संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः २२८

द्वापरयुगसन्तानः - अध्यायः २२८

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं कथां चान्यां वदाम्यहम् ।
हर्षधर्माभिधो भक्तो नापितः पार्वतीपुरे ॥१॥
न्यवसत् सकुटुम्बो वै राजभृत्यत्वकर्मवान् ।
राजा नाम्नाऽभवत्तत्र स्वर्णधन्वेतिशासकः ॥२॥
तस्य सेवां करोत्येषो नापितः सकुटुम्बकः ।
नापितस्याऽभवद्भार्या नाम्ना निगमिका सती ॥३॥
पातिव्रत्यपरा विष्णुभक्तिपरा सुधार्मिकी ।
व्रतदानजपसेवापरा नारायणे रता ॥४॥
साधुसेवातत्परा च दिव्यभाववती सदा ।
पुत्राः पञ्चाऽभवँस्तस्याः पञ्चपुत्र्यश्च शोभनाः ॥५॥
सर्वे ते भगवद्भक्ता वैष्णवा भक्तिशालिनः ।
रटन्ति मां हरिकृष्णं गोपिपतिं श्रियः पतिम् ॥६॥
भजन्ते सततं चापि गृहेऽर्चननिवेदनैः ।
षोडशोपचारकैश्च नित्यं मामर्चयन्ति ते ॥७॥
मूर्तौ स्थित्वा सदा तेषां पूजां गृह्णामि प्रीतिमान् ।
नापितोऽपि सदा स्नात्वा पूजां कृत्वा च मे ततः ॥८॥
नैवेद्यं मे समर्प्यैव भुक्त्वा याति नृपालयम् ।
नृपं संसेवते सर्वात्मना भृत्यो हि नापित ॥९॥
नापितस्य तथा पुत्राः पुत्र्यो राजकुटुम्बिनः ।
सेवन्ते च यथायोग्यं कृत्वा मत्पूजनादिकम् ॥१०॥
प्रत्यहं नापितभार्या प्रातर्निगमिका तु सा ।
प्रथमं वै समुत्थाय स्नात्वा गृहादिशोधनम् ॥११॥
कृत्वा मत्वा जलं चोष्णं कृत्वा संस्नाप्य केशवम् ।
शालग्रामं तु मां चापि प्रपूज्य सर्ववस्तुभिः ॥१२॥
फलं चान्नं च मिष्टान्नं रोटकं दधि दुग्धकम् ।
शुभं चोष्णं विधायैव पिच्छलं मेऽर्पयत्यपि ॥१३॥
ततो निराजनं कृत्वा परिहारं करोति च ।
पतिमुत्थाप्य संस्नाप्य पतिपादोदकं तथा ॥१४॥
कृष्णपादोदकं पीत्वा पतिं सम्पूजयत्यपि ।
समर्पयति पश्चाच्च पतीष्टं यदपेक्षितम् ॥१-९॥
ततोऽतिथये साधुभ्योऽनाथेभ्योऽपि प्रयच्छति ।
अन्नं जलं यथायोग्यं समर्प्य च गवेऽपि च ॥१६॥
सूर्याय च जलं दत्वा विष्णवेऽर्घ्यं समर्प्य च ।
दत्वा पिष्टं पिपीलिकाकुलाय च ततः परम् ॥१७॥
पितृभ्यश्चापि दत्वैव यत्सर्वं शुद्धिमत् पुनः ।
पतये भोजनाद्यं च जलं समर्प्य वै ततः ॥१८॥
पुत्र्यादिभ्यः समर्प्यैव भोजनं च जलं फलम् ।
स्वयं भुंक्ते निगमिका प्रसादं त्ववशेषितम् ॥१९॥
कवले कवले कृष्णनारायणाय चार्पये ।
इति स्मृत्वा प्रभुंक्ते सा जलं पिबति वै तथा ॥२०॥
मध्ये श्वा नकुलः कीशः शुकश्चटका गौर्वृषः ।
मार्जारिकाऽपि चागच्छेद् दत्वा तेभ्योऽत्ति नान्यथा ॥२१॥
एवंविधा तु भक्ता सा श्रीकृष्णस्येव दासिका ।
गृहकार्याणि सम्पाद्य प्रातरेव सुवेगिनी ॥२२॥
राज्ञ्यालयं प्रयात्येव निगमिकाऽतिधार्मिकी ।
राज्ञीं नाम्ना पञ्चदेवीं सुप्तां शयनगां शनै ॥२३॥
सम्मर्दयति चांगेषु संवाहयति पादयोः ।
राज्ञ्याः कृते जलं चोष्णं सम्पादयति सत्वरम् ॥२४॥
दन्तधावनचूर्णं च जलगण्डूषकादिकम् ।
शौचाद्यं निर्वर्तयति संस्नापयति वारिभिः ॥२५॥
सुगन्धमर्दनं चापि देहशोधनमित्यपि ।
केशसंस्करणं चापि केशवेषादिशोभनम् ॥२६॥
शृंगारवेषभूषादिधारणं कज्जलाञ्जनम् ।
अलक्तकप्रदानं च नखोष्ठादिप्ररञ्जनम् ॥२७॥
सर्वं यथावद् दत्वैव पूजयित्वा श्रियं यथा ।
व्यजनेन महाराज्ञीं प्रसन्नयति वायुदा ॥२८॥
गृहकार्यं समस्तं च निष्पादयति शोभनम् ।
माध्याह्निकं तथा सायंतनीयं सेवनादिकम् ॥२९॥
राज्ञ्यास्ताम्बूलदानान्तं सम्पादयति नापिती ।
शय्यां कुसुमगन्धाढ्यां समास्तृणाति नित्यशः ॥३०॥
राज्ञी स्वपिति सुखिनी सम्वाहयति नापिती ।
राज्ञी निद्रां करोत्येव गाढां प्रयाति नापिती ॥३१॥
गृहे गत्वा पतिसेवां पादसम्वाहनात्मिकाम् ।
करोत्यपि च नित्यं वै ततः स्वपिति नापिती ॥३२॥
कृतभूपसुसेवश्च पतिस्त्वर्धनिशाऽत्यये ।
नित्यं गृहं समायाति सेवते नापिती ततः ॥३३॥
धन्या श्रद्धा सेवकानां तत्रापि दाससेविनाम् ।
तत्रापि योषितां लक्ष्मि पातिव्रत्याऽन्वितात्मनाम् ॥३४॥
कर्मबन्धनलोकोऽयं कर्माधीनः करोति हि ।
निष्कामभाववशगः कश्चित् करोति भक्तराट् ॥३५॥
नापिती नापितश्चोभौ जानीतः कर्मबन्धनम् ।
राजसेवा कर्मबन्धं उद्यमोऽयं धनाप्तये ॥३६॥
उपार्जनं विना देहयात्रा नैव हि सिद्ध्यति ।
अन्नं धनं च वस्त्रं च लभ्यते राजसेवया ॥३७॥
तथापि भक्तिमन्तौ तौ मृषासेवाद्यपेक्षया ।
मम सेवां हि कुरुतः शाश्वतानन्दवाञ्च्छया ॥३८॥
देहेन्द्रियार्थं कर्तव्यं कर्मवशेन देहिना ।
आत्मार्थं तु प्रकर्तव्यं ज्ञानेन तु मुमुक्षुणा ॥३९॥
श्रीहर्यर्थं तु कर्तव्यं सर्वार्पणेन भाविना ।
एवं मत्वा तु कुरुतः सेवनं मम तौ सदा ॥४०॥
राजगृहेऽपि कुरुतो भजनं मम तौ सदा ।
कीर्तनं कुरुतो मेऽपि गोपीगीतं पुनः पुनः ॥४१॥
रासलीलां च वदतः कथां च कुरुतो मम ।
राज्ञी राजा तु तच्छ्रुत्वा निद्रितः कृष्णमानसौ ॥४२॥
एवं भजेते चान्याँश्च भक्तिं कारयतोऽपि च ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥४३॥
जपतो जापयतश्च कृष्ण कृष्ण मुहुर्मुहुः ।
एवं भक्तिमतोर्नित्यं नियमो राजसेवने ॥४४॥
वर्तते त्वेकदा सायं नापिते निर्गते गृहात् ।
राज्ञस्तस्यैव सेवायामुपस्थिते गृहे ह्यनु ॥४५॥
नापितान्यास्तु वै निर्गमस्य क्षणे हि साधवः ।
साध्व्यश्चापि दशसंख्या महीमानाः समाययुः ॥४६॥
महाभाग्येन पुण्येन महताऽऽयान्ति साधवः ।
साधूनां स्वागतार्थं वै सर्वं कर्तव्यमादरात् ॥४७॥
शतकार्याणि सन्त्यज्य साधुसेवां समाचरेत् ।
आतिथेयः परो धर्मो गृहस्थानां सदा मतः ॥४८॥
तत्रापि च सतां साध्वीनां कृते चोत्तमो वृषः ।
सर्वं विहाय सेवायां वर्तितव्यमिति ध्रुवः ॥४९॥
मोक्षार्थं मानवो देहो मोक्षार्थं साधवो भुवि ।
तेषां योगे तु सर्वस्वं चार्पणीयं द्रुतं जनैः ॥५०॥
अन्यथा मानवे देहे को लाभः सेवनं विना ।
यद्गृहेऽतिथयो यान्ति तुष्यन्ति स्वागतादिभिः ॥५१॥
तद्गृहं पावनं लक्ष्मीनिवासार्हं सदा भवेत् ।
यद्गृहेऽतिथयो भग्नमानसा वै भवन्ति चेत् ॥५२॥
असत्कृता असन्तुष्टास्तद्गृहं दग्धवत् स्मृतम् ।
पुण्यहीनं भवत्येव लक्ष्मीसम्पद्विवर्जितम् ॥५३॥
यद्गृहं साधुसन्यासियतियोगिकृताश्रयम् ।
तद्गृहं देववसतिर्दिव्यं तीर्थोत्तमं सदा ॥५४॥
यद्गृहे साधवो नैव नैवातिथिप्रसेवनम् ।
श्मशानं तद्गृहं प्रोक्तं सूतकं तत्र वै सदा ॥५५॥
यद्गृहे साधवः सन्ति तद्गृहे सन्ति देवताः ।
विघ्नाः सर्वे निवर्तन्ते वसन्ति तत्र सिद्धयः ॥५६॥
तीर्थानि तत्र चायान्ति साधूनां पादवाञ्च्छया ।
अनादिश्रीकृष्णनारायणस्तत्र विराजते ॥५७॥
यत्र नारायणस्तत्र राधिका कमला रमा ।
मुक्तास्तत्र वसन्त्येव दिव्यदेहा हरिप्रियाः ॥५८॥
यत्कुटुम्बे कृपा साधोस्तत्कुटुम्बं विदेहवत् ।
मुक्ततां भजमानं वै दिव्यं पापहरं मतम् ॥५९॥
वैष्णवं च वरिष्ठं च मोक्षदं तत्कुटुम्बकम् ।
यद्गृहे साधवो धीरा भुञ्जते च पिबन्ति च ॥६०॥
स्वपन्ति कीर्तयन्तीशेश्वरनाम नरायणम् ।
पुत्राः पुत्र्यः स्त्रियश्चापि सेवन्ते यान्ति दिव्यताम् ॥६१॥
सर्वे मुक्ता भवन्त्येव साधुसत्संगलाभतः ।
साधुसेवा ह्यक्षयोऽस्ति कोशस्त्वन्यस्तु सक्षयः ॥६२॥
तस्मात् साधून् सेवयित्वा भोजयित्वा तथा पुनः ।
शाययित्वा तदाज्ञां संलब्ध्वा यास्यामि वै ततः ॥६३॥
राज्ञ्याः सेवार्थमेवाऽहं चेति निश्चित्य नापिती ।
चक्रे सतां स्वागतं च मधुपर्कं ददौ मुदा ॥६४॥
आसनानि ददौ चापि समिधश्च ददौ जलम् ।
फलं तथा च मिष्टान्नमुष्णं कृत्वा ददौ मुदा ॥६५॥
भोजयामास सर्वाश्च साधून् साध्वीस्ततश्च सा ।
देहसंवाहनं चापि साध्वीनां च सतामपि ॥६६॥
चक्रे धैर्येण निरता कीर्तयन्त्यपि साधवः ।
सत्यः साध्व्यः कीर्तयन्ति रात्र्यर्धं विगतं ततः ॥६७॥
सर्वे सुप्ताः साधवश्च साध्व्यश्चाऽथ तु नापिती ।
चिन्तां चक्रे मनाग् राज्ञ्याः सेवां कर्तुं सुसत्वरा ॥६८॥
नत्वा चाज्ञां गृहीत्वा च ययौ राज्ञीं प्रति द्रुतम् ।
अथ राज्ञ्यपि समये विगतेऽपि तु नापिती ॥६९॥
नाऽऽगतेति महाक्रुद्धा दण्डं दातुं समिच्छति ।
श्वः सर्वस्वं हरेयं वै नापितान्या मयाऽर्पितम् ॥७०॥
निष्कासयिष्ये ग्रामाद्वा करिष्ये निगडे स्थिताम् ।
एवं क्रुद्धा ह्यभवत्सा जानातीदं स्वयं प्रभुः ॥७१॥
लक्ष्मि तदाऽहं भगवान् निशाद्यप्रहरे द्रुतम् ।
भक्ताया नापितान्या वै रूपं धृत्वा सुशोभनाम् ॥७२॥
क्रुद्धाराज्ञ्याः प्रशान्त्यर्थं सेवार्थं प्रमदाऽगमम् ।
विचार्येत्थं मम भक्ता साधून् साध्वीः प्रसेवते ॥७३॥
भक्ताया जीविकानाशं राज्ञी क्रुद्धा करिष्यति ।
तन्मा भून्मम भक्तायाः सेविकायाः सतां तथा ॥७४॥
मया रक्षयितव्येयं भक्ता मे धर्मशालिनी ।
कुटुम्बं च समस्तं तद् रक्षणीयं हि भक्तिमत् ॥७५॥
विचार्येत्थं भक्तरक्षाकरश्चाऽहं तु नापिती ।
भूत्वा निशाद्यप्रहरे ययौ राज्ञीगृहं द्रुतम् ॥७६॥
राज्ञ्याः समस्तसेवास्तु कुशलिन्या मया कृता ।
नारीरूपेण रात्र्यां वै शृंगारो भोजनादिकम् ॥७७॥
पात्राणां शुद्धिकरणं पानं भक्ष्यं सुगन्धि च ।
शय्याविधानं रम्यं च ताम्बुलाद्यर्पणं तथा ॥७८॥
राज्ञ्या देहस्य सम्यग् वै संवाहनं सुमर्दनम् ।
व्यजनेन पवनस्याऽर्पणं वार्ताप्रलापनम् ॥७९॥
उपदेशादिकं सर्वं कृतं मया तदा निशि ।
शृणु लक्ष्मि चोपदेशं कृतवानहमेव यम् ॥८०॥
शास्त्रकथा श्रवणीया गुरुः पूज्यो हि सर्वथा ।
दानं देयं तथा राज्ञ्या श्रद्धया धर्मयोषिता ॥८१॥
अनादिश्रीकृष्णनारायणः सेव्यः सदा धिया ।
अहन्ताममते त्याज्ये गर्वः कार्यो न सर्वथा ॥८२॥
दीनानां रक्षणं कार्यं क्रोधः कार्यो न भृत्यके ।
दासीषु च कृपा कार्या न हर्तव्यं क्षतावपि ॥८३॥
अन्नं धनं गृहं वापि सेवाक्षतावपि क्वचित् ।
भजनीयः परमात्मा राज्ञ्या तस्यां कृपा हरेः ॥८४॥
भवत्येव सदा तेन मोक्षोऽक्षरे प्रजायते ।
निरञ्जना महामुक्ता जायते कृष्णसदृशी ॥८५॥
न बद्ध्यते रमावत् सा कर्मभिश्च शुभाऽशुभैः ।
अतिस्नेहेन लक्ष्मीवत् प्राप्नोत्यैक्यं हरौ तु सा ॥८६॥
यद्वा प्रसेवते भक्त्या पत्नी भूत्वा पृथक् स्थिता ।
हरेः कृपया कार्येषु स्वतन्त्रा जायते सदा ॥८७॥
ब्रह्मनिष्ठा ब्रह्मशीला मुक्तिमाप्नोति चाऽक्षरे ।
या तु भोगपरा राज्ञी कृष्णसेवाविवर्जिता ॥८८॥
सा तु मृत्वा दिवं गत्वा भुक्त्वा मर्त्येऽत्र जायते ।
मानुष्येवं बहुजन्मसिद्धा भक्त्या तु मोक्ष्यते ॥८९॥
साधोर्गुरोः कृपया च यास्यत्यन्तेऽक्षरं पदम् ।
कृपया श्रीहरेरत्र क्षयं यान्ति हि वासनाः ॥९०॥
कृत्वा सत्संगमेवाऽत्र भजित्वा परमेश्वरम् ।
मानुष्यं सार्थकं कुर्यान्मोक्षात्मनित्यराज्यदम् ॥९१॥
आत्माऽयं ब्रह्मरूपोऽस्ति कृष्णं पश्येद्धि तत्र च ।
एवं लक्ष्मि तूपदिश्य तां राज्ञीं संप्रसेव्य च ॥९२॥
जाग्रद्वन्निद्रितां कृत्वा निरगमं तदालयात् ।
तावत्तत्र समायाता नापितानी निशार्धके ॥९३॥
सेवितुं तां महाराज्ञीं कम्पमाना भयान्विता ।
शय्यास्थले ह्युपस्थित्वा क्षमामयाचताऽऽनता ॥९४॥
महीमानप्रसंगेन कालो मे विगतो बहुः ।
महाराज्ञ्या क्षमा कार्या सेवायां नाहमागता ॥९५॥
श्रुत्वाऽऽश्चर्यं परं प्राप्ता राज्ञी सन्देहमागता ।
या सेवित्वा गता भृत्या सेयं पुनः कथं ननु ॥९६॥
समायाता याचते च क्षमां विनाऽपराधनम् ।
विचार्येत्थं जगादैनां नापिति त्वं कथं पुनः ॥९७॥
समायाता क्षमायाञ्चां कुरुषे च कथं वद ।
इदानीं त्वं समस्तं मे नैशिकं सेवनादिकम् ॥९८॥
कृत्वा यासि निजं गेहं कथं वै याचसे क्षमाम् ।
नापिती प्राह नाहं वै त्वागता सेवनेऽद्य वै ॥९९॥
अस्मिन् क्षणे समायामि किं भ्रान्ता वदसीव माम् ।
पूज्ये मा कुरु नर्मैवं नाहमत्र स्थिताऽभवम् ॥१००॥
अन्यया तु कयाचित्ते कृता सेवा हि सा भवेत् ।
श्रुत्वैवं भ्रान्तिमगमद् राज्ञी क्षणं ततः सुखम् ॥१०१॥
विसृज्य नापितीं निद्रां जगाम सा प्रजेश्वरी ।
अथ सा नापिती नैजं गेहं याति तु यावता ॥१०२॥
तावता स्वगृहे नारीं ददर्श बहुरूपिणीम् ।
रूपेण वयसा वेषेणापि स्वसदृशीं तदा ॥१०३॥
क्षणमाश्चर्यमापन्ना पप्रच्छ स्मेरशोभनाम् ।
का त्वं कथं कुतश्चात्र मद्गृहे कमलासमा ॥१०४॥
अहं लक्ष्मि तदा नैजं रूपं व्यावृत्त्य सुन्दरम् ।
अनादिश्रीकृष्णनारायणं विष्णुमदर्शयम् ॥१०५॥
तवार्थे नापितीरूपे भूत्वाहं तामसेवयम् ।
त्वया तु सेविताः सन्तो राज्ञी क्रुद्धाऽभवत्तदा ॥१०६॥
असेवया तव सर्वं हर्तव्यं निश्चिकाय सा ।
मया धृत्वा तव रूपं सेविता सा प्रजेश्वरी ॥१०७॥
भक्तेऽहं भगवानस्मि श्रेयोऽर्थः तव चागतः ।
त्वं पतिपुत्रपुत्र्याद्यैः सहिताऽसि सदा मम ॥१०८॥
नित्यं ध्यानं ममैवं त्वं समाचर हि गोचरम् ।
नेष्यामि मत्परं धाम कुटुम्बं तव गोचरम् ॥१०९॥
इत्युक्त्वाऽहं तया रुद्धः शय्यायामभवं क्षणम् ।
ममाऽऽनन्दं परं दत्वा तिरोऽभवं क्षणान्तरे ॥११०॥
स्वप्ने तु नापितः पुत्राः पुत्र्यश्च साधवोऽपि च ।
सर्वे मां ते व्यपश्यन् वै प्रातर्जजागरुश्च ते ॥१११॥
परस्परं हरेर्मूर्तेर्वर्णनं दर्शनात्मकम् ।
चक्रुस्ते मेनिरे भाग्यं श्रेष्ठं यद् ब्रह्मदर्शनम् ॥११२॥
अथ प्रातः पुनः स्नात्वा भुक्त्वा ते साधवो ययुः ।
ग्रामान्तरं च सा नापितानी दिव्यकुटुम्बिनी ॥११३॥
भजते मां नापितोऽपि भजते तत्कुटुम्बकम् ।
अथ कालान्तरे सर्वाननयं सद्विमानकैः ॥११४॥
धामाऽक्षरं परं मे वै लक्ष्मि कृपावशो हरिः ।
राजा राज्ञ्यादयश्चापि मेनिरे चरितं मम ॥११५॥
दिव्यं तदिति निश्चित्य भेजुर्मां सप्रजा हि तम् ।
तेऽपि कालान्तरे धामाऽक्षरं ययुर्ममोत्तमम् ॥११६॥
एवं लक्ष्मि मया भक्ता उद्धारिताः कृपालुना ।
साधोः कल्याणधाम्नाख्यस्यापि सेवामिषेण ह ॥११७॥
पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिर्भवेत्तथा ।
यथेष्टकामनापूर्तिर्भवेन्मे कृपया रमे ॥११८॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने स्वर्णधन्वनृपतेः सेवकस्य हर्षधर्मनामकनापितस्य पत्न्या निगमिकानाम्न्या भक्त्या कल्याणधामादिसाधुसाध्वीसेवायां स्थितायाः सेवया सम्प्रसन्नो भगवान् निगमिकारूपो भूत्वा राज्ञीसेवामकरोत्, नापितकुटुम्बस्य रक्षणं मोक्षणं चाऽकरोदित्यादिनिरूपणनामाऽष्टाविंशत्यधिकद्विशततमोऽध्यायः ॥२२८॥

N/A

References : N/A
Last Updated : May 05, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP