द्वापरयुगसन्तानः - अध्यायः ६९
लक्ष्मीनारायणसंहिता
श्रीनारायणीश्रीरुवाच-
श्रेष्ठमुक्तं त्वया कान्त रहस्यं मनुसंभृतम् ।
महामन्त्रस्य सामर्थ्यं सर्वेष्टपूरकं महत् ॥१॥
त्वं प्रभुस्त्वं पतिस्त्वं च लोकानां गुरुरेव च ।
त्वं स्वामी त्वं सखा नाथस्त्वं गतिस्त्वं सहायकृत् ॥२॥
त्वं भोक्ता त्वं तारयिता त्राता पोष्टा सुहृत् सदा ।
त्वं जनकोऽसि लोकानां गर्भध्रस्त्वं हि देहिनाम् ॥३॥
अहं शिष्या वधूः पत्नी कान्ता सखी तवाऽस्मि च ।
दासी भृत्या किंकरी च भार्या योषित्तवाऽङ्गना ॥४॥
इमा ब्रह्मप्रियाः सर्वास्तवाऽर्धांऽगस्य शक्तयः ।
हरिप्रियाश्च वै तद्वच्छक्तयः सन्ति ते पराः ॥५॥
सर्वासां मेऽपि च कृपाकरस्त्वं शाश्वतोऽधिपः ।
मन्त्रदाता भवानेव दीक्षादाता भवानपि ॥६॥
मन्त्रदीक्षाविधिं मां त्वं ब्रूहि लोकहितेच्छया ।
प्राप्य दीक्षां महामोक्षं प्राप्स्यन्तीति कृपां कुरु ॥७॥
श्रीपुरुषोत्तम उवाच-
शृणु कान्ते प्रवक्ष्यामि मन्त्रदीक्षाविधिं हि ते ।
यदा भवेद्धि संकल्पः सत्संगस्य बलेन वै ॥८॥
पूर्वपुण्यबलेनापि चान्यसम्प्रेरितेन वा ।
तदा स्नात्वा हरिं स्मृत्वा शीघ्रं गच्छेद् गुरुं प्रति ॥९॥
सद्गुरुर्धर्मसम्पन्नस्त्यागवान् संयतेन्द्रियः ।
महाभागवतो भक्तो विद्वान् भक्तिपरायणः ॥१०॥
आचार्यो वेदविन्मन्त्रतत्त्वार्थविद् रहस्यवित् ।
मन्त्रजापरतश्चापि मत्सम्प्रदायसंयुतः ॥११॥
परब्रह्मसम्प्रदायदीक्षावान् मत्पदाश्रितः ।
ब्रह्मविद्यासु निष्णातश्चानन्यदैवतः शुचिः ॥१२॥
साधुः साध्वी सती विप्रो गुरुपादाश्रितोऽपि यः ।
गुर्वर्थकृतसर्वस्वः शासिता मोक्षदो गुरुः ॥१३॥
एतादृशं श्रेष्ठगुरुं यद्वा मन्त्रविदं गुरुम् ।
अभिगच्छेदर्च्यपाणिर्ज्ञानदं दिव्यमूर्तिकम् ॥१४॥
आचारशासकं भक्तिशासकं ब्रह्मदायकम् ।
आचार्यं परमं दिव्यं गुरुं गच्छेन्नमेत्तथा ॥१५॥
आचार्यं निजसंकल्पं मन्त्रार्थकं निवेदयेत् ।
यथोक्तवचनं मत्वा मम जन्माष्टमीदिने ॥१६॥
ऊर्जकृष्णेऽथवा चोर्जे द्वादश्यां शुक्लके दले ।
यद्वापुण्यदिने यद्वा यदेच्छेद्वै तदा दिने ॥१७॥
तीर्थजलं करे धृत्वा हरेः पादामृतं जलम् ।
आचमनं विधायैव निषीदेद्वै गुरोः पुरः ॥१८॥
गुरुस्तस्मै हरेर्नाम श्रावयित्वा पुनः पुनः ।
शंखचक्रगदापद्मचिह्नानि दापयेज्जलैः ॥१९॥
यद्वा वह्निं स्थापयेच्च वह्निमन्त्रविधानतः ।
स्थण्डिलादौ जुहुयाच्च गवाज्यं मन्त्रसंयुतम् ॥२०॥
अष्टोत्तरसहस्रं वा शतमष्टोत्तरं च वा ।
जुहुयाद्वै महामन्त्रसंयुतं च फलादिभिः ॥२१॥
मन्त्रैः पुरुषसूक्ताद्यैर्लक्ष्मीसूक्तादिभिस्तथा ।
पायसं च घृताद्यं च जुहुयान्मेऽभिधानकैः ॥२२॥
ततो वै राजतं यद्वा सौवर्णं ताम्रमेव वा ।
शंखं चक्रं गदां पद्मं पञ्चामृतैः निषेचयेत् ॥२३॥
पूजयेच्च ततो वह्नौ तापयेन्मुद्रणोचितम् ।
दशहोमान् प्रकुर्याच्च षट्होमान् वा ततः पुनः ॥२४॥
उद्धृत्य चक्रं बाह्वोर्वै चांऽकयेद् गुरुराश्रितम् ।
दक्षे चोर्ध्वे चक्रमेव शंखं तूर्णं हि वामके ॥२५॥
गदां दक्षे ह्यधोभागे पद्मं वामे च निम्नके ।
एवं बाह्वोरंकयित्वा तीर्थकलशवारिणा ॥२६॥
मन्त्रेणैवाऽभिमन्त्र्यैव शिष्यमूर्ध्न्यभिषेचयेत् ।
आचमनं प्रदद्याच्च ह्यूर्ध्वपुण्ड्रं प्रकारयेत् ॥२७॥
सचन्द्रकं कौंकुमं च मन्त्रमध्यापयेत्ततः ।
त्रिवारं दक्षकर्णे वै नार्या वामे वदेद् गुरुः ॥२८॥
मन्त्रार्थान् बोधयेत् सर्वान् निर्भयत्वं ददेत्ततः ।
जपस्य नियमान् दद्याद् दद्यात् कण्ठीं च तौलसीम् ॥२९॥
जपमालां प्रदद्याच्च परिहारं समापयेत् ।
शिष्यस्ततोऽर्चयेद्भक्त्या गुरुं भूषाऽम्बरादिभिः ॥३०॥
एवं मन्त्रयुतः शिष्यो नत्वा यायाद् गृहं निजम् ।
इदं रहस्यं परमं लक्ष्मि! ते समुदाहृतम् ॥३१॥
मन्त्रचतुष्टयं श्रेष्ठं मुक्तिदं दिव्यताप्रदम् ।
तज्जपाद्वै भवेन्मोक्षो यावत्कृत्यनिकृन्तनः ॥३२॥
पूर्वोक्तं मन्त्रदशकं तथेदं च चतुष्टयम् ।
सर्वभुक्तिसर्वमुक्तितादात्म्यादिप्रदं मम ॥३३॥
त्रयोदश तथा मन्त्राश्चापरे प्राङ्निदर्शिताः ।
ते च मोक्षकरा लक्ष्मि भुक्तिमुक्तिप्रदाः शुभाः ॥३४॥
त्रयस्त्रिंशत्तथा मन्त्रा गायत्र्यन्ता उदीरिताः ।
सर्वे ते सिद्धिदा लक्ष्मि पुरुषार्थप्रदाः शुभाः ॥३५॥
त्रयस्त्रिंशत्तथाऽन्ये ते मन्त्रा लक्ष्मि प्रकीर्तिताः ।
तव गायत्रिकान्तास्ते पुरुषार्थप्रदाः शुभाः ॥३६॥
ततो रमायाः पार्वत्या गायत्रीद्वयमुत्तमम् ।
ततो मन्त्रत्रयं स्वामीकृष्णोवल्लभदैवतम् ॥३७॥
सर्वार्थसाधकं लक्ष्मि सर्वमन्त्रोत्तमोत्तमम् ।
अथ गायत्रिकाश्चापि शृणु मोक्षप्रदाः शुभाः ॥३८॥
'परमेशाय विद्महे पुमुत्तमाय धीमहि ।
तन्नोऽवतारी प्रचोदयात् ॥३९॥
'गोपीश्वराय विद्महे श्रीराधेशीय धीमहि ।
तन्नः कृष्णः प्रचोदयात् ॥४०॥
'नारायणाय विद्महे वासुदेवाय धीमहि ।
तन्नो विष्णुः प्रचोदयात् ॥४१॥
'तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयात् ॥४२॥
'तत्पुरुषाय विद्महे महादेवाय धीमहि ।
तन्नो रुद्रः प्रचोदयात् ॥४३॥
'पद्मोद्भवाय विद्महे वेदवक्त्राय धीमहि ।
तन्नः स्रष्टा प्रचोदयात् ॥४४॥
'महाविष्णवे विद्महे हिरण्यगर्भाय धीमहि ।
तन्नो भूमा प्रचोदयात् ॥४५॥
एताः सप्त मत्स्वरूपाः शृणु त्वद्रूपगा अपि ।
गायत्र्यः शुभदाः सर्वपुरुषार्थप्रदा रमे ॥४६॥
'ब्रह्मप्रियायै विद्महे हरिप्रियायै धीमहि ।
तन्नो ब्राह्मी प्रचोदयात्' ॥४७॥
'नारायण्यै विद्महे वासुदेव्यै च धीमहि ।
वैष्णवी नः प्रचोदयात्' ॥४८॥
'महालक्ष्म्यै च विद्महे विष्णुपत्न्यै च धीमहि ।
तन्नो लक्ष्मीः प्रचोदयात् ॥४९॥
'हिरण्यवर्णायै विद्महे श्रियै हरिण्यै धीमहि ।
तन्नो लक्ष्मीः प्रचोदयात् ॥५०॥
'महाऽम्बिकायै विद्महे पार्वत्यै सत्यै धीमहि ।
तन्नो गौरी प्रचोदयात्' ॥५१॥
'महासावित्र्यै विद्महे वेदगायत्र्यै धीमहि ।
तन्नो वाणी प्रचोदयात् ॥५२॥
'सुखदालक्ष्म्यै विद्महे शिवराज्ञीश्रियै धीमहि ।
तन्नः कार्ष्णी प्रचोदयात् ॥५३॥
'नारायण्यै विद्महे माणिक्यायै धीमहि ।
तन्नो राधा प्रचोदयात् ॥५४॥
'नारायण्यै विद्महे रमादेव्यै धीमहि ।
तन्नो लक्ष्मीः प्रचोदयात् ॥५५॥
'नारायण्यै विद्महे पद्मावत्यै धीमहि ।
तन्नो विभ्वी प्रचोदयात् ॥९६॥
'नारायण्यै विद्महे रमादेव्यै धीमहि ।
तन्नः प्रभ्वी प्रचोदयात् ॥९७॥
धर्मदेवाय विद्महे भक्तिदेव्यै धीमहि ।
तन्नो हरिः प्रचोदयात् ॥५८॥
इत्येता द्वादशगायत्र्यश्च लक्ष्मि तवाभिधाः ।
धर्मार्थकाममोक्षाख्यपुमर्थसम्प्रदाः शुभाः ॥५९॥
इत्येवं सकला मन्त्राः शतं च दश पंच च ।
पञ्चदशोर्ध्वशतशक्तिदेवता मदात्मकाः ॥६०॥
रहस्यं कथितं तेऽत्र परमेशपरायणम् ।
जपित्वा तान्नरो नारी चैकं वा मनुमित्यपि ॥६१॥
यायात् स्वर्गात्परं स्वर्गं धाम्नो धाम परात्परम् ।
उत्सवादुत्सवाऽऽढ्यं चानन्दानन्दसंभृतम् ॥६२॥
पुरुषोत्तमतो देवः परो नास्ति प्रमुक्तिदः ।
मम सेवा ततः कार्या पुरुषोत्तमसंज्ञिनः ॥६३॥
मम मन्त्राः सदा जप्या यथाशक्ति दिवानिशम् ।
मम दीक्षा ग्रहीतव्या धार्याण्यंकानि मे सदा ॥६४॥
तत्त्वं नारायणश्चाऽहं वासुदेवस्तथा त्वहम् ।
परमात्मा परब्रह्म परज्योतिः परेश्वरः ॥६५॥
विष्णुः परात्परश्चाऽहं कृष्णो वै पुरुषोत्तमः ।
शाश्वतात्माऽन्तरात्मा च साक्षी चाऽहं जनार्दनः ॥६६॥
हृषीकेशस्तथा यज्ञश्चाऽहं लीलापतिः प्रभुः ।
सर्वमूर्धा सर्वचक्षुः सर्वपाद् भगवानहम् ॥६७॥
विश्वात्मा श्रीपतिश्चाऽहं सविता रमणोऽप्यहम्।
सर्वेश्वरश्च सर्वज्ञो जगन्नाथोऽहमेव च ॥६८॥
सर्वविद्यान्तरस्थोऽहं सर्वायुधधरोऽप्यहम् ।
सर्वशास्ता सर्वचेत्यश्चाहं श्रीपुरुषोत्तमः ॥६९॥
मम चिह्नं प्रसिद्धं वै चक्रं सुदर्शनं शुभम् ।
ऊर्ध्वपुण्ड्रं च तिलकं शंखादीनि तथापि च ॥७०॥
धारणीयानि भक्तेन पूज्योऽहं पुरुषोत्तमः ।
शंखचक्रादिचिह्नाढ्यः कुर्यान्मे पूजनं प्रिये ॥७१॥
धारयित्वैव चिह्नानि ब्रह्मकर्म समाचरेत् ॥
बाह्वोर्धारयिता धर्ता याति मत्परमं पदम् ॥७२॥
अंकयित्वा जपन्मन्त्रं भवपाशात्प्रमुच्यते ।
सुदर्शनयुतं भक्तं श्राद्धादौ भोजयेत् सती ॥७३॥
पितरो नित्यतृप्ता वै भवन्ति वैष्णवाशनात् ।
दद्याद्गोभूहिरण्यादि चक्रांकितभुजाय वै ॥७४॥
चक्रांकिताः पापमुक्ताः प्रयान्ति मत्परं पदम् ।
चक्राद्यैरंकिते देहे पावने वैष्णवे प्रिये ॥७५॥
सर्वतीर्थानि यज्ञाश्च वसन्ति मुक्तकोटयः ।
मन्त्रसिद्ध्यै च पूजार्थं चक्रं धार्यं विशेषतः ॥७६॥
वैष्णवत्वस्य सिद्ध्यर्थं ज्ञानसिद्ध्यै विशेषतः ।
मम भृत्यत्वसिद्ध्यर्थं चक्रं धार्यं विशेषतः ॥७७॥
शंखचक्रगदापद्मरेखा बाह्वोर्न्यसेत् सदा ।
मीनशूलध्वजधनुर्बाणस्वस्तिकदण्डकान् ॥७८॥
रेखात्मकान्न्यसेन्नित्यं चान्दनान् तप्तकाँश्च वा ।
पवित्रचक्ररेखाढ्यास्तरेयुः पातकाम्बुधिम् ॥७९॥
पवित्रं चरणं नेमिर्हरेश्चक्रं सुदर्शनम् ।
तेन तप्तशरीरा वै प्रयान्ति मम धाम ह ॥८०॥
शुद्धेन वह्नितप्तेन ब्रह्म तेन पुनीहि नः ।
यत्ते पवित्रमर्चिवदग्ने तेन पुनीहि नः ॥८१॥
येन देवा पवित्रेण आत्मानं पुनते सदा ।
तेन सहस्रधारेण पावमान्यः पुनन्तु माम् ॥८२॥
प्राजापत्यं पवित्रं तच्छतोद्यामं हिरण्मयम् ।
वयं ब्रह्मविदस्तेन पूतं ब्रह्म पुनीमहे ॥८३॥
सनेमिचक्रं सततं चाऽक्षरस्य महात्मनः ।
तस्मिँश्चक्रवृते देहे महोन्नतिपदं ययौ ॥८४॥
एवं ममैव वाक्यानि श्रुतयो मे वदन्त्यपि ।
रेखास्ता विधिवद् धार्या शंखचक्रादिहेतयः ॥८५॥
कलत्राऽपत्यभृत्याद्यैर्धार्याश्च पशुभिस्तथा ।
वृक्षवल्ल्यादिभिश्चापि गृहारामादिभिस्तथा ॥८६॥
यानवाहनपेटाद्यैर्धार्या रेखादिहेतयः ।
आन्तरे मम मूर्तिश्च बाह्ये चिह्नानि मे तथा ॥८७॥
अनन्यभक्तियोगश्च सर्वार्पणादिपूर्वकः ।
कर्तव्यश्चापि धार्यश्च ते मे दासा हि वैष्णवाः ॥८८॥
उर्ध्वपुण्ड्रं तथा भाले लक्ष्म्या बिन्द्व्या युतं चरेत् ।
लक्ष्मि साकं त्वया चाहमूर्ध्वपुण्ड्रे वसामि वै ॥८९॥
ऊर्ध्वपुण्ड्रयुतो देहो मम दिव्यं हि मन्दिरम् ।
ऊर्ध्वपुण्ड्रयुतः स्नातः सर्वतीर्थेषु विद्यते ॥९०॥
दीक्षितः सर्वयज्ञेषु सर्वलोकेषु पूजितः ।
विमानवरमारुह्य याति मे परमं पदम् ॥९१॥
ऊर्ध्वपुण्ड्रधरं भक्तं दृष्ट्वा पापैः प्रमुच्यते ।
नमस्कृत्याऽथवा भक्त्या सर्वदानफलं लभेत् ॥९२॥
श्राद्धेऽस्य भोजने कल्पकोटितृप्तिं प्रयान्ति वै ।
पितरोऽस्य गयाश्राद्धकृतं फलमवाप्नुयुः ॥९३॥
यज्ञदानतपश्चर्याजपहोमाद्यनन्तकम् ।
पुण्यवज्जायते चोर्ध्वपुण्ड्रभालस्य योगिनः ॥९४॥
एकान्तिनो महाभागाः साधवो ब्रह्मचारिणः ।
सान्तरालं प्रकुर्युर्वै पुण्ड्रं मम पदाकृति ॥९५॥
मम पदाकृति पुण्ड्रं मन्दिरं मे सचन्द्रकम् ।
मध्ये तिष्ठामि भालेऽहं श्रिया साकं त्वया हरिः ॥९६॥
पुण्ड्रं कुर्युर्जना नित्यं कृष्णसालोक्यसिद्धये ।
तीर्थमृदा चन्दनेन कुंकुमेन द्रवेण वा ॥९७॥
जलाद्यैर्वा प्रकुर्युश्च ह्यूर्ध्वपुण्ड्रं सचन्द्रकम् ।
धृत्वा पुण्ड्राणि चांगेषु मम सायुज्यमाप्नुयुः ॥९८॥
ललाटे मां हरिं ध्यायेन् नारायणमथोदरे ।
वक्षःस्थले श्रियं ध्यायेत् कण्ठे श्रीपुरुषोत्तमम् ॥९९॥
बाह्वोर्नरं तथा कृष्णं कन्धरे माणिकीपतिम् ।
पार्श्वयोः श्रीभूपतिं मां पृष्ठे जनार्दनं तु माम् ॥१००॥
करयोश्च रमापद्मावतीनाथं स्मरेद्धि माम् ।
एवं द्वादशपुण्ड्राणि भक्तो मे धारयेत् सदा ॥१०१॥
महाभागवती नारी महाभागवतो नरः ।
ऊर्ध्वपुण्ड्रसुचन्द्राढ्यो मत्स्वरूपो न संशयः ॥१०२॥
एवं लक्ष्मि मयोक्ता वै मन्त्राः सहोर्ध्वपुण्ड्रकाः ।
सचन्द्रकाश्च ते सर्वे तुलसीमालिकायुताः ॥१०३॥
मत्स्मृतिप्रसहिताश्च भवन्ति मत्प्रदप्रदाः ।
नरा नारायणा नार्यो नारायण्यो भवन्ति वै ॥१०४॥
किम्वधिकं प्रवक्तव्यं मम प्रिया भवन्ति वै ।
पठनाच्छ्रवणादस्य मोक्षमार्गो भवेत् ध्रुवः ॥१०५॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने महामन्त्रादिगायत्र्यादिसचन्द्रकोर्ध्वपुण्ड्रादिमहिमनिरूपणनामा नवषष्टितमोऽध्यायः ॥६९॥
N/A
References : N/A
Last Updated : May 04, 2021
TOP