संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ३३ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ३३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३३ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु लक्ष्मि! ततश्चापि प्राकट्यं मम वच्मि ते ।वेधसो वत्सरे चत्वारिंशे कल्पेऽष्टमे तथा ॥१॥मनौ च दशमे प्रान्तद्वापरे भूतलेऽभितः ।कालबलेन धर्मस्य नैर्बल्ये पापिदेहिषु ॥२॥अधर्मस्य बले व्याप्तेऽसुराणां बलवर्धने ।प्रजास्त्वासन् पीडिता वै मखा रुद्धाः समन्ततः ॥३॥दानं दया दमाद्याश्च सर्वथा विलयं गताः ।अहिंसा सत्यमस्तेयं दृश्यन्ते नैव भूतले ॥५८॥शौचं तपो व्रतं चेति नष्टान्यति प्रजासु वै ।दृश्यते नोपकारित्वं शीलं नैव च नैव च ॥५॥बाधन्ते दुर्बलान् सर्वे बलिश्चोपभुंजते ।तत्स्मृद्धीस्ते प्रसह्यैवाऽप्यपहरन्ति सर्वशः ॥६॥दैत्यानां दानवानां चाऽसुराणां कोटयो भुवि ।सर्वत्रैवाऽवलोक्यन्ते तीर्थयात्रा लयं गता ॥७॥मर्यादा नरनारीणां राक्षसैर्हि विनाशिता ।सर्ववर्णाः स्वतन्त्राश्च धर्मन्यायविवर्जिताः ॥८॥देवानामर्हणं सर्वं सर्वथैव लयं गतम् ।बालाऽनाथाऽतिथीनां च पालनं विलयं गतम् ॥९॥नास्तिक्यं सर्वकार्येषु सर्वधर्मेषु चाऽभवत् ।वृद्धानां चावमानादि धार्मिकाणां प्रपीडनम् ॥१०॥आसुरैः सर्वथा लोके कृतं त्वभक्ष्यभक्षकैः ।अपेयपानकैश्चाप्यकार्यैर्जुगुप्सितैरपि ॥११॥नृपाः सर्वे दैत्यवंशा आचार्या दैत्यवंशिनः ।गुरवोऽपि दैत्यवंशा सम्बभूवुर्यदा क्षितौ ॥१२॥दैवं पैत्र्यं तथा स्वर्ग्यं सर्वं लयं गतं द्रुतम् ।तदा देवैश्च ऋषिभिर्मानवैर्धर्ममानसैः ॥१३॥आराधितः स्वयं श्रीमत्परमेश्वर एव ह ।अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ॥१४॥ज्ञानविष्णुगृहे पुत्रस्वरूपोऽहं तदाऽभवम् ।सुदर्शनेन सहितश्चक्रनारायणः प्रभुः ॥ १५॥माता मे वेदिनी चाऽऽसीत् तत्कुक्षेः प्रकटोऽभवम् ।तदा त्वं मन्निदेशेन राजकन्याऽभवः शुभा ॥१६॥सार्वभौमस्य नृपतेर्ब्रह्मचित्रधरस्य वै ।राज्ञ्याः शोभालिकानाम्न्याः कुक्षौ सुधाक्षिणी तदा ॥१७॥सुधाक्ष्यास्ते पिता चक्रे सम्राट् स्वयंवरं तव ।महोत्सवं ततस्तत्र राजानोऽसुरपुङ्गवाः ॥१८॥त्वदाशयाऽऽययुः सर्वे सम्राजः खण्डगास्तथा ।परखण्डगताश्चापि वैमानिका बलोत्कटाः ॥१९॥अहं वैश्यो ज्ञानविष्णोः सुतश्चक्रसमन्वितः ।ययौ स्वयंवरे तत्र रूपैश्वर्यगुणान्वितः ॥२०॥त्वं मां विलोक्य सर्वास्तान् विहाय परमेश्वरी ।सभामध्ये ददौ मालां मम कण्ठेऽतिशोभनाम् ॥२१॥अथ राजन्यवर्गास्ते क्रुद्धा युद्धार्थमुत्थिताः ।मया सुदर्शनेनैवाऽयुतभूपा निपातिताः ॥२२॥साधारणानां संख्या न दैत्याः सर्वे हता मया ।दानवा निहताश्चाप्यसुराः सर्वे निपानिताः ॥२३॥पिता ते रक्षितस्त्वेको भक्तो मे सोऽभवत्ततः ।राज्यं निजं सुधाक्षिण्यै दत्तवान् पुत्रवर्जितः ॥२४॥मया सर्वं कृतं राज्यं सहस्रवत्सरं ततः ।धर्माः संस्थापिता लोके प्रजासु देवपितृजाः ॥२५॥मर्यादा दानयज्ञानां स्थापिता च पुनर्मया ।अनादिश्रीचक्रनारायणेन सर्वजिष्णुना ॥२६॥स्मर नारायणीश्रि! त्वं साम्राज्यं तव वै तदा ।जानाम्यहं हि तत् सर्वं नान्ये जानन्ति केचन ॥२७॥पठनाच्छ्रवणाच्चापि भुक्तिर्मुक्तिर्भवेद् ध्रुवम् ।अन्येऽवताराः शतशो धर्मरक्षाकरा मम ॥२८॥जातास्तदानीं बहुधा देवमानवसिद्धजाः ।धर्मरक्षाकरा मुक्तिप्रदास्तान् पद्मजे! स्मर ॥२९॥अथापि वेधसस्त्वेकचत्वारिंशे तु वत्सरे ।अध्वराख्ये त्रिपञ्चाशत्कल्पे मनौ तु सप्तमे ॥३०॥सप्तषष्ठितमे चापि कलौ प्राकट्यमेव मे ।अभवत्तच्छृणु श्रि! त्वं परब्रह्मण एव ह ॥३१॥कलेर्बलेऽतिसंव्याप्ते जने म्लेच्छमये तथा ।एकाकारे सर्वलोके वर्णाश्रमविवर्जिते ॥३२॥वितस्तिमात्रदेहे च पृथ्वीविवरमन्दिरे ।तृणमूलादने लोके दैवपैत्र्यविवर्जिते ॥३३॥कुटुम्बलोपे सर्वत्र स्वार्थसम्बन्धमात्रके ।यथेष्टयुगले लोके मम भानविवर्जिते ॥३४॥उपद्रवाधिके चाल्पसुखे चाश्रयवर्जिते ।जाते च सत्यधर्माणां स्थापनार्थं स्वयं हरिः ॥३५॥प्रादुरभवं भूमौ वै भक्तस्य पुत्रतां गतः ।नाम्ना द्रावणविप्रस्य चतुर्भुजः स्वयं प्रभुः ॥३६॥त्वं तदा ब्रह्मवर्चस्था मम देहे स्थिता सदा ।अभवोऽदृश्यरूपा श्रीर्विजयाख्या मया सह ॥३७॥आसुराणां विनाशार्थं गरुडः संस्मृतो मया ।रथो दिव्यो गजाश्चापि चतुर्दन्ताः सितप्रभाः ॥३८॥आयुधानि समस्तानि गदाखङ्गशराऽसयः ।धनुश्शक्तिवज्रचक्रप्राशतोमरकुन्तलाः ॥३९ ॥अस्त्रशस्त्रधरश्चाऽहं त्वया विजयया सह ।जैत्रं रथं समास्थाय गारुडध्वजमूर्ध्वगम् ॥४०॥हस्तिवाह्यं व्योमगं च युयुधेऽसुरकोटिभिः ।नाशिताश्च नृपाः पूर्वं म्लेच्छा दैत्येश्वरा बलाः ॥४१॥दानवेशाश्चासुरेशास्ततो म्लेच्छप्रजादिकाः ।मया च रक्षितास्तत्र संग्रामे शरणागताः ॥४२॥कृतास्ते पाययित्वाऽम्भो पादयोर्ब्राह्मणाः पुनः ।निष्कासिताश्च ते सर्वे मत्प्राकट्यानलान्तरात् ॥४३॥पाविताश्च कृताः कायाकल्पिता द्विजकोटयः ।स्थापितास्तेषु सर्वेषु धर्मा मे सत्यसंभवाः ॥४४॥ममाऽस्तित्वबलेनाऽपि भूतानि सात्त्विकानि वै ।संभूतानि समस्तानि नरा नार्योऽतिसात्त्विकाः ॥४५॥सत्यधर्मपराः सर्वे संभूता मत्प्रभावतः ।पवनाऽनलवार्भूमिव्योमाद्याः सत्त्वतां गताः ॥४६॥वृक्षवल्लीतृणाद्याश्च रसपूर्णास्तदाऽभवन् ।विप्राः कृता हि राजानो यशाश्चापि प्रवर्तिताः ॥४७॥आस्तिक्यं दानधर्माश्च विवाहाश्च प्रवर्तिताः ।साधुसाध्वीजनाश्चापि सन्तः सिद्धाः शुभाः कृताः ॥४८॥तिष्यो विनाशितश्चापि सत्यः संस्थापितो मया ।देवाश्च रक्षिता सर्वे ऋषयः स्थापिताः पुनः ॥४९॥मन्दिराणि कारितानि होमशाला विधापिताः ।सत्यत्रेतायुगकालमवसं भूतले तदा ॥५०॥स्मर लक्ष्मि! तदा चमत्कारं मम पुरातनम् ।अनादिश्रीसत्यनारायणं श्रीविजयान्वितम् ॥५१॥परब्रह्म स्वयं सत्यस्थापकं चावतारिणम् ।अनादिश्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ॥२२॥एवमन्येऽप्यवतारास्तत्र तत्र सहस्रशः ।मम जातास्तु तान् सर्वान् जानाम्यहं न चेतरः ॥५३॥पठनाच्छ्रवणादस्य सत्यधर्माश्रितो भवेत् ।भुक्तिर्मुक्तिर्भवेच्चापि यथेष्टफलवान् भवेत् ॥५४॥अथाऽन्यन्मम दिव्यं च प्राकट्यं कथयामि ते ।ब्रह्मणो द्वाचत्वारिंशाऽब्दे हिरण्याभिधानके ॥५५॥कल्पे नवतिसंख्ये चाऽऽरम्भे चाद्यमनोस्तथा ।पृथ्व्यां द्वादशखण्डानां विभाजकास्तु पर्वताः ॥५६॥सपक्षाश्च स्वतन्त्राश्च तथाऽन्ये द्वीपपर्वताः ।चेतनाः सबला मूर्ताः स्थानार्थं वादमादधन् ॥५७॥अहं मेरोः सन्निधाने निवत्स्यामि न दूरतः ।अहं चाऽह तथेत्येवमन्योन्येषां विवादनम् ॥५८॥अभवद् बलिनस्तत्र ये चासेस्ते तु वै बलात् ।इष्टस्थलेष्ववसँश्च परे याता मनुं प्रति ॥५९॥स्वस्वकष्टनिवेदार्थं मनुनाऽऽहूय बोधिताः ।तथापि मेनिरे नैव बलिष्ठास्ते मनोर्वचः ॥६०॥अथेन्द्राय ददावाज्ञां वज्रधराय शिक्षणम् ।पर्वतेव्यः प्रदातुं चान्यथा दण्डयितुं नगान् ॥६१॥इन्द्रस्त्वागत्य भूभागे मेरौ मेरोः समीपतः ।पर्वतान् मूर्तरूपाँश्चाऽऽहूय जगाद तद्धितम् ॥६२॥ब्रह्मणा निर्मिता यूयं पृथ्वीस्थैर्यस्य हेतवे ।खण्डविभागकार्याय रत्ननिधानहेतवे ॥६३॥प्रजारक्षणकार्याय खण्डप्राकारहेतवे ।ये ये यत्र नियुक्तास्ते तत्र तत्रैव सर्वथा ॥६४॥निवसन्तु नान्यथा वै हितं मे वचनं यतः ।अन्यथा भवतां पक्षान् शातयित्वा बलादहम् ।वज्रेण सर्वथा युष्मान् पातयिष्ये यथास्थलम् ॥६५॥इत्येवं गर्वयुक्तं वै श्रुत्वेन्द्रवाक्यमुल्बणाः ।पर्वतास्तूर्णमेवैते समुत्पेतुर्विहायसा ।सर्वे बलिनो गर्विष्ठाः स्वेच्छारूपधरास्तदा ॥६६॥ग्रहतुल्या महेन्द्रस्योपरि निपेतुरेव ह ।इन्द्रस्तु मर्दितस्तत्र मृतप्रायो बभूव ह ॥६७॥वज्रं वज्रधरस्यापि नष्टं चूर्णं बभूव च ।इन्द्रबलं हतं दीर्घभूभृद्भिश्चूर्णितं तदा ॥६८॥कच्चरिताः सुराद्याश्च पलायनं प्रचक्रिरे ।भूभृतो व्योमगाश्चापि युद्धं चक्रुः सुरैः सह ॥६९॥पृथ्वी भारेण हीना च समतौल्यं विहाय सा ।महाजलतलं गन्तुं पार्श्वनिम्ना बभूव ह ॥७०॥अथोत्पाता बभूवुश्च ग्रहाणामपि सर्वतः ।वायूनामपि चाऽस्थैर्यं पर्वतैश्च कृतं ह्यभूत् ॥७१॥गगनं कम्पते सर्वं समण्डलं लये यथा ।पृथिव्याः रक्षणं स्थैर्यं पर्वतस्थैर्यलम्बितम् ॥७२॥पृथ्वीस्थैर्ये ततो मेरोः स्थैर्यं ध्रुवस्य चापि वै ।सत्येवं स्वर्गलोकानां स्थैर्यं सुखं भवेदिति ॥७३॥विचार्य सहसा ब्रह्मा रुद्रो विष्णुश्च देवताः ।महान्तो नम्रभावाश्च सान्त्वनायुक्तबोधिनः ॥७४॥बोधयामासुरेवैतान् पर्वतान् बहुधा तदा ।नियुक्तस्थानवासार्थं तथाप्येते न मेनिरे ॥७५॥हिरण्यकः कानकश्च राजतो रात्नकस्तथा ।माणेयश्च वैष्णवश्च हैमेयश्च दिगीशकः ॥७६॥भैरवश्च महेन्द्रश्च तथोदयनपर्वतः ।आरुणश्च महाभश्च लोकालोकश्च मेरुकः ॥७७॥एवमन्ये महारौद्रा मेनिरे न तदा सुराः ।पर्वतानां महाक्लेशप्रशमाय नरायणम् ॥७८॥परमेशं ह्यनादिश्रीकृष्णनारायणं हरिम् ।सस्मरुस्तूर्णमेवाऽहं शंखचक्रगदाधरः ॥७९॥परब्रह्म स्वयं तत्राऽऽजगाम तूर्णमेव ह ।सुदर्शनं धृतं चक्रं गदा पृथ्व्यां धृता मया ॥८०॥यत्र चोर्ध्वाऽभवत् पृथ्वी तत्राऽपेक्षितवत्ततः ।समतोलाऽभवत् सा च रक्षिताऽऽयुधभारतः ॥८१॥पर्वतांश्च समाहूय वरदानेन ते ततः ।योजिताश्च मया लक्ष्मि! मम वासकृता हि ते ॥८२॥ये मयोक्तेषु देशेषु स्थास्यन्ति पर्वताः क्षितौ ।तत्र तत्राऽहमेवापि स्थास्ये श्रीपुरुषोत्तमः ॥८३॥ततस्ते पर्वतास्तूर्णं मम वाक्यं समाश्रिताः ।मेरुमध्ये च परितो लोकालोको विधापितः ॥८४॥चतुष्कोणेषु चत्वारो लम्बा समुद्रगाः कृताः।हिरण्यकोऽग्निकोणे च कानको निर्ऋतेऽक्वके? ॥८५॥राजतश्च मरुत्कोणे रत्नकश्चेशकोणके ।पूर्वे चोत्तरदक्षावायतौ माणेयवैष्णवौ ॥८६॥दक्षिणे प्राक्पश्चलम्बौ हैमेयश्च दिगीशकः ।पश्चिमे चोत्तरदक्षौ मैरवश्च महेन्द्रकः ॥८७॥उत्तरे चारुणो महाभश्चायतौ निवेशितौ ।पूर्वाऽब्धौ निहितश्चाप्युदयनः सर्वभाऽन्वितः ॥८८॥एवमन्ये पर्वताश्च मध्ये मध्ये निवेशिताः ।अथ ते प्रार्थनां चक्रुः पक्षनाशो हि नो न वै ॥८९॥भवेदिति मयोक्तं च सपक्षाः सन्तु वै स्थिराः ।यद्याकाशे गतिमन्तो भविष्यथ तदा ह्ययम् ॥९०॥महेन्द्रो वज्रधारेण शातयिष्यति पक्षकान् ।ततस्ते स्थैर्यमापुश्च स्वस्वस्थाने यथासुखम् ॥९१॥अथ देवादयः सर्वे पूजयित्वा च मां ययुः ।निजलोकान् पर्वतेषु निवासं च त्वया सह ॥९२॥व्यधापयं बहुरूपधरो रक्षाकरः प्रभुः ।आकल्पान्तं न्यवसं वै त्वया हिरण्यया सह ॥९३॥अनादिश्रीहिरण्यश्रीनारायणः पुमुत्तमः ।वाग्बद्धोऽहं पर्वतेषु न्यवसं बोधयन् सुरान् ॥९४॥मानवानपि पितॄँश्च महर्षीन् व्योमचारिणः ।अथ स्थिराऽभवत् पृथ्वी पर्वताः सुखिनोऽभवत् ॥९५॥निर्भया मम वासेन प्रजाश्च सुखितास्तथा ।अनादिश्रीहिरण्मयनारायणं परं प्रभुम् ॥९६॥स्मर नारायणीश्रि! त्वं त्वां हिरण्यां तथा स्मर ।एवमन्येऽप्यवतारा देवमानवजन्तुषु ॥९७॥कार्यापेक्षा अभवँश्च तान् जानामि समस्तकान् ।पठनाच्छ्रवणाच्चापि भुक्तिर्मुक्तिर्भवेच्छुभा ॥९८॥मम स्मर्तुर्गृहे वासो नित्यदा मम जायते ।यत्र मे भावयुक्ताश्च भक्ता वसन्ति तत्र च ॥९९॥वसाम्येव न सन्देहो पर्वते च वनेऽपि च ।गृहे प्रासादके चापि महालये जलेऽपि च ॥१००॥मम भक्तस्य रक्षार्थे पुष्ट्या रक्षार्थमित्यपि ।देवानां चापि लोकानां सृष्टेः रक्षार्थमित्यपि ॥१०१॥निवसामि स्थलं कृत्वा तद्रूपोऽमानवोऽपि सन् ।यत्र वसामि तत्रैव धामाऽक्षरं ममाऽस्ति च ॥१०२॥मुक्ताश्चायान्ति तत्रैव सर्वे तत्र प्रपद्यते ।मायिका नैव पश्यन्ति पश्यन्ति दिव्यचक्षुषः ॥१०३॥सिद्धा मुक्ताः साधवश्च सन्तः सन्यासिनोऽमलाः ।साध्व्यः सत्यश्च भक्तांश्च पश्यन्ति मज्जनिं प्रिये! ॥१०४॥ इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसश्चत्वारिंशे वत्सरे दैत्यानां नाशार्थम् अनादिश्रीचक्र- नारायणस्य सुधाक्षिणीश्रीसहितस्य, एकचत्वारिंशे वत्सरे च सत्ययुगधर्मस्थापनार्थम् अनादिश्रीसत्यनारायणस्य विजयाश्रीसहितस्य, द्वाचत्वारिंशे वत्सरे च पर्वतानां स्थित्यर्थम् अनादिश्रीहिरण्यनारायणस्य हिरण्याश्रीसहितस्य प्राकट्यमित्यादिनिरूपणनामा त्रयस्त्रिंशोऽध्यायः ॥३३॥ N/A References : N/A Last Updated : May 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP