संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १०२ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १०२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १०२ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-गवाराधनसंज्ञं च व्रतं कुर्युर्विमुक्तये ।प्रेतस्य वंशजा भार्या पुत्रः सम्बन्धिबान्धवाः ॥१॥गवां गोष्ठे निवसनं गवां शुश्रूषणं तथा ।गवाऽन्वाहारमेवापि गवान्वपानमित्यपि ॥२॥गवान्वशयनं चापि गोप्राक्प्रबोधनं तथा ।गोस्थलीमार्जनाद्यं च दंशादीनां निवारणम् ॥३॥शाद्वलघासदानं च गव्याहारस्तथाऽर्हणम् ।रक्षणं सर्वथा शश्वद् गोष्ठे वासः सदा तथा ॥४॥द्रुह्येन्न मनसा वापि गोषु नित्यं सुखप्रदः ।अर्चयेत रमाबुद्ध्या नमस्कारैः प्रपूजयेत् ॥५॥त्र्यहमुष्णं पिबेन्मूत्रं त्र्यहमुष्णं पिबेत् पयः ।त्र्यहं घृतं पिबेदुष्णं वायुभक्षस्त्र्यहं भवेत् ॥६॥वहेद् घृतं तु शिरसा वह्निं संजुहुयाद् घृतैः ।घृतं दद्यात्तथाऽश्नीयाद्घृतेन स्वस्ति वाचयेत् ॥७॥गवोच्छिष्टयवभक्षो ब्रह्महत्यां व्यपोहति ।दैत्यैश्च दानवैर्युक्ताः प्रसह्य भोजने सुराः ॥८॥आशिता निजभक्ष्याणि ततः शुद्ध्यर्थमेव ह ।गवाराधनसंज्ञं वै व्रतं मासकृतं कृतम् ॥९॥ततः शुद्धाः पुनर्देवाः संसिद्धा निजकर्मसु ।अतो गावः पवित्राश्च पावनाः पुण्यदास्तथा ॥१०॥गोदानं तच्छुभं दत्वा शुद्ध्यति स्वर्गमश्नुते ।अग्निमध्ये गवां मध्ये सतां मध्ये वसन्नपि ॥११॥विप्रमध्ये सतीमध्ये वेदमध्ये वसन्नपि ।यज्ञमध्ये तीर्थमध्ये वसन् शुद्ध्यति पातकात् ॥१२॥गावस्तुष्टाः प्रयच्छन्ति पुत्रं धनं पतिं प्रियाम् ।शृणु श्रीशिवराज्ञीश्रि! पुरा श्रीस्त्वं स्वभावतः ॥१३॥कान्तं वपुर्विनिर्माय गोमध्ये संस्थिताऽभवः ।गावश्चाश्चर्यसम्पन्ना वीक्ष्यते रूपसम्पदम् ॥१४॥पप्रच्छुस्त्वां काऽसि कन्ये कुतोऽसि रूपसुन्दरी ।कथं चात्राऽऽगता सौम्ये वद चेन्मन्यसे हि नः ॥१५॥तदा त्वं गाः प्रणम्यैवोदितवती प्रसादिता ।विष्णुकान्ताऽस्मि भद्रं वः श्रीर्नामाऽहं हरेः प्रिया ॥१६॥मयाऽभिपन्ना देवाद्या मोदन्ते शाश्वतीः समाः ।सूर्यश्चन्द्रो महेन्द्रश्च वसवो देवकोटयः ॥१७॥अग्निरापो मयाऽऽविष्टाः स्मृद्ध्युद्भावा भवन्ति वै ।यान्नाविशाम्यहं गावस्ते विनश्यन्ति सर्वथा ॥१८॥यत्र धर्मार्थकामाश्च मया जुष्टा हि तद्गृहम् ।मोदप्रमोदशान्त्याढ्यं महानन्दभृतं भवेत् ॥१९॥इच्छामि चापि युष्मासु वस्तुं भवत मद्युताः ।स्त्रीवर्गे मे सदा वस्तुं वाञ्च्छा जाताऽस्मि वै ध्रुवा ॥२०॥श्रुत्वा गावश्च भवतीं प्राहुस्त्वं चञ्चला ह्यसि ।सर्वगां त्वां न चेच्छामो भद्रं तेऽन्यत्र गम्यताम् ॥२१॥श्रुत्वा त्वं चाऽर्थितवती कथं मां नाभिनन्दथ ।महदुग्रं तपः कृत्वा मां निषेवन्ति मानवाः ॥२२॥यक्षा असुरा गन्धर्वा ईश्वरा उरगा सुराः ।कथं मां प्रतिगृह्णीध्वं नैव यूयं हि दुर्लभाम् ॥२३॥श्रुत्वैवं धेनवः प्राहुश्चलचित्ताऽसि सर्वथा ।बहुना तु किमुक्तेन ततस्त्वां वर्जयामहे ॥२४॥श्रुत्वैवं त्वं चोक्तवती चाञ्चल्यं सन्त्यजाम्यहम् ।भवतीनां कृते गावो वस्तुं स्थानं प्रयच्छथ ॥२५॥ततो गावश्चोक्तवत्यः शकृन्मूत्रे वस ध्रुवा ।ओमित्यवसस्त्वं लक्ष्मि गवां मूत्रे च शकृति ॥२६॥गोमूत्रं गोमयं तस्माल्लक्ष्मि गृहं तवाऽस्मि वै ।यत्र त्वं तत्र चाऽहं च निवसामि न संशयः ॥२७॥एवं ज्ञात्वा महिमानं गां प्रयच्छन्ति ये जनाः ।हुतशिष्टाशिनस्ते वै सत्रिणोऽध्वरिणश्च ते ॥२८॥ऋते दधि घृतं नाऽत्र यज्ञः कश्चित् प्रवर्तते ।ततो यज्ञस्य यज्ञत्वं गोमूलकं प्रतिष्ठितम् ॥२९॥गोपुत्राः सततं लोके कृषियोगमुपासते ।उत्पादयन्ति धान्यानि प्रवर्तन्ते मखाश्च तैः ॥३०॥वहन्ति विविधान् भारान् क्षुत्तृषादिप्रपीडिताः ।साधूंश्च धारयन्तीह पृष्ठे च शकटेऽपि च ॥३१॥गोलोकं सन्नयन्त्येव दत्ता दाने परेतकम् ।तस्मात् स्थानं गवामूर्ध्वं स्वर्गात् सत्यात् तथैश्वरात् ॥३२॥गोलोकं वै गवां स्थानं मम कृष्णस्य मन्दिरम् ।गोदाता याति गोलोकं कृष्णनारायणालयम् ॥३३॥अन्यच्छृणु महालक्ष्मि पुरा देवयुगे खलु ।अदितिस्तु तपस्तेपे विष्णुः पुत्रो भवेन्मम ॥३४॥एकपादेन तपतीं वीक्ष्य दक्षसुता तदा ।सुरभीनामिका चापि तपस्तेपे तया सह ॥३५॥तदा गत्वा स्वयं ब्रह्माऽदितये सद्वरं ददौ ।विष्णुः पुत्रस्ते भविता सुरकार्यकरो हरिः ॥३६॥सुरभ्यै वरदानं च दत्तवान् विश्वसृट् तदा ।दक्षसुते! तापसि! त्वं ह्यमरीत्वमवाप्स्यसि ॥३७॥ईश्वरीत्वं च गोपीत्वमवाप्स्यसि सवंशजा ।मुक्तानीत्वं तथा मोक्षदात्रीत्वं संव्रजिष्यसि ॥३८॥सृष्टित्रये पूज्यतमोपरिष्टाच्च निवत्स्यसि ।गोप्रदास्ताँश्च गोलोकान् गोपतेर्वै प्रसादतः ॥३९॥वासस्थानान्यवाप्स्यन्ति यत्र वसन्ति धेनवः ।भूरिशृंगा यत्र गावो यास्यन्ति वंशजास्तथा ॥४०॥उरुगायस्य कृष्णस्य तद्धाम परमं पदम् ।हव्यार्पणादिपुण्येन या वै दुहितरस्तव ॥४१॥देवसेवाप्रकर्त्र्यः स्युर्निवत्स्यन्ति च तत्पदे ।मनसा चिन्तिता भोगाः सम्पत्स्यन्ते सुखास्तव ॥४२॥गोदातॄणां परे लोकाः सर्वकामसमन्विताः ।न येषु क्रमते मृत्युर्न जरा न च पावकः ॥४३॥न दारिद्र्यं नाऽशुभं च विद्यते गोपदे क्वचित् ।तत्र दिव्यान्यरण्यानि दिव्यानि भवनानि च ॥४४॥विमानानि सुदिव्यानि कामगानि भवन्ति च ।घृतकुल्या दधिकुल्याः पयःकुल्या भवन्ति च ॥४५॥पुष्करिण्योऽमृतानां च नवनीताऽऽद्रयोऽपि च ।शर्करामधुसुस्वादाः सुधाचया भवन्ति च ॥४६॥तरुण्यो गोपिका यत्र भवन्ति दिव्यभूषिताः ।गोदातारः प्रयास्यन्ति सौरभि! त्वत्पदं परम् ॥४७॥ब्रह्मचर्येण तपसा सेवया च सतां हरेः ।दानैः पुण्यैर्दमेनापि सत्येन तीर्थसेवनैः ॥४८॥कृष्णनारायणभक्त्या राधाभक्त्या विशेषतः ।शक्यः समासादयितुं गोलोकः कृष्णशोभितः ॥४९॥गोभक्तो लभते सर्वं यथेष्टं कामितं शुभम् ।भक्ताः स्त्रियो लभन्ते च कामितं सर्वमुत्तम् ॥५०॥पुत्रार्थी लभते पुत्रं कन्यार्थी कन्यकां तथा ।वित्तार्थी लभते वित्तं धर्मार्थी धर्ममाप्नुयात् ॥५१॥मोक्षार्थी प्राप्नुयान्मोक्षं सम्पदर्थी तु सम्पदः ।विद्यार्थी चाप्नुयाद् विद्यां सुखार्थी लभते सुखम् ॥५२॥रसार्थी लभते रस्यं दार्ढ्यार्थी दृढतां तथा ।पत्यर्थिनी पतिं श्रेष्ठं कान्तार्थी सुन्दरीं शुभाम् ॥५३॥सुतार्थी लभते पुत्रीं स्वर्गार्थी स्वर्गमाप्नुयात् ।गोप्रदाता महाराज्यं लभते पार्थिवं ह्यपि ॥५४॥ऐन्द्रं पदं सूर्यपदं चान्द्रं कौबेरकं पदम् ।याम्यपदं तथा धर्म्ये वाह्न्यं चैशमित्यपि ॥५५॥कैलासं चापि वैकुण्ठं वैराजं पदमित्यपि ।लभेत श्रेष्ठगोलोकं धामाऽक्षरं लभेत च ॥५६॥आरोग्यं लभते गोदो यशः कीर्तिं लभेत च ।गजवाजिसुरभीश्च लभेत गोप्रदः खलु ॥५७॥रूपं रत्नानि वस्त्राणि मैणीन् सौवर्णशेवधिम् ।लभते गोप्रदाता वै स्मृतं गोदानकालिकम् ॥५८॥अपमृत्युर्विनश्येच्च प्रेतत्वं दूरतो व्रजेत् ।पापानि संप्रणश्येयुर्गोदातुश्च स्मृतस्य च ॥५९॥इत्येवं वरदानानि ददौ ब्रह्मा हि धेनवे ।न किञ्चिद् दुर्लभं लक्ष्मि! गोभक्तस्य भवेदिह ॥६०॥सिद्धयश्चाणिमाद्याश्च सर्वेश्वर्यादिसम्पदः ।यावन्तश्च चमत्कारा भवन्ति धेनुदे रमे! ॥६१॥वेदपुण्यं मखपुण्यं कन्यापुण्यं च दक्षिणा ।भूमिपुण्यं स्वर्णपुण्यं गोदानेन प्रजायते ॥६२॥गोदानेन समं देयं सुवर्णं दक्षिणात्मकम् ।अप्राप्तायां मूर्तिमत्यां देया धेनुर्हि कानकी ॥६३॥सदा भूमेर्गवामर्थं देयं सुवर्णमित्यपि ।स्वर्णं गौः पृथिवी चेति त्रीणि दानानि पद्मजे ॥६४॥प्रेतमुक्तिकराण्येव भवन्ति नात्र संशयः ।गाश्च भूमिं च वित्तं च दत्वा पापी प्रपूयते ॥६५॥अजोऽग्निर्वरुणो मेषः सूर्योऽश्वः प्राग् व्यजायत ।तत्तद्दानानि वै प्रेतमुक्तयेऽपि भवन्ति हि ॥६६॥कुंजराश्च मृगा नागा महिषाश्चासुरा हि ते ।आसुरयोनिमुक्त्यर्थं हस्त्यादिदानमुत्तमम् ॥६७॥कुक्कुटश्च वराहाश्च राक्षसाः परिकीर्तिताः ।रक्षोयोनिविमुक्त्यर्थं तत्तद्दानं प्रशस्यते ॥६८॥इडा गावः पयः सोमो भूमिरजायतैव ह ।प्रेतादीनां विमुक्त्यर्थं गोभूदानं प्रशस्यते ॥६९॥अग्निर्हि देवता स्वर्णं देवता शस्यते ततः ।स्वर्णदानं परं प्रोक्तं देवदानं शुभप्रदम् ॥७०॥अग्न्यभावे तु कुरुते वह्निस्थानेषु कांचनम् ।कुशस्तम्बे जुहोत्यग्निं सुवर्णं तत्र च स्थिते ॥७१॥विप्रहस्ते साधुहस्ते दर्भस्तम्बेऽजकर्णके ।अप्सु काष्ठे सुवर्णे च जुहोत्यग्नेरसन्निधौ ॥७२॥हुते प्रीतिकरीमृद्धिं श्रीपतिः सम्प्रयच्छति ।नित्यं ददाति सौवर्णं यथाशक्ति तु योजनः ॥७३॥ब्रह्मवाय्वाग्निसोमानां सालोक्यमुपयाति सः ।माता पिता सुतश्चेति गार्हस्थ्यं त्र्यात्मकं शुभम् ॥७४॥गवां स्वर्णस्य पृथ्व्याश्च दानं त्र्यात्मकमुत्तमम् ।श्रद्धास्नेहश्चादरश्च त्रेधाऽतिथिप्रसादकृत् ॥७५॥तथा भूगोसुवर्णानि परलोकप्रदानि वै ।भवनं सम्पदो वृत्तिस्त्रेधा सौख्यप्रसाधनम् ॥७६॥धेनुभूकनकान्येवं दाने सौख्यप्रदानि वै ।ज्ञानं शान्तिश्च निवृत्तिस्त्रयश्चानन्दहेतवः ॥७७॥धेनुक्षितिस्वर्णकानि महानन्दप्रदानि वै ।भक्तिर्हरिश्च मोक्षश्च सम्बद्धास्ते त्रयः सदा ॥७८॥साधुः शीलं क्षमा चेति सम्बद्धास्ते त्रयोऽपि च ।तथा दाने स्वर्णधेनुभुवो बद्धा हि नित्यशः ॥७९॥भुक्तिदा मुक्तिदाश्चापि प्रेतोद्धारकरास्तथा ।स्वर्गदाः पापपुञ्जानां नाशका पुण्यदास्त्रयः ॥८०॥गोयज्ञात्म गवां दानं पितृयज्ञं तु तर्पणम् ।सतां यज्ञं भोजनं च दत्वा सौवर्णदक्षिणाम् ॥८१॥नारायणबलिं कृत्वा नीलपुच्छादितर्पणम् ।कारयित्वाऽभ्यर्थितस्य दानं प्रेतं प्रमोक्षयेत् ॥८२॥इत्येवं कथिता लक्ष्मि प्रेतमुक्तिः शुभोद्भवा ।मोक्षशास्त्रकृतं चापि पारायणं प्रमोचयेत् ॥८३॥नामसंकीर्तनं चापि ह्यखण्डभजनं मम ।सतां करजतोयं च मुक्तिदं प्रेतयोनितः ॥८४॥अवभृथं पवित्रं च स्नानं श्राद्धं शुभे क्षणे ।साधूनां दर्शनं चापि स्पर्शनं च निदेशनम् ॥८५॥मुक्तिदं प्रेतयोनेस्तु तीर्थवारिनिषेवणम् ।यत्र क्वापि गतश्चापि मुच्यते भजनाद्धरेः ॥८६॥यक्षो वा राक्षसो वापि भूतः प्रेतः पिशाचकः ।सर्पो वा पशुदेहोऽपि याम्यो वा वायुदेहवान् ॥८७॥डाकिनी वा शाकिनी वा भूती पिशाचिनी च वा ।वेतालिनी वा वेतालो यत्र क्वापि गतोऽपि वा ॥८८॥साधूनां दर्शनं यद्वा प्रसादं श्रीहरेश्च वा ।लभते वा जलं चापि मुच्यते नात्र संशयः ॥८९॥सन्तो हि तारका लोके पापानां नाशकास्तथा ।कल्मषाणां हारकाश्च दिव्यतामोक्षसम्प्रदाः ॥९०॥गोस्वर्णवह्निदेवेभ्यः श्रेष्ठाः सन्तः सदा रमे! ।सतां योगो मम योगः सर्वपुमर्थदः खलु ॥९१॥एकदा पुष्कसो नाम्ना भारुण्डो मद्यपानकृत् ।मांसादः शीलहीनश्च स्तेनो मृतो वनान्तरे ॥९२॥याम्यैर्नीतो यमपूर्यां नरकेषु निपातितः ।तत्पत्न्या तु कृतं तीर्थे गोदानं स्वर्णमल्पितम् ॥९३॥प्रेतस्य सर्वपापानि दूरीभूतानि तत्क्षणात् ।प्रेतः स्वर्गं ययौ तूर्णं पापानि सुरभीं ययुः ॥९४॥सुरभी साऽऽह पापानि नाशयितुं तु वेधसे ।पुष्कसस्य तु पापानि मयि लग्नानि दानतः ॥९५॥माया नाशयितव्यानि कुत्र गत्वा पितर्वद ।श्रुत्वा ब्रह्माऽऽह तां गां च याहि सनत्कुमारकम् ॥९६॥साधुं शीलव्रतं द्राक् स नाशयिष्यत्यघानि ते ।श्रूत्वा गत्वा सुरभ्येनं साधुं नेमे तथाऽऽर्थयत् ॥९७॥पापनाशार्थमेवाऽपि साधुः पादजलं ददौ ।पपौ सा सुरभी गौश्च नष्टान्यघानि सत्वरम् ॥९८॥ततः सुरभी ब्रह्माणं प्रययौ संस्कृता सता ।जगाद श्लोकान् सन्तुष्टा नत्वा श्रीवेधसं गुरुम् ॥९९॥ 'धन्या वै साधवो लोके शीलिनो रागवर्जिताः ।अमायिका दिव्यरूपाः पापनाशो यदाश्रयात् ॥१००॥तीर्थानां कामधेनूनां सतीनां च तपस्विनाम् ।विप्राणां यानि पापानि तानि नश्यन्ति साधुषु ॥१०१॥पितॄणां च सुराणां च महर्षीणां च योषिताम् ।देहिनां यानि पापानि तानि नश्यन्ति साधुषु ॥१०२॥राज्ञां रक्षसां यक्षाणां भूतानां याम्यवासिनाम् ।असद्गतीनां पापानि नश्यन्त्येव हि साधुषु ॥१०३॥कामिनां क्रोधिनां चापि लोभिनां मोहिनां तथा ।घातिनां यानि पाद्यानि तानि नश्यन्ति साधुषु ॥१०४॥हत्यानां पशुमाराणां क्रूराणां प्राणरोधिनाम् ।विश्वासहणां पापानि नश्यन्त्येव हि साधुषु ॥१०५॥गणिकानां पुंश्चलीनां ध्वजिनां चक्रिणां तथा ।शस्त्रिणां चापि वैद्यानां नश्यन्त्यघानि साधुषु ॥१०६॥श्रितघ्नानां बालघ्नानामग्निदानां विषादिनाम् ।विषदानां वनघ्नानां नश्यन्त्यघानि साधुषु ॥१०७॥इत्युक्त्वा प्रययौ गोष्ठं लक्ष्मि! सुरभी सुव्रता ।पठनाच्छ्रवणादस्य नश्येयुः पापकोटयः ॥१०८॥इति श्रीलक्ष्मीनारायणीयसहितायां तृतीये द्वापरसन्ताने गवाराधननामव्रतं गोशकृन्मूत्रयोर्लक्ष्मीवासो गोदानविविधफलानि प्रेतोद्धारकाणि साध्वाश्रयः सर्वोद्धारकश्चेत्यादिनिरूपणनामा द्व्यधिकशततमोऽध्यायः ॥१०२॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP