ।कुशलं परमं यत्तच्छाधि मां शरणागतम् ॥११॥अथ लक्ष्मि वृषपर्वा स्मृत्वाऽनादिनरायणम् ।उपादिदेश बहुधा शिवजयाय मुक्तये ॥१२॥शिवजयाऽऽकर्णय त्वं स्नेहः कृष्णे तु मोक्षदः ।अस्नेहश्चापि मायायां निकृष्टतादिबुद्धितः ॥१३॥स्नेहः कृष्णे तु जायेत तदुत्कृष्टत्वबुद्धितः ।तदुत्कर्षो यथा परब्रह्म श्रीभगवान् स्वयम् ॥१४॥सवितारम् सर्वधामाधिपः सतां पतिः ।सर्वमुक्तपतिः सर्वैश्वर्यपतिः रमापतिः ॥१५॥यावद्भगवतां कृष्णो भगवान् भगवत्तमः ।सर्वोपरि चान्तरात्मा सर्वकर्मफलप्रदः ॥१६॥अन्तर्यामी यमन्तरा किञ्चित् स्वतन्त्रमेव न ।यदिच्छामन्तरा शुष्के पर्णेऽपि पवनो बली ॥१७॥प्रवर्तते न वै चालनार्थं प्रेरक एव सः ।स एव भगवानत्र पृथ्व्यां साधुस्वरूपवान् ॥१८॥यथेष्टरूपवानास्ते भक्तमानसपूरकः ।दिव्यो दिव्यचरित्रश्च सर्वथा दिव्यविग्रहः ॥१९॥मोक्षदा हि क्रियास्तस्य सकला देहजा अपि ।एवं यस्य हि माहात्म्यं विद्यते हृदये हरेः ॥२०॥तस्य भक्तस्य वंशीयाः कुटुम्बिनश्च प्राक्पराः ।दश दश स्वश्चेत्येकविंशतिरुद्धरन्ति वै ॥२१॥गृह्णीयुस्ते गुणं तस्य भक्तस्य यदि सर्वथा ।अहो चाऽस्मत्कुले कृष्णभक्तो जातो हि पावनः ॥२२॥अस्मद्भाग्यं महत्तेन समुद्धारो भविष्यति ।तत्कृतभक्तेः पुण्यं नो भविष्यति कुटुम्बिनः ॥२३॥इत्येवं गुणमन्तारस्तरन्ति नात्र संशयः ।अन्येऽपि गुणमन्तारः पुण्यभाजो भवन्ति च ॥२४॥तटन्त्येव च संसारं धामाऽक्षरं प्रयन्ति ते ।ये यो गुणप्रवक्तारो गुणग्राहिण एव ते ॥२५॥धन्यवादग्रहितारो यान्ति कृष्णस्य धाम ते ।भक्तकथा भक्तगुणगानं भक्तस्य वन्दनम् ॥२६॥भक्तप्रशंसनं भक्तप्रसादो मोक्षदा इमे ।भक्तस्य द्वेषकर्तारः सम्बन्धिनस्तथेतरे ॥२७॥ये वा के वा प्रयान्त्येव निरयं याम्यनोदिताः ।क्रोधनानिर्ष्युको मानी कपटी कामवानपि ॥२८॥द्वेषी च निन्दकश्चैते प्रयान्ति निरयं ध्रुवम् ।तान् दोषान् सम्परित्यज्य ये भजन्ति जनार्दनम् ॥२९॥ते प्रयान्ति हरेर्धाम कृष्णस्नेहपरायणाः ।भगवत्स्नेहसम्पूर्णा भगवत्सेवने रताः ॥३०॥भगवद्गुणतुल्यैः सद्गुणैर्युक्ता भवन्ति हि ।भगवद्गुणवान् भक्तो भवेदाश्रितमोक्षकृत् ॥३१॥स्वधर्मं पालयन् रागाभावं सम्पादयँस्तथा ।आत्मनिष्ठो हरिनिष्ठः स्नेही याति परं पदम् ॥३२॥शुभे देशे समये वा जाग्रदादौ शुभाश्रये ।अशुभे वा विपरीते भक्तस्तु देहमुत्सृजन् ॥३३॥प्रयात्येव परं धाम कृष्णकृपानुमोदितः ।अभक्तो वा हरेर्द्वेषी सतां द्वेषी विनिन्दकः ॥३४॥धर्मादिशून्यको यो वै शुभे देशादिकेऽपि च ।देहं त्यक्त्वापि यात्येव घोरं यमालयं सदा ॥३५॥अभ्यस्ता या मतिश्चान्ते गतिर्जायेत तादृशी ।शोभनोऽशोभनो मृत्युर्न हेतुः सदसद्गतौ ॥३६॥भक्तस्योर्ध्वगतिश्चास्ति तद्भिन्नस्य तु दुर्गतिः ।सर्वदर्शी गुरुः कृष्णनरायणः कृपाप्रभुः ॥३७॥.भक्तं निजं नयत्येव धामाऽक्षरं न संशयः ।यद्वा भक्तो निजनारायणस्योपासनाबलात् ॥३८॥भजन् कृष्णं स्वयं धामाऽक्षरं याति स्वतन्त्रकः ।ईशवत् स समर्थोऽस्ति ब्रह्माण्डानां लयेऽलये ॥३९॥किंमात्रमस्य देहस्य धारणं त्यजनं च वा ।एतादृशश्च भक्तोऽत्र भूतले खलु दुर्लभः ॥४०॥भाव्यं तादृशभक्तेन न्यूनता यत्र नो भवेत् ।भाव्यं तादृशविज्ञेन स्नेहोऽन्यत्र न वै भवेत् ॥४१॥भाव्यं तादृशव्रतिना पातिव्रत्यं हरौ भवेत् ।भाव्यं तादृशगुणिनाऽक्षरब्रह्मगतिर्भवेत् ॥४२॥भाव्यं तादृशदिव्येन मायालोकोर्ध्वदृष्टिना ।मुक्तकोटौ भवेद्वासः शाश्वतानन्दवर्षणः ॥४३॥ ।तदेव कुशलं शिवजयाऽन्यत् कुशलेतरत् ।शृणु सर्वकुशलानि श्रुत्वा तानि समाचर ॥४४॥समयो यस्य हर्यर्थः प्रातः सायं तथाऽपरः ।पूजनं यत्र कृष्णस्य समयः कुशलो हि सः ॥४५॥गृहे यस्य हरेर्मूर्तिश्चापणे मन्दिरे भुवि ।क्षेत्रे वाट्यां समुद्योगे स देशः कुशलो मतः ॥४६॥या क्रिया तु श्रीकृष्णार्था साध्यर्था च सुरार्थिका ।आत्मार्था चापि मुक्त्यर्था सा क्रिया कुशला मता ॥४७॥यः संगः खलु सत्संगो धर्मज्ञानसुखावहः ।वासनानाशकृत् कृष्णे स्नेहकृत् कुशलो हि सः ॥४८॥यो मन्त्रो मोहहा ज्ञप्तिप्रदः प्रकाशकृद्धृदि ।कृष्णनामयुतो दिव्यः पापघ्नः कुशलो हि सः ॥४९॥दीक्षा या ब्रह्मपददा पावनी पापनाशिनी ।ज्ञानकरी कृष्णपातिव्रत्यदा कुशला हि सा ॥५०॥ध्यानं यच्छान्तिदं मायादुःखोद्वेगादिनाशकम् ।शाश्वतानन्ददं दिव्यभावदं कुशलं तु तत् ॥५१॥यो गुरुर्दिव्यताधायकस्तथा दोषनाशकृत् ।तारकः क्षालको मोक्षे हितकृत् कुशलो हि सः ॥५२॥या माता श्रीकृष्णदुग्धामृतपानप्रकारिणी ।भक्तिपुष्टिकरी मोक्षदर्शिनी कुशला तु सा ॥५३॥यः पिता धर्मकर्मादिपालनोद्योगशिक्षकः ।ब्रह्मलोकमहामार्गपालकः कुशलो हि सः ॥५४॥यो भ्राता मुक्तिदं कर्म बिभर्ति कारयत्यपि ।ददाति भ्राजनं दिव्यं मोक्षदं कुशलोऽपि सः ॥५५॥या स्वसा भोजनं भ्रात्रे ददाति ब्रह्मणेऽर्पितम् ।ब्रह्ममुक्तिप्रदाऽऽशीर्वादप्रदा कुशला हि सा ॥५६॥या पत्नी श्रीहरेर्योगप्रदायिनी तु सेविका ।कृष्णबन्धनकर्त्री श्रीप्रदा सा कुशला मता ॥५७॥यः पुत्रस्तारयेत् कृष्णभक्त्या स्वपितरं व्रतैः ।प्रसन्नतामर्जयेच्च पितुः स कुशलो मतः ॥५८८॥यः पतिः सम्प्रदद्याद्वै ब्रह्मानन्दं सुभक्तिमान् ।ब्रह्मरसं पाययोन्निर्वाणदं कुशलो हि सः ॥५९॥कुटुम्बिनस्तु ये मायां काटवीं दुःखदायिनीम् ।त्याजयेयुर्दापयेयुर्मुक्तिं ते कुशलाः सदा ॥६०॥प्रजाराजादयस्तद्वन्मोक्षे ये तु सहायिनः ।अमोक्षणात्तु व्यावृत्ताः सर्वे ते कुशला मताः ॥६१॥गुणा ये सुखदाः साधुसेवाप्रदा हरिप्रदाः ।अन्यानन्दप्रदा मोक्षकरास्ते कुशला मताः ॥६२॥याः सम्पदो हर्यर्थाः साध्वर्थाः पुण्ययोगदाः ।परोपकारलाभार्था मोक्षदाः कुशला मताः ॥६३॥स्मृद्धयो यास्तु यज्ञार्था देवार्था दानधर्मदा ।भक्तार्थाश्चापि गुर्वर्था दिव्यास्ताः कुशलाः सदा ॥६४॥गोमहिष्यो वृषभाश्वा गजा यानानि दासिकाः ।कृष्णार्था यस्य साध्वर्था मोक्षदाः कुशलास्तु ताः ॥६५॥यो देहश्च मनो वाणीन्द्रियाणि वैभवादयः ।हर्यथा यस्य साध्वर्था मोक्षदाः कुशला हि ते ॥६६॥याः शय्याः सुमृद्व्यश्चापि स्वर्णपात्राणि हीरकाः ।रत्नरूप्यमणिर्द्रव्यं कृष्णार्थं कुशलं तु तत् ॥६७॥यदानन्दाश्च संभोगा उत्सवाः सुप्रसंगकाः ।हर्यर्था यस्य साध्वर्था मोक्षदाः कुशला हि ते ॥६८॥येऽभ्यासाश्च कला विद्या विज्ञानं ज्ञातृतोत्तमा ।आविष्काराश्च हर्यर्थाः साध्वर्थाः कुशलास्तु ते ॥६९॥आयव्ययौ तु हर्यर्थौ साध्यर्थौ मोक्षमार्गिणौ ।मायाबन्धक्षपणकौ दिव्यौ तौ कुशलौ मतौ ॥७०॥दानं व्रतं च नियमा आचारो लोकसम्मतिः ।आश्रमश्च पद्धतिश्च हर्यर्थाः कुशलास्तु ते ॥७१॥धर्मार्थकाममोक्षाश्च हर्यर्पितास्तु ये सदा ।यस्य पुमर्थरूपास्ते मोक्षदाः कुशलाः सदा ॥७२॥शासनं दीनता दारिद्र्यं च वनेचरत्वकम् ।महाप्रासादवसतिर्हर्यर्थाः कुशलास्तु ते ॥७३॥व्यापारा यस्य कृष्णार्था जाग्रत्स्वप्नसुषुप्तिषु ।तुर्यायां ब्रह्ममुक्तौ च मोक्षार्थाः कुशलास्तु ते ॥७४॥अतिस्निग्धाः साधवश्च हरिश्च यस्य सन्ति वै ।मोक्षार्थं च समारंभाः कुशलं तस्य सर्वथा ॥७५॥भक्तिर्यस्य सदा गेहे हृदये च कुटुम्बिषु ।हरौ साधौ मोक्षमार्गे कुशलं तस्य सर्वथा ॥७६॥यस्य गेहे हरेः पूजा साधूनां स्वागतं तथा ।देवानां च सतीनां च कुशलं तस्य सर्वथा ॥७७॥यस्य गेहे हरेर्नित्यं प्रसादश्चैव भोजनम् ।विघसाशित्वमुत्कृष्टं कुशलं तस्य सर्वथा ॥७८॥हर्यर्थं कृतसर्वस्वं चात्मनिवेदितात्मकम् ।निष्कामभक्तियोगश्च कुशलं तस्य सर्वथा ॥७९॥मायादृष्टिर्न वै यस्य दिव्यदृष्टिः शुभा सदा ।सर्वथा गुणग्राहित्वं कुशलं तस्य सर्वथा ॥८०॥साधुवाक्ये हरेर्वाक्ये विश्वासस्तस्य पालनम् ।मोक्षार्थे सर्वयत्नश्च कुशलं तस्य सर्वथा ॥८१॥विश्वासो वरणं न्यासः कार्पण्यं स्थिरता हरौ ।दास्यं रौच्यं भवेद् यस्य कुशलं तस्य सर्वथा ॥८२॥वच्म्यथाऽकुशलान्यत्र यानि हानिकराणि वै ।नास्तिकत्वमधर्मित्वं भक्तिशून्यत्वमुद्व्रतम् ॥८३॥निन्दनं द्रोहकरणं हिंसा चाऽकुशलानि वै ।अभक्ष्यभक्षणपानं दिनवन्ध्यत्वयापनम् ॥८४॥कुसंगपापिसंगश्च मोहाभिमानगर्वताः ।परदुःखप्रदायित्वं सदैवाऽकुशलानि वै ॥८५॥परस्त्रीलम्पटत्वं च परद्रव्याभिकांक्षिता ।पैशुन्यं चापि कापट्यं सदैवाऽकुशलानि वै ॥८६॥धर्मभक्तिविहीनत्वमात्मसाधनवर्जिता ।अज्ञानं मायिको मोहः सदैवाऽकुशलानि वै ॥८७॥तृष्णेर्ष्याभयलोभाश्च सत्क्रियावर्जनं तथा ।कर्मानुबन्धिगमनं सदैवाऽकुशलानि वै ॥८८॥एवं विदित्वा सततं विधेहि कुशलानि वै ।त्यजाऽकुशलानि शिवजय यास्यसि मोक्षणम् ॥८९॥ 'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।जप मन्त्रं रट नाम हरेकृष्ण हरे हरे ॥९०॥मायां तीर्त्वा ब्रह्मलोकं परं पदं प्रयास्यसि ।इत्युक्त्या वृषपर्वा संगृह्य पूजां ययौ वनम् ॥९१॥भेजे लक्ष्मि शिवजयोऽच्युतं मां पुरुषोत्तमम् ।सर्वं व्यधात् कुशलं वै तत्याजाऽकुशलानि च ॥९२॥महाभागवतो जातो ध्यानेऽर्पणे च पूजने ।अन्ये शिल्पिवराश्चास्य गृहे भजन्ति माधवम् ॥९३॥सत्संगं ते प्रकुर्वन्ति व्रतोत्सवान् महत्तमान् ।अथैकदा तु द्वादश्यां .प्रातर्व्रतोत्तरं तु ते ॥९४॥चक्रुर्मे पूजनं रात्रौ जागरणोत्तरं तथा ।उद्यापनं प्रचक्रुश्च कीर्तनं नर्तनं तथा ॥९५॥तत्राऽहं प्रादुरभवं दिव्यतेजाश्चतुर्भुजः ।श्रीकान्तं मां हरिं वीक्ष्य जहृषुः परितोऽपि ते ॥९६॥पुपूजुर्मां हृदयोत्थैः प्रेमाक्तवस्तुभिस्तदा ।मोक्षं ते चार्थयामासुस्तथैत्युक्त्वा तिरोभवम् ॥९७॥अथ कालान्तरे शिवजयो भक्तसमन्वितः ।देहं त्यक्त्वा ययौ धामाऽक्षरं मत्पार्षदाहृतः ॥९८॥एवं लक्ष्मि मम भक्ता यान्ति धामाऽक्षरं मम ।भजनात् पूजनादात्मनिवेदनात् समागमात् ॥९९॥सतां योगात् प्रयान्त्येव दिव्या दिव्यं परं पदम् ।सुश्रवाः पाठकाश्चापि प्रयान्ति श्रेयसं परम् ॥१००॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वृषपर्वनामर्षियोगेन प्रासादकारस्य शिवजयस्य मोक्षणमित्यादिनिरूपणनामैकविंशत्यधिकद्विशततमोऽध्यायः ॥२२१॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP