संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १०४ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १०४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १०४ Translation - भाषांतर श्रीनारायणीश्रीरुवाच-गार्हस्थ्यं धर्मसारं मे प्रब्रूहि परमेश्वर ।स्मृद्धिमाप्नोति किं कृत्वा गृहस्थः सुतदारवान् ॥१॥किमवश्यं प्रकर्तव्यं किं कृत्वा च कृतं भवेत् ।येनाऽन्यत् सर्वकर्तव्यसमावेशः प्रजायते ॥२॥श्रीपुरुषोत्तम उवाच-साधवः पितरो देवा गुरवश्च महर्षयः ।साध्व्यो भक्ता अर्चनीया इज्या नित्यं यथाधनम् ॥३॥अन्नपुष्पप्रणामाद्यैस्तोषणीया हि साधवः ।सेवया चानुवृत्त्या च प्रसादनीयाः साधवः ॥४॥जलार्पणेन चान्नेन पयोमूलफलैर्दलैः ।तोषणीया हि पितरः सिद्धान्नैः सद्रसादिभिः ॥५॥देवार्पणं कारयेच्च कुर्याद् देवप्रपूजनम् ।मखं कुर्यान्नित्यमपि देवान् सन्तोषयेत् सदा ॥६॥गुरूणां सेवनं कुर्यादाज्ञां वहेत नित्यदा ।गुर्वर्पणं विदध्याच्च मात्रे पित्रे समर्पयेत् ॥७॥वृद्धेभ्यश्चाऽर्पयेदिष्टं प्रसेवेत मुदा मुदे ।ऋषिभ्यश्च द्विजेभ्यश्च नमस्कुर्यात्तथाऽर्पयेत् ॥८॥सामाऽध्यायं पठेच्चापि विद्यादानं च कारयेत् ।साध्वीभ्यश्च सतीभ्यश्च दद्यादन्नं जलादिकम् ॥९॥आश्रयं चाम्बरं दद्यात् सन्तोषयेन्निराश्रयाम् ।भक्तान् सम्पूजयेन्नित्यं सत्संगं च समाचरेत् ॥१०॥मोक्षमार्गं साधयेच्च 'धर्मं सञ्चिनुयात् सदा ।गृहागता देहिनो वै यथा स्युः सुखिनस्तथा ॥११॥प्रवर्तेताऽऽश्रयं दत्वा चोपकृत्वा प्रतोषयेत् ।हरिर्नारायणश्चाऽयं ह्यभ्यागतो गृहागतः ॥१२॥तत्र नारायणश्चास्ते तुष्यत्वयं जनार्दनः ।एवं स्वागतमादध्यात् सर्वं ब्रह्मार्पणं भवेत्। ॥१३॥भिक्षुकेभ्यः प्रदद्याच्च गोभ्यो दद्यात्तथा गृही ।श्वभ्यो दद्यात् तथा पारावातेभ्यश्चापि चार्पयेत् ॥१४॥यादोभ्योऽपि प्रदद्याच्चाऽनाथेभ्योऽपि समर्पयेत् ।निशाचरेभ्यो भूतेभ्यो बलिं नक्तं समर्पयेत् ॥१५॥नागसर्पादिजीवेभ्यो दद्यात् कीटेभ्य इत्यपि ।पिष्टं कणान् रन्धितं च घासं पत्रं यथायथम् ॥१६॥आचार्यस्य पितुः साधोः सख्युराप्तस्य चातिथेः ।इदमस्ति गृहे मह्यमिति नित्यं निवेदयेत् ॥१७॥गृहस्थः कमलाकान्तशिष्टाशी वै सदा भवेत् ।पत्युः स्थाने स्थिता पत्नी गृहिणी गृहरक्षिणी ॥१८॥धर्मरक्षाकरी नित्यं सर्वधर्मान् निभावयेत् ।सदा त्वं कुरु कल्याणि दानं मानं प्रसेवयेत् ॥१९॥आशीर्वादादिलाभेन नारी नारायणी भवेत् ।नरो नारायणः स्याद् भूलोको गोलोकतां व्रजेत् ॥२०॥एतद् गृहामृतं प्रोक्तं यत् कृत्वा ऋद्धिमान् भवेत् ।धर्मसारमिमं श्रुत्वा यः कुर्यात् स दिवं लभेत् ॥२१॥शृणु संक्षेपतश्चाऽन्यद्धृदयस्थं विभावय ।अहं पतिस्वरूपोऽस्मि नारायणः सदा गृहे ॥२२॥त्वं श्रीर्नारीस्वरूपाऽसि पत्नी गृहिगृहे सदा ।पार्षदा मे सुतकन्यास्वरूपाः सन्ति वै गृहे ॥२३॥महीमाना अतिथयः साधवोऽभ्यागताश्च मे ।इत्येवं दिव्यदृष्ट्या वै कुटुम्बं वर्तते गृहे ॥२४॥कृष्णार्पणस्वरूपेण सेवते स्म परस्परम् ।भक्त्यार्पणं सर्वमस्य कर्तव्यं नाऽवशिष्यते ॥२५॥त एव विषयास्तानि खानि भोगास्त एव च ।कल्पिता मयि कृष्णे स्युर्मोक्षदा निर्गुणाः प्रिये ॥२६॥धर्मसारः कथितोऽयं गृहामृतफलः शुभः ।ऋद्धिदः पुण्यदो बन्धवर्जितो मोक्षदः सुखः ॥२७॥सहस्रजन्मपुण्यस्य ज्ञायते तत्त्वमीदृशम् ।अपात्रस्य विषयिणः कल्मषिणस्तु दुर्ग्रहम् ॥२८॥देहेन्द्रियमनोबुद्धिचेतनैः सर्वथा प्रिये ।तर्पणीयाः साधवश्च तृप्तो भवामि तत्स्थितः ॥२९॥गृहवाटीक्षेत्रवाजिगजगोमहिषीधनैः ।तोषणीयाः साधवश्च जलाम्बरान्नसेवनैः ॥३०॥यजस्व विविधैर्यज्ञैर्बह्वन्नैः स्वर्णदक्षिणैः ।साधून् सेवय साध्वीश्च पितॄन् देवांश्च तर्पय ॥३१॥ब्रह्मप्रिया रञ्जयस्व वृद्धाँश्च परिसेवय ।आश्रितान् शुभसत्कारैरर्चयस्व यथार्हतः ॥३५॥शृणु लक्ष्म्यभवत् पूर्वं नरशायो हि तस्करः ।पत्नीपुत्रसमेतश्च सदा स्तैन्योपजीवनः ॥३३॥सिंहारण्ये वसन्नित्यं वसतौ याति वै निशि ।प्रसह्य धनिसौधादीन् भित्त्वा नीत्वा धनानि च ॥३४॥अन्नादीनि चाम्बराणि नीत्वा याति वने पुनः ।एवं सततं चौर्येण निर्वहत्यथ तद्वने ॥३५॥साधुः श्रीचक्रभासाख्यो वैष्णवो विहरन् पथि ।मिमेल तं नरशायं चौरं सरोवरान्तिके ॥३६॥चौरो विज्ञाय तं साधुं निर्दोषं निर्भयं शुभम् ।गत्वाऽन्तिकं ननामाऽथ निषसाद पुरः क्षणम् ॥३७॥साधुः पीत्वा जलं तस्मै ददौ वारि प्रसादजम् ।चौरोऽपि मानयन् भाग्यं तूर्णं पपौ जलामृतम् ॥३८॥पानमात्रेण हृदयं व्यावर्तत शुभाश्रयम् ।पूतं च मानसं वर्ष्म विवेकः समपद्यत ॥३९॥पप्रच्छ तं पावनं वै मत्वा शान्तं सुखप्रदम् ।पापनाशः कथं स्याद्वै साधो दर्शय सत्पथम् ॥४०॥श्रुत्वा श्रीचक्रभासस्तं प्राह चौर्यं हि लौकिकम् ।विहाय कुरु चौर्यं त्वं गुणानां च सतां हरेः ॥४१॥सेवां साधोर्हरेर्नित्यं समाचर सदाशयः ।श्रुत्वा पप्रच्छ साधुं तं नरशायः पुनः पुनः ॥४२॥कया रीत्या मया सेवा कर्तव्या वद मे मुने ।साधुः प्राह वने वन्यैः प्रसेवय समर्पितैः ॥४३॥फलमूलकृताहारो भव चौर्यं परित्यज ।हरेर्मूर्तिं चार्चयाऽत्र भजनं सततं कुरु ॥४४॥सर्वपापानि नश्येयुश्चैवं प्रसेवनाद्धरेः ।एवमुक्तः स वै स्तेनः साधुमाह सरोऽन्तिके ॥४५॥विद्यते मम वासोऽत्र साधो चागच्छ मद्गृहम् ।सेवयिष्ये भवन्तं च हरिं त्वया प्रदर्शितम् ॥४६॥नाशमेष्यन्ति पापानि स्युः स्त्रीपुत्राश्च पावनाः ।श्रुत्वैवं श्रीचक्रभासो जपन्नारायणं हरिम् ॥४७॥सवल्कलो जटायुक्तो मालां करे दधन्मुदा ।वृद्धो ययौ त्तेनकुटीं तत्स्त्रीपुत्रादिसंयुताम् ॥४८॥दत्तासने निषसाद भजन् कृष्णनरायणम् ।स्तेनस्त्रीपुत्रपुत्र्याद्या मत्वा वृद्धं पितुर्गुरुम् ॥४९॥जलपात्रं सत्फलानि पक्वाऽऽम्राणि च तत्क्षणम् ।न्यधुः साधोः समीपे च भुंक्ष्वेति जगदुस्ततः ॥५०॥पादसंवाहनं चक्रुश्चानन्दिता मुदा मुहुः ।साधुः फलानि बुभुजे पपौ वारि च शीतलम् ॥५१॥भुंजन् ददाति मध्ये च मध्ये तेभ्यः पुनः पुनः ।स्त्रीपुत्राद्याश्च दत्तानि मत्वा प्रसादमुत्तमम् ॥५२॥भक्षयन्ति सुमिष्टानि स्तेनोऽपि बुभुजे ततः ।साधुर्नारायणं मां च स्मृत्वा निवेद्य विष्णवे ॥५३॥भुंक्ते ददाति चैतेभ्यस्ते भुक्त्वा चाघवर्जिताः ।तूर्णं जाताः पावनाश्च सेवया स्पर्शनेन च ॥५४॥हृदयानि परावर्तितानि तेषां सतोऽन्तिके ।प्रोचुः सर्वे भगवन्नः कल्याणं वै यथा भवेत्। ॥५५॥तथा कुरु वने त्वत्र वसन् कुट्यां च नो गृहे ।साधुस्तथाऽस्त्विति प्राह चोवास शान्तिमाँश्चिरम् ॥५६॥शिक्षयामास भजनं नित्यं नारायणस्य मे ।रात्रौ मिलित्वा भजनं कीर्तयन्ति स्वराऽन्विताः ॥५७॥'हरेकृष्ण हरेकृष्ण कृष्णनारायण प्रभो ।अनादिश्रीकृष्णनारायण लक्ष्मीपते विभो' ॥५८॥इत्येवं कीर्तयित्वा मां स्वपन्ति नित्यमेव ते।प्रातरुत्थाय भजनं साधुना सह ते तथा ॥५९॥कृत्वा यान्ति सरः स्नान्ति नमस्कुर्वन्ति भास्करम् ।साधुं नत्वा मालिकां च पञ्च जप्त्वा वनं प्रति ॥६०॥यान्ति फलानि चाहर्तुं समायान्ति कुटीं निजाम् ।मध्याह्ने फलकन्दादि भर्जयित्वा तु वह्निना ॥६१॥प्रदत्वा गुरवे तस्मै निवेद्य हरये तु मे ।भोजयित्वा भुंजते ते कुर्वन्ति भजनं ततः ॥६२॥सायं कुर्वन्ति भजनं सेवन्ते च कथामृतम् ।पुत्राः साधुं प्रसेवन्ते स्त्री सेवते दिवानिशम् ॥६३॥स्तेनोऽपि सेवतेऽभीक्ष्णं साधुं नारायणात्मकम् ।स्त्रीपुत्राद्यैः कृतं यद्यत् कर्म स्तैन्यात्मकं पुरा ॥६४॥सर्वं निवेदितं तस्मै धनं च यत्समाहृतम् ।साधुः सर्वं समगृह्य ययौ गोकर्णतीर्थके ॥६५॥चिक्षेप जलमध्ये श्रीकृष्णार्पणं वदन्निति ।तावद्द्रव्यं समस्तं तच्छ्रीलक्ष्मीरूपकन्यका ॥६६॥भूत्वा साधुं प्राह साध्वी त्वया कृष्णाय चार्पिता ।पावनी खलु जाताऽस्मि मालिन्यं विगतं मम ॥६७॥अथ चौराँस्तथा पूर्वधनिनोऽपि च पावनान् ।कृत्वा नयामि कृष्णस्य चरणौ कृत्यमेव मे ॥६८॥इत्युक्त्वाऽऽदाय साधुं तं ययौ लक्ष्मीश्च तद्वनम् ।यत्र ते स्तेनकर्माणश्चाऽभवन् तेऽपि विस्मिताः ॥६९॥पप्रच्छुः कन्यकां दृष्ट्वा साधुं साधुर्जगाद तान् ।लक्ष्मीः साक्षात् समायाता नेतुं नारायणगृहम् ॥७०॥सज्जा भवन्तु तूर्णं वै यान्तु नारायणालयम् ।श्रुत्वा मोदं गताः सज्जा भूत्वा नत्वा गुरुं च तम् ॥७१॥आगते दिव्यशोभाढ्ये विमाने ते समारुहन् ।ययुः साधोराज्ञया ते पार्षदैः सह सेविनः ॥७२॥वैकुण्ठं भगवद्धाम लक्ष्मि! साधोः समागमात् ।अथ कन्या श्रीस्वरूपा साधुना सह चाग्रगा ॥७३॥ययौ तद्धनिनां सौधान् दृष्ट्वा च धनिनोऽपि ते ।ससंभ्रमाः स्वागताद्यैरपूजयन् सुरेश्वरीम् ॥७४॥साधुं प्रापूजयन्सर्वे ज्ञात्वा वृत्तान्तमादितः ।चौरहस्तगता लक्ष्मीः साधुहस्तेन चार्पिता ॥७५॥श्रीकृष्णे दिव्यतां प्राप्ता प्राप्ता कल्याणहेतवे ।विज्ञाय तेऽपि साधोश्चाऽऽज्ञया सज्जास्ततोऽभवन् ॥७६॥मोक्षार्थं तावदेवाऽपि विमानं भास्वरं महत् ।समायातं त्वम्बराद्वै पार्षदादिसमन्वितम् ॥७७॥लक्ष्मीः सर्वान् धनपाँश्च समादाय विमानके ।स्थित्वा नीत्वा ययौ नत्वा साधुं श्रीचक्रभासुरम् ॥७८॥गोलोकं धाम कृष्णस्य पत्युर्हरेः परात्परम् ।एवं लक्ष्मि त्वया पूर्वं स्तेनश्रेष्ठिकुटुम्बिनाम् ॥७९॥साधोर्योगेन कल्याणं कृतं योजितया हरौ ।साधुः श्रीचक्रभासश्च ययौ लोमशभूमिकाम् ॥८०॥तीर्थार्थं च समाधौ वै निषसाद युगाद् युगम् ।ददर्श मोक्षमार्गं स यथा यान्ति जनास्त्वितः ॥८१॥भित्त्वा स्वर्गं महर्लोकं जनं तपश्च सत्यकम् ।जलोपरि च वैकुण्ठं यान्ति तत्र हरे पुरः ॥८२॥विश्रान्तिं लभते सौख्यं स्वागताद्यैः सुमाननम् ।हर्याज्ञया ततो यान्ति परवैकुण्ठमुत्तमम् ॥८३॥गोलोकं वाऽक्षरं धाम परंधाम प्रयान्ति च ।दिव्यदेहा दिव्यधर्मा विद्वांसो घनमूर्तयः ॥८४॥प्रणवाख्यं किरणाढ्यं विमानं सम्प्रविश्य ते ।ब्रह्मलोकं प्रवर्तन्ते ब्रह्मकाया ह्यनिम्नगाः ॥८५॥आनन्दं ब्रह्मणः प्राप्य चाऽमृतत्वाय ते गताः ।ब्रह्मलोकेऽक्षरं ब्रह्म सर्वेषां वै पुरोहितम् ॥८६॥मुक्तेश्वरं पुरस्कृत्याऽऽनन्दामृतं प्रभुंजते ।आधिपत्यं विना तुल्या भवन्ति परमात्मना ॥८७॥रूपप्रभावविजयैश्वर्यसामर्थ्यसदृशाः ।एवंविधं त्वमृताख्यं ब्रह्मसत्रं सनातनम् ॥८८॥अपुनर्मारकं स्थानं चामृतत्वाय ते गताः ।ब्रह्मण्यभ्यासिनो युक्ताः परां काष्ठामुपासते ॥८९॥वीतरागा जितप्राणा निर्मोहाः सत्यवादिनः ।शान्ताः प्राणिहितात्मानो दयावन्तो जितेन्द्रियाः ॥९०॥निःसंगा शुचयो भक्ता ब्रह्मसायुज्यगास्मृताः ।अकामयुक्तैर्ये वीरास्तपोभिर्दग्धकिल्बिषाः ॥९१॥तेषामभ्रंशिनो लोका अप्रमेयसुखाः शुभाः ।एतद् ब्रह्मपदं दिव्यं परं मे व्योम्नि भास्वरम् ॥९२॥एतद् गत्वा न शोचन्ति ह्यमरा ब्रह्मणा सह ।यस्मादेषां परं वीर्यं परमायुः परं तपः ॥९३॥परा शक्तिः परो धर्मः परा विद्या परा धृतिः ।परं ब्रह्म परं ज्ञानं परमैश्वर्यमित्यपि ॥९४॥तस्मात् परतरं भूतं ब्रह्मणो यन्न विद्यते ।परे स्थितो ह्येष परः सर्वार्थेषु ततः परम् ॥९५॥परब्रह्म परो भूत्वा प्रपश्यति न चान्यथा ।एवं ज्ञानप्रतिष्ठत्वात् सर्वं ब्रह्माऽनुपश्यति ॥९६॥आक्षरक्षेत्रमुक्तानामाक्षरे धाम्नि संस्थितिः ।शाश्वती विद्यते लक्ष्मि शाश्वतानन्ददोहिनी ॥९७॥सतां समागमो नित्यं ब्रह्मलोकप्रदायकः ।सर्वपापहरो लक्ष्मि लक्ष्म्याः शुद्धिकरस्तथा ॥९८॥आत्मशुद्धिकरश्चापि मोक्षशुद्धिकरस्तथा ।ज्ञानशुद्धिकरश्चोपासनाशुद्धिकरस्तथा ॥९९॥निर्वाणशुद्धिदश्चापि शुभः सार्वज्ञ्यशोधकः ।आत्मनिवेदितासंशोधकः सेवाप्रशोधकः ॥१००॥दोषसंशोधकश्चापि मायासंशोधकस्तथा ।विवेकशोधकश्चापि बन्धनानां च शोधकः ॥१०१॥एतदमृतसत्रं वै ब्रह्मसत्रमधीत्य ह ।जायते ब्रह्मधर्माऽत्र परत्रापि न संशयः ॥१०२॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने गार्हस्थ्यधर्मसारे नरशायतस्करस्य श्रीचक्रभाससाधुयोगेन दिव्यलक्ष्मीद्वारा मुक्तिः पूर्वधनिनामपि मुक्तिर्ब्रह्मसत्रविज्ञानं चेत्यादिनिरूपणनामा चतुरधिकशततमोऽध्यायः ॥१०४॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP