संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः २३५ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः २३५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २३५ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं जीर्णोद्भवस्य सत्कथाम् ।आरामनगरे वीणानदीतीरेऽतिविस्तरे ॥१॥जीर्णोद्भवाभिधश्चासीत् कर्षुकः कृषिमान्महान् ।शतपुत्रः शतभृत्यो विंशतिस्त्रीपतिर्बली ॥२॥शतपुत्रीपिता पौत्रचतुःशताभिशोभनः ।पौत्रीशतद्वयशोभन्महासौधनिवासकृत् ॥३॥एवं विशालवंशाढ्यः कृषीवलोऽतिपावनः ।धर्मदानरतो नित्यं गोसेवादिपरायणः ॥४॥पञ्चशतं गोधनं तु महिषीद्विशतं तथा ।अश्वशतं वर्ततेऽस्य वृषभाष्टशतानि च ॥५॥क्षेत्राणि वाटिका महोद्यानानि सस्यभूमयः ।घासबीडमरण्यं च भूम्युच्छ्रयोऽस्य सन्ति च ॥६॥योजनं भूतलं वीणानदीतीरेऽस्य वर्तते ।तत्र कृषिं करोत्येषो बीजाधानं यथर्तु च ॥७॥धान्यानि विविधान्येव जायन्तेऽन्नानि सर्वशः ।द्विदलाः कन्दमूलानि भवन्ति पुष्पपत्रिकाः ॥८॥फलानि कणिशाः शिम्ब्यो भवन्ति वेषवाटकम् ।ग्रन्थयो दण्डसस्यानि शाकानि भाजिकास्तथा ॥९॥आरनालानि सर्वाणि तिक्तकटूनि यानि च ।भवन्त्यस्य महावाट्यादिषु क्षेत्रेषु सर्वथा ॥१०॥ओषधयोऽपि विविधाः प्रजायन्ते प्रसेचिताः ।नरा नार्यः प्रयतन्ते कृष्युद्यमपरायणाः ॥११॥उत्पादयन्ति बीजोप्त्या खाद्यान्नानि बहून्यपि ।उत्पन्नेभ्यः समस्तेभ्यो विंशत्यंशं प्रपूर्णकम् ॥१२॥धर्मार्थं स ददात्येव दानपूजादिकर्मसु ।जीर्णोद्भवगृहे नित्यमनाथाः साधवो द्विजाः ॥१३॥भिक्षुका यात्रिणः साध्व्यो दीना अदन्ति भोजनम् ।दधीनि पिच्छलान्येव पयांसि मधुराणि च ॥१४॥घृतानि पुष्टियुक्तानि शर्करा गूडकाँश्च वै ।मधूनि मिष्टगरिष्टान्नानि श्रेष्ठानि भुंजते ॥१५॥अर्पयन्ति हरये मे पक्वान्यन्नानि तेऽन्वहम् ।एवं धर्मप्रसंगेन वर्धन्ते चास्य सम्पदः ॥१६॥न हीयन्ते पुण्यवशाद् भुज्यमानाश्च साधुभिः ।अथाऽस्य भाग्यमेवाऽपि बहुस्मृद्धं व्यजायत ॥१७॥यद्गृहे वै मखाः पञ्च सम्पाद्यन्ते द्विजैः सदा ।मखेऽस्याऽभ्यागतः साधुर्नाम्ना चैतन्यकाऽऽयनिः ॥१८॥महाभागवतो भक्तोत्तमस्त्यागविरागवान् ।आययौ स्वागतं तस्य जीर्णोद्भवश्चकार ह ॥१९॥जलं शुभासनं मिष्टं मधुपर्कं ददौ नमन् ।वासं च हरिशालायां ददौ सेवां चकार च ॥२०॥रात्रौ देवार्चनं कृत्वा भुक्त्वा चैतन्यकायनिः ।चक्रेऽनादिकृष्णनारायणलीलादिकीर्तनम् ॥२१॥ब्रह्मणोऽस्य त्रिपञ्चाशद्वत्सरेषु हरेर्जनिम् ।अकीर्तयत्तत्र तत्र कृता लीलाः प्रमोक्षदाः ॥२२॥ततः स स्तवनं चक्रे शुश्रुवुः सर्वकर्षुकाः ।यः परब्रह्म भगवान् श्रीकृष्णो वल्लभः प्रभुः ॥२३॥अक्षरे परमे व्योम्नि राजते मुक्तसेवितः ।यस्माद् भवन्ति सृष्टौ वै प्राविर्भावा अनेकशः ॥२४॥सोऽयं श्रीकम्भरापुत्रश्चास्ते गोपालबालकः ।सौराष्ट्रे कुंकुमवापीक्षेत्रेऽश्वपट्टसारसे ॥२५॥यत्र श्रीलोमशश्चास्ते ब्रह्मप्रिया वसन्ति च ।सर्वतीर्थानि देवाश्चेश्वरा विभूतयः श्रियः ॥२६॥लक्ष्मीराधारमापद्मावतीश्रीर्माणिकीप्रधीः ।हरिप्रिया वसन्त्येताः श्रीकृष्णब्रह्मयोषितः ॥२७॥असंख्याः साधवो यत्र स्वतःप्रकाशरूपिणः ।दिव्या वसन्ति ऋषयः शरण्यं प्रभजन्ति च ॥२८॥नमस्तस्मै नृनाट्याय सर्वान्तर्यामिणे नमः ।आभ्यन्तरेभ्यः शधुभ्योऽवनं करोति यो हरिः ॥२९॥नमस्तस्मै कृष्णनारायणाय परमात्मने ।आध्यात्मिकेभ्यस्तापेभ्यश्चाधिदैविकतस्तथा ॥३०॥आधिभूतादिकष्टेभ्यो रक्षकाय नमोनमः ।सामन्तविक्रमात् क्रूराल्लुण्टकाद् वनचन्द्रकः ॥३१॥सुखादेवी च तत्पत्नी वणिजो येन रक्षिताः ।सायनायनसाधोस्तु समागमेन मोक्षिताः ॥३२॥स कृष्णो वर्तते रक्षाकरस्तस्मै नमोनमः ।धनिष्ठकोषं विप्रं च वारांगनासु वर्तितम् ॥३३॥स्नेहलतां च तत्पत्नीं गुरुं सोमायनं तथा ।नृपं मालवसिंहं च ररक्ष मोक्षणं ददौ ॥३४॥नमस्तस्मै परेशाय श्रीकान्ताय तु शार्ङ्गिणे ।राजीवाख्यं नृपं राज्ञीं साध्वीं कुन्दनदेविकाम् ॥३५॥अरक्षयत् तथाऽमोक्षयद् यस्तस्मै नमोनमः ।देवविश्रामस्य रक्षां काण्डिकायाश्च मोक्षणम् ॥३६॥कृतं येन च तस्मै श्रीहरये वै नमोनमः ।हर्षुलमालिनं पत्नीं तस्य विद्रुमवल्लकीम् ॥३७॥उद्दधार हरिर्यः श्रीपतिस्तस्मै नमोनमः ।शाणधरं पितृहणं कर्षुकं च ररक्ष यः ॥३८॥वृषहं निम्बदेवं च तस्मै कृष्णाय ते नमः ।भाण्डं कालीन्दरं साधुकमलायनयोगतः ॥३९॥मोक्षणं चाप्रापयद् यस्तस्मै कृष्णाय ते नमः ।नर्तकं रायणदेवं बोधायनस्य योगतः ॥४०॥गायकं नाकिरालाख्ये पत्तने तु व्रतर्दिनम् ।राजानं पुण्ड्रवर्माणं य उद्दधार ते नमः ॥४१॥वायकं तूलवायाख्यं समुद्दधार यः प्रभुः ।काष्ठहारं तथा जंगलदेवं ते नमोनमः ॥४२॥पण्यकृद्वात्सल्यधीरं पत्नीं मञ्जुलिकां तथा ।साधुं साध्वीं कृतवान् यस्तस्मै तुभ्यं नमोनमः ॥४३॥तिलकरंगं वनपं शिखादेवीं च तत्प्रियाम् ।उद्दधार हरिर्यः स हृदयस्थोऽपि रक्षतु ॥४४॥क्षेत्रपं नाञ्जकदेवं तथा स्तेनमहामयम् ।उद्दधार हरिर्यश्च तस्मै कृष्णाय वै नमः ॥४५॥किरातं सागराख्यं तत्पत्नीं च सारिकां तु यः ।उद्दधार हरिर्यश्च तस्मै श्रीपतये नमः ॥४६॥हूणं सारंगनामानं ररक्ष यश्च ते नमः ।यज्ञराधं पुष्कसं च ब्रह्मायनप्रसंगतः ॥४७॥कुटुम्बयुक्तं यः कृष्णोऽमोक्षयत्ते नमो नमः ।कपिक्षयं तु चाण्डालं प्राज्ञेश्वरं द्विजं तथा ॥४८॥अमोक्षयद्धरिर्यश्च तस्मै कृष्णाय ते नमः ।नालीकरं लोहकारं पत्नीं कुन्दनिकां च यः ॥४९॥अमोक्षयद् भवपाशात्तस्मै श्रीविष्णवे नमः ।चर्मकारं मंगलाख्यं पत्नीं विभावरीं च यः ॥५०॥विषाद् ररक्ष भगवान् यस्तस्मै वै नमोनमः ।रथकारं हरिदासं पत्नीं श्रीमानवीं तु यः ॥५१॥अमोक्षयत् प्रभवे ते वारं वारं नमोनमः ।शिलाहारं दामशिलादकं पत्नीं कलाभिधाम् ॥५२॥तद्भृत्याँश्चाऽमोक्षयद् यस्तस्मै कृष्णाय ते नमः ।शिल्पिनं सञ्जयदेवं पत्नीं केशवतीं च यः ॥५३॥राजानं खड्गवर्माणं तथाऽन्यान् शिल्पिनोऽपि च ।उद्दधार हरिस्तस्मै बालकृष्णाय वै नमः ॥५४॥चित्रकृत्संभरदेवं च चित्रंसरितां प्रियाम् ।चित्रकारानपरान् योऽमोक्षयत्ते नमोनमः ॥५५॥अंगारहारिणं मौक्तिकेशिनं तु निजाश्रितम् ।तथाऽपरान् कर्मचारान् यो ररक्ष च ते नमः ॥५६॥चक्रधरं लुब्धकं यः पौतिमाष्योपदेशतः ।अमोक्षयद्धि संसारात्तस्मै कृष्णाय ते नमः ॥५७॥वाटधरं पिशुनं यो नृपं सुतारसिंहकम् ।घट्ययनप्रसंगेनाऽमोक्षयत्ते नमोनमः ॥५८॥वाटधरं सवासं च द्वैपीराज्ञीमरक्षयत् ।अमोक्षयच्च यः कृष्णस्तस्मै नित्यं नमोनमः ॥५९॥गृहकारं शिवजयं वृषपर्वप्रसंगतः ।अमोक्षयत्तु यः कृष्णस्तस्मै श्रीहरये नमः ॥६०॥यश्च संगरयादस्कं जालकारममोक्षयत् ।पत्नीं रूपावतीं शुक्लायनर्षिसेवया हरिः ॥६१॥तथा जात्या भरवाटमुद्यमश्रीतिनामकम् ।सतीश्वरीं च तत्पन्नीं वल्लवीश्चोद्दधार यः ॥६२॥उष्ट्रपालं दीर्घरम्भं रामायनप्रसंगतः ।उद्दधार हरिर्यस्तं वल्लभं प्रणमे प्रभुम् ॥६३॥रत्नप्रभं खरपालं नृसिंहस्वामियोगतः ।उद्दधार हरिर्नारायणस्तं प्रणमाम्यहम् ॥६४॥गदार्दनेश्वरं वैद्यं तत्पन्नीं च मुकुन्दिनीम् ।अमोक्षयद्धि संसाराद् यस्तं नमामि मापतिम् ॥६५॥कीशनकुलपालस्य देश्यावनस्य मोक्षणम् ।तत्पत्न्याः पुरिकायाश्च चक्रे यस्तं नमामि वै ॥६६॥नापितं हर्षधर्माख्यं पत्नीं निगमिकां च यः ।भूभृतं स्वर्णधन्वानं राज्ञीं च पञ्चदेविकाम् ॥६७॥कल्याणधामसाधोस्तु समागमेन तान् प्रभुः ।उद्दधार हरिर्नारायणस्तं प्रणमामि वै ॥६८॥यश्च रूटाणकीदेवीमाभीरीं दैत्यधर्षिताम् ।अरक्षयद् ब्रह्मप्रियामध्ये रूपेश्वरीं तु ताम् ॥६९॥मन्दारकलिकाद्याश्च तथाऽन्या दिव्यरूपिणीः ।व्यधाच्छ्रीभगवान् पत्नीस्तं नमामि जनार्दनम् ॥७०॥धीवरं धीरपर्वाणं निर्वाणायनयोगतः ।कृत्वा तु पावनं कृष्णोऽमोक्षयत्तं नमाम्यहम् ॥७१॥तारकादर्शकं शूलारोपकं चोद्दधार यः ।सुपथानकभूपं च कृतशल्यां शूल्यंगनाम् ॥७२॥उद्दधार जटी भूत्वा हरिश्रीकृष्णनन्दनः ।गोपालनन्दनं कृष्णं वल्लभ तं नमाम्यहम् ॥७३॥ज्वालाप्रसादनामानं चाग्निदं च प्रभावतीम् ।नारायणायनयोगादमोक्षयन्नमामि तम् ॥७४॥लवादनं तु गरदं नृपं श्रीमानवेश्वरम् ।शान्तेश्वरं युवराजं सूर्यकान्तं तु सैन्यपम् ॥७५॥किंशुकायनयोगेन समुद्दधार यः प्रभुः ।श्रीकृष्णंदेशिकं भक्तहृदयस्थं नमामि तम् ॥७६॥विखण्डलं शस्त्रधरं भार्यां हरसतीं च यः ।निर्मोहनायनयोगादमोक्षयच्च ते नमः ॥७७॥एवं लक्ष्मि स्तवनं वै साधुश्चैतन्यकायनिः ।चक्रे नेमे हरिं सर्वस्थितं च परितस्तदा ॥७८॥श्रुत्वा दृष्ट्वा कर्षुकास्ते पराश्चर्यं प्रपेदिरे ।जीर्णोद्भवः कर्षुकेशो नत्वा पप्रच्छ तं मुनिम् ॥७९॥येषां रक्षा तथा मुक्तिः कृता श्रीपरमात्मना ।किमत्र कारणं तन्मे ब्रूहि चैतन्यकायने ॥८०॥श्रुत्वा मुनिस्तु तानाह मन्त्रं नारायणस्य मे ।'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥८१॥जप मन्त्रमिमं नित्यं जपन्त्वन्ये मुमुक्षवः ।भुक्तिर्मुक्तिर्भवेदेव साक्षान्नारायणो भवेत् ॥८२॥आपत्काले महारक्षां विदध्यात्परमेश्वरः ।इत्युक्त्वा विररामाऽसौ निद्रां जग्राह मां स्मरन् ॥८३॥कर्षुका निद्रिताश्चासन् जपन्तो मन्त्रमेव तम् ।प्रातरुत्थाय साधुस्तु स्नात्वा प्रपूज्य मां ततः ॥८४॥निवेदितान्नं भुक्त्वा च प्राप्य पूजां ययौ वनम् ।कर्षुकास्ते नित्यमेव जपन्ति मन्त्रमुत्तमम् ॥८५॥पूजयन्ति हरिं मां च कुर्वन्त्यपि महोत्सवान् ।चातुर्मास्ये कृतवन्तो व्रतानि विविधानि मे ॥८६॥अथाऽऽश्विने वाटिकासु क्षेत्रेषु वनभूमिषु ।अरण्येषु च बीडेषु स्तम्बसस्यतृणानि च ॥८७॥फलद्रूपाणि सर्वाणि कणिशान्यभवन् यदा ।धान्यर्द्धिसंभृतान्येव पक्वप्रायाणि सर्वथा ॥८८॥चतुर्योजनभूमौ वै क्षितिः सा सस्यशालिनी ।पक्वपत्रौषधिभिश्च स्वर्णवर्णा प्रशोभते ॥८९॥अथ वै दैवयोगेन वायुवेगेन सीमतः ।उपरिस्थप्रदेशाद्वै वह्निः कर्षुकचुल्लिकाम् ॥९०॥त्यक्त्वा च वायुनोत्क्षिप्तः सहसा सस्यभूमिषु ।शुष्कतृणेषु चाऽव्याप्नोत् ततः सस्येषु सर्वतः ॥९१॥ततः क्षेत्रेषु कणिशैः सस्ययुक्तेषु सर्वतः ।दावाग्निवत् स चाऽव्याप्नोत् क्रोशार्धं प्रससार ह ॥९२॥हाहाकारः कर्षुकस्य प्रजायामभवत्तदा ।दुद्रुवुः शान्तये वह्नेः सहस्रशो हि मानवाः ॥९३॥किन्तु वायुप्रवेगेण चोड्डीयोड्डीय दूरगः ।व्योम्ना भूत्वाऽन्यवाट्यां च परे क्षेत्रे ससार ह ॥९४॥निरोऽद्धुं शक्यते नैव भयदः प्रससार वै ।उत्पन्नकणनाशार्थः सर्वतृणादिदाहकः ॥९५॥दुर्भिक्षापादकरूपः प्रससार समन्ततः ।कृतयत्ना जनाः सर्वे निराशाश्चाभवँस्तदा ॥९६॥चैतन्यायनतः प्राप्तं मन्त्रं जेपुः प्ररक्षकम् ।एकैकां मालिकामावर्तयन् यावत्तु ते स्थिराः ॥९७॥स्मरन्तो हृदये रक्षाकरं मां दुःखनाशनम् ।तावन्मया हि रक्षार्थं चिन्तितं चाम्बरे द्रुतम् ॥९८॥मेघमुद्भाव्य वृष्टिं वै विद्युद्गर्जनया युताम् ।अकरवं घटिकान्ते सस्याग्निः प्रशशाम ह ॥९९॥क्रोशमात्रे भस्मसाद्वै जातं यत्तत्र सर्वथा ।विशेषतोऽकरवं वै वृष्टिं सस्यसमृद्धये ॥१००॥पुनस्तत्र हि सस्यानि तृणानि कणिशानि वै ।व्यजायन्त यथापूर्वं यथर्त्वनुसृतानि वै ॥१०१॥एवं मया तदा लक्ष्मि वृष्ट्यऽग्निः शामितः खलु ।ततश्च कर्षुकैः सर्वैरन्नकूटो नवः कृतः ॥१०२॥नवे वर्षे सर्वमिष्टान्नानि शाकानि यानि च ।ओदनानि द्विदलाश्च क्षारान्नानि पराणि च ॥१०३॥भर्जितान्नानि रस्यानि स्वादूनि चोत्तमानि च ।पक्वान्नानि सुधाक्तानि पायसान्युत्तमानि च ॥१०४॥निवेदितानि सर्वाणि मह्यं विशालमन्दिरे ।तत्र मूर्तावहं लक्ष्म्या साकं प्रत्यक्षतां गतः ॥१०५॥बुभुजे सर्वभक्ष्याणि भोज्यानि लेह्यकानि च ।चोष्याण्यपि च पेयानि तथा ताम्बूलकानि च ॥१०६॥चतुर्भुजः प्रभुः साक्षाद् भुक्त्वा दत्वा प्रसादजम् ।नीराजनां तथा पूजां लब्ध्वा तूर्णं तिरोऽभवम् ॥१०७॥आश्चर्यं लेभिरे सर्वे वैष्णवा मत्प्रसादजम् ।बुभुजिरे च ते दिव्या व्यजायन्त च पावनाः ॥१०८॥नित्यं चक्रुश्च मे भक्तिं सर्वे कुटुम्बिनस्तु ते ।अथ काले चागते च यथाक्रमं यथोचितम् ॥१०९॥अनयं स्वं पदं दिव्यमक्षरं कर्षुकान् रमे ।शतं तु कन्यकाः सर्वाः स्वामिव्रतपरायणाः ॥११०॥भजित्वा मां प्रजाता वै ब्रह्मप्रियास्तवाश्रिताः ।इमास्ता देवमणिकाप्रभृतयस्त्वदालये ॥१११॥वर्तन्ते दिव्यदेहिन्यः सर्वथा कृष्णगोपिकाः ।अन्ये मुक्ता अभवँश्च ममाराधनया रमे ॥११२॥एवं लक्ष्मि मया भक्ताः कर्षुका मोक्षितास्तदा ।पठनाच्छ्रवणादस्य स्मरणाद्वर्तनादपि ॥११३॥जायन्ते मुक्तसदृशा ममाऽऽनन्दप्रभोगिणः ।सर्वकामप्रपूराश्च मदन्यूना मदात्मकाः ॥११४॥श्रीनारायणीश्रीरुवाच-हरे स्वामिन् पते सर्वसुखदे स्नेहपात्रिका ।भक्ता पत्नी तव तोषार्थं कथं स्यात् सुरूपिणी! ॥११५॥श्रीपुरुषोत्तम उवाच-सर्वांगसुन्दरी नैजां भवितुं व्रतमुत्तमम् ।मम कुर्याज्जन्मजयन्त्याख्यमूर्जाऽसिताष्टमीम् ॥११६॥उपावसेत्तु वा फलं पयो दध्यादि भक्षयेत् ।यथालब्धोपचारैर्मां श्रीयुक्तं पूजयेत् सती ॥११७॥चन्द्रवन्मुखलाभार्थं स्वर्णचन्द्रं ददेत्तु मे ।नेत्रभ्रुभालशोभार्थं स्वर्णपत्रत्रयं ददेत् ॥११८॥कपोलकर्णनासौष्ठसौष्ठवार्थं सुवर्णजम् ।स्वर्णपत्रशष्कुलीसत्पुष्पबिम्बानि वै ददेत् ॥११९॥दन्तस्वरसुगन्धार्थं स्वर्णकुन्दप्रदा तथा ।शर्कराकेसरकैशरादिप्रदा भवेद् व्रते ॥१२०॥सुस्तनार्थं दाडिमादिफले स्वर्णे ददेत् व्रते ।सुशोभितकरार्थं तु स्वर्णेक्षुदण्डमर्पयेत् ॥१२१॥सुपार्श्वोदरवक्षोऽर्थं स्वर्णकलशपट्टिकाः ।स्वर्णरूप्यफलकानि दद्यात् सौन्दर्यदानि हि ॥१२२॥रशनास्तनुकट्यर्थं श्रोण्यर्थं द्वौ घटौ ददेत् ।स्वर्णजौ योनिसौक्ष्म्यार्थं स्वर्णोर्मिकाश्च मौक्तिकान् ॥१२३॥स्वर्णकपर्दिकां शंखलिकां शुक्तिं ददेत्तथा ।अलोमजघनार्थं तु ददेत् पात्रं सुवर्णजम् ॥१२४॥योन्यारोग्यकृते दद्यात् कस्तूरीहीरकादिकम् ।चारुसक्थिकृते दद्याद् रूप्यकदलिकाद्वयम् ॥१२५॥स्वेष्टलिङ्गपादजंघाचार्वर्थं कदलीफलम् ।वाहनं पादुके स्वर्णे रजोऽर्थं मौक्तिकान् ददेत् ॥१२६॥लक्ष्मीं नारायणं साध्वीं प्रसाद्य सर्वमाप्नुयात् ।व्रतोत्तरदिने साधून् भोजयेत् फलमाप्नुयात् ॥१२७॥इति ते कथितं सर्वं सर्वकामप्रपूरकम् ।सर्वा नार्यो लभेरन् मे व्रते दानेन वाञ्च्छितम् ॥१२८॥इत्येवं ते कथितानि चरित्राणि निजानि वै ।भक्तरक्षाकराण्येव षोडशे वत्सरे मम ॥१२९॥त्वया श्रुतानि सर्वाणि मनोऽभिलषितानि वै ।साधुमाहात्म्ययुक्तानि महामोक्षप्रदानि च ॥१३०॥कृपयैव मयोक्तानि श्रेयसे स्मरतां रमे ।ध्यायतां मुक्तये चापि वदतां पापनुत्तये ॥१३१॥महानन्दप्रदान्येव तादाऽत्म्यभावयोगिनाम् ।सर्वस्वार्पितनारीणा ब्रह्मप्रियात्वदानि च ॥१३२॥सर्वस्वार्पितपुंसां तु ब्रह्ममुक्तत्वदानि च ।सकामानां सर्वकामपूरकाणि सुखानि च ॥१३३॥निष्कामानां कृपया मे मत्तुल्यताप्रदानि च ।लक्ष्मि लीला मम दिव्या दिव्या मद्योगिमानवाः ॥१३४॥सर्वं दिव्यं मम क्षेत्रं परधामात्मकं भुवि ।षोडशं विगतं वर्षं महानन्दपरिप्लुतम् ॥१३५॥सप्तदशं जन्मदिने ममायाति द्रुतं खलु ।उत्सवोऽत्र महान् भावी लोमशाद्यैः प्रवर्तितः ॥१३६॥विरमामि समस्तानां पत्नीनां श्रान्तयेऽपि च ।'ओंनमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥१३७॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने जीर्णोद्भवाऽभिधकृषीवलस्य चैतन्यकायनिसाधुयोगेन भगवद्दर्शनं मोक्षणं, स्त्रीसौन्दर्यादिप्रदव्रतदानवर्णनं चेत्यादिनिरूपणनामा पञ्चत्रिंशदधिकद्विशततमोऽध्यायः ॥२३५॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP