संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः २२५ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः २२५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २२५ Translation - भाषांतर श्रीपुरुषोत्तम उवाचशृणु नारायणीश्रि त्वं रत्नप्रभेति नामिनः ।खरपालस्य भक्तस्य कथां मोक्षपदां शुभाम् ॥१॥लूणीनदीतटे लूणीनगर्याँ क्षत्रियोत्तमः ।रत्नप्रभाभिधश्चासीत् सहस्रखरपालक: ॥२॥लम्बकर्णैः करोत्येव धान्यादीनां प्रणायनम् ।देशाद् देशान्तरं ग्रामाद् ग्रामान्तरं पुनः पुनः ॥३॥श्रेष्ठिनां च नृपादीनां व्यापारान् गर्दभैः स तु ।करोत्यानयनं चापि नयनं श्रममूल्यतः ॥४॥एवं धान्यानि बहूनि पात्राणि समिधस्तथा ।अरण्यात् क्षेत्रखलतो नगरान्नगरान्तरात् ॥५॥ग्रामान्तरं ग्राममध्यं प्रापयत्येव गर्दभैः ।श्रममूल्यं ग्रहीत्वैव गृहयात्रां दधाति वै ॥६॥अथैकदा स गोधूमान् सहस्रद्वयकोष्ठली: ।खरपृष्ठेषु नीत्वैव ळूणीग्रामाद् विनिर्ययौ ॥७॥चत्वारिंशत्खरपालैर्भृत्यैर्युतश्च निर्भयः ।युद्धपुरीं राजधानीं ययौ सूर्यातपे दिने ॥८॥मार्गे तु गच्छतस्तस्य श्रमोऽभवत्तदातपे ।गर्दभानां श्रमोऽप्येवं विदित्वा श्रान्तिमालभत् ॥९॥तरुषण्डे जलनालीपार्श्वे घटीद्वयं हि सः ।तत्र वै वसति साधुमण्डळं वन्यनिर्भरम् ॥१०॥रत्नप्रभस्तथा चान्ये पाययित्वा जलं खरान् ।रोटकाद्यशनं कृत्वा साधूनामग्रतो ययुः ॥११॥नत्वा जयश्रीरामेति समुच्चार्य पुरः स्थिताः ।साधवः स्वागतं चक्रुराशीर्वादान् ददुस्तदा ॥१२॥गमनागमने ज्ञात्वा ज्ञात्वा व्यापारजं श्रमम् ।हितार्थे द्यया प्राहुर्नारायणाश्रयं शुभम् ॥१३॥साधुवर्यो नरसिंहस्वामीति साधुसेवितः ।उपादिदेश सर्वेभ्यो घटिकामात्रमच्युतम् ॥१४॥अहो सर्वे कृतं लोके न कृतं कृष्णसेवनम् ।तर्हि सर्वे निष्फलं वै गर्भस्येव हि देहिन: ॥१५॥यथा चन्दनभाराढयः खरो भारं प्रवेत्ति वै |सुगन्धं नैव वेत्तीति तदानन्दविवर्जितः ॥१६॥तथा श्रमपरो लोके कृष्णभक्तिविवर्जितः ।भारवेत्ता न तु चात्मरसवेत्ता निगद्यते ॥१७॥द्वयोः श्रमवहत्वेन खरमानवयोर्नहि ।विशेषो दृश्यते तत्र मानवः खरवद्धि स: ॥१८॥कुळालस्य वशं यान्ति रासभा: पशवो यथा ।स्वकर्मणां वशं यान्ति कुलालाः पशवोऽपरे ॥१९॥भक्तिहीना धर्महीनाः पुरुषार्थविवर्जिताः ।दानपुण्यविहीनास्तु मानवा रासभा इव ॥२०॥तीर्थसेवाविहीनाश्च स्नानपूजाविवर्जिताः ।साधुसेवादिरहिता मानवा रासभा इव ॥२१॥आत्मकल्याणहीनाश्च संसक्ता रासनादिषु ।शिश्नोदरतृपा लोके मानवा रासभा इव ॥२२॥कुटुम्बभारवोढारः श्रेयोमार्गविहीनकाः ।विषयघासग्रासाश्च मानवा रासभा इव ॥२३॥मर्यादाशून्यवर्त्मानः पितृसेवाविवर्जिताः ।सर्वात्मबुद्धिहीनाश्च मानवा रासभा इव ॥२४॥आहारमात्रयत्नाश्च तपोव्रतविवर्जिताः ।भस्मावगुण्ठा निर्वस्त्रा मानवा रासभा इव ॥२५॥उपासनालेशशून्याः पञ्चदेवेषु नास्तिकाः ॥गुरौ पूज्यत्वरहिता मानवा रासभा इव ॥२६॥गृहिणोऽपि श्राद्धहीना यज्ञनैवेद्यवर्जिताः ।व्यवायपरमा लुब्धा मानवा रासभा इव ॥२७॥चतुष्पदा बालपुच्छा भोगस्थानाभिवृत्तयः ।देवस्मरणहीनाश्च गृहिणो रासभा इव ॥२८॥अश्लीलश्रवणे लम्बकर्णाः क्लेशे विराविणः ।धावमाना विषयार्थे गृहिणो रासभा इव ॥२९॥अशान्ता विषयैर्वातैश्चरन्तो मायिकच्चरान् ।क्षपयन्ति वृथाऽऽयुष्यं गृहिणो रासभा इव ॥३०॥साधुतीर्थे स्नानवन्तो ह्यपि शास्त्रजळप्ळुताः ॥अमाहात्म्यविदश्चाज्ञा लुठन्ति पाप भस्मसु ॥३१॥सत्सु सप्तसु पुत्रेषु गर्दभी भारवाहिनी ।सत्सु सत्सु तारकेषु गृहिण्यो भारवाहिकाः ॥३२॥सत्सु सप्तसु पुत्रेषूष्ट्रस्य भारो न हीयते ।सत्सु गृहिषु पुत्रेषु पितुर्भारो न हीयते ॥३३॥उष्ट्रस्य जरठस्यापि शतक्रोशप्रधावनम् ।वृद्धस्य मानवस्यापि शताऽऽक्रोशप्रधावनम् ॥३४॥चरति रासभो ग्रामे चरति मानवो गृहे ।चरति न हरौ क्वापि को भेदो गर्दभे नरे ।३५॥लम्बगलः सदोष्ट्रोऽस्ति खाद्ये लम्बगलो नरः ।साम्याहारे नरे चोष्ट्रे को भेदो भक्तिवर्जिते ॥३६॥ताडनं लकुटैर्नित्यमेकस्याऽन्यस्य वाचिकैः ।अचिन्तकौ दुःखहानेः को भेदो मानवे खरे ॥३७॥खरे खश्चेन्द्रियार्थश्च तानि रlतीति वै खरः ।नरे नो नारायणार्थस्तं रातीति नरः स्मृतः ॥३८॥नारायणं नरस्त्यक्त्वा नरकं चेत् समृच्छति ।खरे नरे च को भेदो नखशफादिदेहजः ॥३९॥गतिश्चानर्गला यस्य खरस्य च नरस्य च ।अमर्यादा कर्मणां च को भेदो वै खरे नरे ॥४०॥स्नाति चेन्न नरः खरो नैव स्नाति कदाचन ।गृणाति न हरेर्नाम नरः खरः स एव सः ॥४३॥तस्मात् प्रातः समुत्थाय स्नात्वा रटेन्नरायणम् ।पूजयेत्परमात्मानं भोजयेच्छ्रीपतिं प्रभुम् ॥४२॥ततो भुञ्जीत पुण्यं तत्प्रसादं च जलं पिबेत् ।सेवेत साधुपुरुषान् भजेत श्रीहरिं सदा ॥४३॥अभ्यासं विदधीतापि नामसंकीर्तनस्य वै ।स्वप्ने जाग्रति सुप्तौ च कृष्णमूर्तिं विभावयेत् ॥४४॥इन्द्रियाणां बहिर्वृत्तिमत्त्वे जाग्रत् प्रकीर्तितम्।तदा बाह्ये हरेर्मूर्तिर्द्रष्टव्या साधवोऽपि च ॥४५॥बाह्यैः सर्वप्रयत्नैश्च सेवनीया हि साधवः ।विवेकेन सेवनीयाः सत्त्वप्रधानजाग्रति ॥४६॥भ्रान्त्याऽपि ते सेवनीया रजःप्रधानजाग्रति ।शोकश्रमादिना सेव्यास्तमःप्रधान जाग्रति ॥४७॥इन्द्रियाणां वृत्तयस्तु हृदयं कण्टमाश्रिता: ।गोळकाऽनागताः सैषा स्वप्नावस्था हि निद्रिता ॥४८॥विवेकेन तदा स्वप्ने सेवनीया ह्रि साधवः ।तदा हरिः सेवनीयः स्वप्ने सत्त्वप्रधानके ॥४९॥भ्रान्त्या बुद्धया सेवनीयाः स्वप्ने रजःप्रधानके ।शोकश्रमादिना सेव्याः स्वप्ने तमःप्रधानके ॥५०॥वृत्तीनां हृदये मनाग् वासश्चार्धसुषुप्तिका ।क्षणं समानसेवा वै कर्तव्याः सत्त्वसुप्तिके॥५१॥क्षणं विभ्रान्तसेवा तु कार्या राजससुप्तिके ।क्षणं लयार्पणसेवा कार्या तामससुप्तिके ॥५२॥अर्थाल्लयोऽपि कृष्णे तत्सत्सु भ्रमणमित्यपि ।मनाग् भानं हरी सत्सु नान्यत्र मायिके तदा ॥५२॥तत आत्मनि परमे सर्वलयः सुषुप्तिका ।आत्मन: श्रीहरौ चैक्यं तुर्यपदं सुषुप्तिका ॥५४॥तद्भोगस्तद्रतिस्तस्मिन् चेतनार्पणमित्यपि ।आनन्दार्पणमेवापि जीवनार्पणमित्यपि ॥५५॥प्राणार्पणं तथा सर्वसंस्कारार्पणमित्यपि |सर्वभोगार्पणं पूर्णसुषुप्तिः सा हरौ सदा ॥५६॥कर्तव्या भगवद्भक्तैर्यत्र ब्रह्मसुखं महत् ।अहन्ताममतानाशः कर्तृतावेतृतालयः ॥५७॥हरौ नारायणे विष्णौ वासुदेवे निजात्मनः ।तदा हरिः परब्रह्माऽन्तर्यामी कर्मदर्शकः ॥५८॥द्रष्टा भवति चात्मस्थस्तुर्यपदं परं हि तत् ।तत्रापि भगवान् सेव्यः समाधाविव तुर्यके ॥५९॥सन्तस्तथा सेवनीया मूर्तौ लीना हि तुर्यके ।धामदृष्टया धामशक्त्या धामेन्द्रियैश्च तेजसा ॥६०॥धामक्रियाभिर्भगवान् सेवनीयो निजात्मना ।ब्रह्मात्मना परब्रह्म सेवनीयः परे पदे ॥६१॥दिव्यया चैकरसया तन्वा ब्राह्मया नरायणः ।सेवनीयस्तदा तुर्यपदॆ निजात्मना श्रियः ॥६२॥एषा मोक्षस्थितिश्चात्र धाम्नो मोक्षेण मिश्रिता ।आनन्दनीया सा कृष्णेऽनादिश्रीकृष्णवल्लभे ॥६३॥सर्वावस्था अर्पणीया नारायणे परेश्वरे ।बाल्यं च यौवनं वार्धक्यं च देयं परात्मनि ॥६४॥नारीत्वं व नरत्वं च देयं वै परमात्मनि ।कन्यात्वं व कुमारत्वं दम्पतीत्वं वनित्वकम् ॥६५॥यतित्वं मरणं चापि समर्पणीयं माधवे ।विमर्शश्च तथा बिन्दुर्नादो ध्वनिः पदानि च ॥६६॥परा ह्यपरा पश्यन्ती मध्या वैखरिकेति च ।अर्पणीया हरौ सर्वा ब्रह्मजा ब्रह्ममूर्तयः ॥६७॥परा वाणी समस्ता या ब्रह्मवर्णनरूपिणी !कृष्णस्य च सतां वार्ता कीर्तनगायनात्मिका ॥६८॥हरेर्लीला चरित्राणां वर्णनं भक्तिवर्णनम् ॥वर्णनं चाऽवताराणां प्रशंसा तत्सतामपि ॥६९॥भक्तानां वर्णनं चापि परा वाणी निगद्यते ।मोक्षदा दिव्यशब्दा या सर्वा परा प्रकीर्तिता ॥७०॥अर्पणीया हरौ सापि हरेः प्रीतिकरी सुखा ।अथान्या लोकविषया व्यवहारनियोजिका ॥७१॥यथार्था सत्यरूपा च ऋतफलाऽपि पुण्यदा ।पश्यन्ती सा सदा वाणी चार्पणीया हरौ सदा ॥७२॥ईश्वराणां च देवानामृषीणां सा सदा मता ।सत्त्वप्रकाशसुखदा चार्पणीया परेश्वरे ॥७३॥अथाऽन्याऽर्थपरा याऽपि निन्दाप्रशंसनात्मिका ।लोकस्वार्थसाधना च भ्रान्तिविपर्ययांऽशजा ॥७४॥मध्या सा भारती पुण्यापुण्यफलाऽफलप्रदा ।अर्पणीया हरौ कृष्णे सर्वथा भक्तिशालिना ॥७५॥अथेतराऽर्थशून्या वा दुष्टार्थोद्वेगकारिणी ।निकृष्टा प्राकृती वाणी वितण्डा निष्फलोभया ॥७६॥श्रोतुर्वक्तुः फलशून्या भंगमात्रपरायणा ।क्लेशमात्रान्विता सा तु वैखरी चाधमा सदा ॥७७॥सापि कृष्णे चार्पणीया देशकालोदिता यदि ।अथाऽन्या निश्चितैकार्था बह्वर्था चापरा अपि ॥७८॥अस्पष्टार्था च स्पष्टार्था चतुर्धापि सरस्वती !अर्पणीया सदा कृष्णे ततो दिव्या हि मुक्तिदा ॥७९॥पदवाक्यप्रमाणानि देयानि परमात्मनि !न्यायसिद्धिस्वरूपाणि देयानि परमात्मनि ॥८०॥भूतभौतिकतत्त्वानि देयानि परमात्मनि !ध्येयध्यानध्यातृवर्गा देयास्ते परमात्मनि ॥८१॥भोग्यभोगभोक्तुवर्गा देयास्ते परमात्मनि ।भगं भक्तिर्भजमानो देयाः श्रीपरमेश्वरे ॥८२॥ऐन्द्र्यमिन्द्र इन्द्रियाणि चार्पणीयानि माधवे ।नरता वा खरता वा निक्षेप्तव्या हरौ प्रभौ ॥८३॥दिव्या सा तु तदा भूत्वा कुर्यान्नखरतां जने ।नस्य नारायणस्यैव खं दिव्यं व्योम चाक्षरम् ॥८४॥तत्र रतां प्रीतिमेव कुर्यान्नखरतामिति ।एवं लक्ष्मि वोपदिष्टा रत्नप्रभादयस्तदा ॥८५॥नरसिंहस्वामिना वै साधुना हरियोगिना |ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा ॥८६॥दत्वा मन्त्रं कृताः पूता वैष्णवा मम भक्तिगाः ।अथ मत्वा गुरुं देवं नृसिंहस्वामिनं च ते ॥८७॥पूजयामासुरत्यर्थं भोजयामासुरादरात् ।आशीर्वादान् जगृहुश्च तेभ्यः कल्याणकारिणः ॥८८॥साधून्नत्वा ययुर्ग्रामान्तरं रासभपालका: |स्वीयालये ह्युक्तरीत्या हरिं भेजुर्हरे हरे ॥८९॥भजनेन तथा भक्त्या ज्ञानेन गुरुसेवया ।द्रुतं चाहं प्रसन्नश्चाऽभवं रासभपालिनाम् ॥९०॥एकदा रासभं कृत्वा गरुडं रासभे स्थित: |मार्गे तान् यात एवाहमग्रतो मिलितः पुरः ॥९१॥सश्मश्रुः क्षत्रियवेषो यात्रालुरिव शोभनः ।तेभ्यो मया ‘जय कृष्ण ‘जय राम’ जनार्दन ॥९२॥जय नारायण विष्णो जय कृष्णनारायण’ |इत्येवं नामभि: संस्मारितः श्रीपुरुषोत्तमः ॥९३॥नमनं च कृतं शीघ्रमवतीर्य तु रासभात् ।तेऽपि श्रुत्वा हृरेर्नाम प्रसन्ना मिमिळुर्हिं माम् ॥९४॥यथा प्रिया बान्धवा वा पुत्राश्च पितरोऽथवा ।मां निरुद्ध्य निषाद्यापि कम्बलासनके द्रुतम् ॥९५॥जळं फलं तथाऽन्नं व ददुर्मार्गेऽतिहर्षिताः ।पृष्ठवन्तो गृहं मे चागमनं कर्म चेत्यपि ॥९६॥मया दिव्यं परं व्योम गृहं मे दर्शितं तदा ।कर्म नारायणाख्यानं तीर्थार्थागमनं तथा ॥९७॥श्रुत्वा चातिप्रसन्नास्ते लक्ष्मि नारायणं तु माम् ।असेवन्त परं भक्तं ज्ञात्वा हृदांगमर्दनैः ॥९८॥चक्रुस्ते दण्डवञ्चापि मत्वा साधूत्तमं तु माम् ।अथैतेभ्यो मया तूर्णं चतुर्भुजं तु दर्शनम् ॥९९॥गरुडेन सहितं तु दत्तं तत्रैव सत्पथे ।प्रसादं दत्तवाँस्तेभ्यो भक्षितं यत् फलादिकम् ॥१००॥स्कन्धकम्बलवन्तस्ते हस्तयष्टिधरास्तथा |पादेषु चर्मोपानद्वन्तस्ते ननृतुरुत्सुकाः ॥१०१॥मस्तके दीर्घपटका धृतकञ्चुकधोत्रकाः ।ननृतुश्चातिहर्षेण चक्रुर्भूलोटनं मुहुः ॥१०२॥मोक्षं देहि पदं देहि हरे रासभवाहन ।दिव्यं धाम नः प्रदेहि कृष्ण गरुडवाहृन ॥१०३॥एवमुच्चार्य सहसा न्यधुः पादरजो मुखे ।चक्रुर्मे दर्शनं त्वेकतानमुग्धाः समाधिवत् ॥१०४॥तिरोऽभवं ततो लक्ष्मि ते च क्षणान्तरे प्रभाम् ।आसाद्य वर्णयन्तो मां धन्यभाग्यानि मेनिरे ॥१०५॥तत्र मार्गे प्रचक्रुस्ते नारायणस्य वेदिकाम् ।नित्यं भक्तिं प्रचक्रुस्ते लुणीनदीतटे सदा ॥१०६॥प्राप्ते काले गरुडेन सहस्रशोऽपि तानहम् ।क्रमेण नीतवान् धामाऽक्षरं मोक्षपदं रमे ॥१०७॥एवमुद्धारिता भक्ताः साधुयोगेन वै मया ।पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिर्ध्रुवा भवेत् ॥१०८॥इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने भक्तस्य रासभपालस्य रत्नप्रभस्य नृसिंहस्वामिसाधुयोगेन भगवत्प्राप्तिर्मोक्षणं चेत्यादिनिरूपणनामा पञ्चविंशत्यधिकद्विशततमोऽध्यायः ॥२२५॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP