संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ६५ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ६५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ६५ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु त्वं शिवराज्ञीश्रि माहात्म्यं परमेशितुः ।अनादिश्रीकृष्णनारायणस्य गुरुरूपिणः ॥१॥ममैव खलु माहात्म्यं यथावत् प्रवदामि ते ।न च तृप्याम्यहं वक्तुं नारीदयावशंवदः ॥२॥नित्यं सम्पूजयेत् साध्वी मोक्षसौभाग्यकांक्षिणी ।स्नापयेत जलैर्भक्त्या मधुक्षीरघृतेन माम् ॥३॥पञ्चगव्येन सलिलैर्गन्धचन्दनवारिभिः ।चन्दनेन सुगन्धेन कुंकुमेन गुलालकैः ॥४॥अबीरेण तथा काश्मीरेण केसरवारिभिः ।कर्पूरोशीरमिश्रेण लोपयेन्मां द्रवेण च ॥५॥अर्चयेद् रुचिरैः पुष्पैर्गन्धधूपसमन्वितैः ।गुग्गुलं गोघृताक्तं वै ददेन्मे सन्निधौ सती ॥६॥दीपकं च दिवारात्रौ दद्याद् घृतेन सुन्दरी ।नैवेद्यं दुग्धपानादि क्षीरान्नं परमर्पयेत् ॥७॥एवमभ्यर्चयेन्मां च प्रणम्याऽभिप्रणम्य च ।'ओं नमः कृष्णकान्ताय जपेदष्टोत्तरं शतम् ॥८॥जुहुयाच्च घृताभ्यक्तैस्तिलव्रीहियवादिभिः ।तथैव नाम्ना मह्यं वै सर्वमुक्ताभितृप्तये ॥९॥कमलैर्मम चरणौ पूजयेद् भक्तिवर्धिनी ।बिल्वपत्रैर्जानुदेशं पूजयेन्मे विलासिनी ॥१०॥जघनं मे पूजयेच्च राजचम्पकपुष्पकैः ।वक्षो मे पूजयेत्साध्वी स्थलपद्मसुपद्मकैः ॥११॥,मस्तकं पूजयेद् रामा मालत्या वृन्दया तथा ।चन्दनेन समग्रं च शरीरं पूजयेन्मम ॥१२॥देहबुद्धिं परित्यज्य हरिबुद्ध्या प्रपूजयेत् ।सर्वविधां मम सेवां ब्रह्मचर्ययुताऽऽचरेत् ॥१३॥पत्नीभिर्भर्तृवाक्येन कर्तव्यं पूजनं मम ।विधवाभिर्मम वाक्यान्मोक्षसौख्यविवृद्धये ॥१४॥सर्वकामसमृद्ध्यर्थं कन्याभिः पूजनं मम ।सर्वस्मृद्धिप्रलाभार्थं नरैः कार्यं प्रपूजनम् ॥१५॥एतादृशं पूजनं मे मोक्षदं स्मृद्धिदं प्रिये ।नारीविक्रयपापस्य नाशकं पूजनं त्विदम् ॥१६॥पूजा भक्तिः कथिता ते लक्ष्मि श्रेष्ठां च तां शृणु ।मल्लीनचित्ता या भक्तिः सा भक्तिः परमा मता ॥१७॥प्रेमप्रवाहमग्नाया मद्विरहाऽसहिष्णुता ।मत्स्वरूपाकारचित्ता भक्तिः सा परमोत्तमा ॥१८॥उत्तमा चात्मना भक्तिर्मध्यमा मनसा तु सा ।कनिष्ठा वर्ष्मणा भक्तिस्त्रेधा भवति मोक्षदा ॥१९॥मुक्तानामात्मना भक्तिर्योगिनां मानसी तथा ।अज्ञानां देहजा भक्तिस्त्रेधाऽपि मोक्षदा मता ॥२०॥आत्मभक्त्या सुखं श्रेष्ठं मनसा मध्यमं सुखम् ।देहेन वै सुखं स्वल्पं त्रेधा विभिद्यते सुखम् ॥२१॥आत्मना ब्रह्मरूपेण ह्यानन्दः शाश्वतो मम ।मनसा दिव्यभावेन ह्यानन्दो योगसावधिः ॥२२॥देहेन क्रिययाऽऽनन्दो देहक्षणाद्यपेक्षकः ।स्वार्थानन्दपरा भक्तिस्तामसी मम सा मता ॥२३॥उभयानन्दगर्भा सा राजसी भक्तिराच्युती ।हर्यानन्दपरा भक्तिः सात्त्विकी स्वार्थवर्जिता ॥२४॥गुरोर्भक्तिर्हरेर्भक्तिस्तादात्म्येन कृता यदि ।शीघ्रं सा फलदा लक्ष्मि साक्षाद्गुरुर्हि वै हरिः ॥२५॥भक्तिमत्याः स्त्रिया नित्यं शान्तिं कुर्वन्ति देवताः ।क्षेमं कुर्वन्ति शंभ्वाद्याः स्वस्ति यच्छन्ति साधवः ॥२६॥पुण्यं यच्छन्ति ऋषयश्चाशीर्वादपरायणाः ।शुभं यान्ति ग्रहाश्चापि शुभं यान्ति पिशाचकाः ॥२७॥राक्षसाश्च शुभं यान्ति प्रसन्ना मुनयोऽपि च ।लक्ष्मीः स्थिरा गृहे तस्यातिष्ठत्येव सदा शुभा ॥२८॥रसास्तिष्ठन्ति तस्या वै मधूनि मन्दिरे यथा ।मिष्टामृतानि तिष्ठन्ति सुधा भक्तियुतागृहे ॥२९॥पीयूषाणि समस्तानि तिष्ठन्ति च महोत्सवाः ।सर्वविधानि स्वर्गाणि तिष्ठन्ति भक्तियुग्गृहे ॥३०॥भक्तिमती सदा नारी राधा लक्ष्मीर्मता मम ।शारदा कमला कान्ता श्रीः पद्मा सा मता मम ॥३१॥या कापि जातिसम्पन्ना भजते मामनन्यगा ।सा ममैव प्रिया भक्ता मोक्षे मुक्तानिका भवेत् ॥३२॥यस्या दर्शनमात्रेण ब्रह्महा अपि शुद्ध्यति ।तद्गृहं सर्वतीर्थानां वासरूपं वरं मतम् ॥३३॥यत्र भक्तैतादृशी स्यान्नारी नारायणी शुभा ।इयं सा कमलामूर्तिर्भक्ता वै पापहारिणी ॥३४॥कैवल्यफलदा सा वै यथा गंगा रमा यमी ।तिष्ठत्येतादृशी भक्ता यत्स्थाने यत्र मन्दिरे ॥३५॥यत्कुले भूतले वापि सर्वं मोक्षप्रदं हि तत् ।किमत्र बहुनोक्तेन भक्ता रमा रमा हि सा ॥३६॥रमां मत्वा मम भक्तां या नमिष्यन्ति सत्स्त्रियः ।तासां दर्शनमात्रेण ब्रह्मघ्नी शुद्ध्यति ह्यपि ॥३७॥दासी भावेन या तस्याः सेवनं कुरुतेऽबला ।तस्याः पुण्यं न जानाति ब्रह्माऽपि खलु पद्मजे ॥३८॥शंखचक्रान्वितां भक्तां पूजयेद् या तु वैष्णवी ।पूजितं तेन वै सर्वं जगत्स्थावरजंगमम् ॥३९॥स एव दिवसो धन्यो धन्या माताऽपि तत्कुलम् ।पिता धन्यस्तथा साध्व्या यया भक्ता प्रपूजिता ॥४०॥सर्वा धन्यतमा साध्व्यो मम भक्तिपरायणाः ।तासां दर्शनमात्रेण महापापं विलीयते ॥४१॥उपपापानि सर्वाणि प्रकीर्णकानि तानि वै ।सर्वाण्येव विनश्यन्ति वैष्णवीनां हि दर्शनात् ॥४२॥पावका इव पावन्यो विष्णुभक्ताः स्त्रियः सदा ।आर्द्रं शुष्कं लघु स्थूलं नाशयन्ति हि कल्मषम् ॥४३॥प्रामादिकं हि यत्पापं ज्ञानाऽज्ञानकृतं तथा ।संसर्गजं च पापं च नश्यति द्रुतमेव ह ॥४४॥सतीनां दर्शनाल्लक्ष्मि साधूनां सेवनात्तथा ।स्वर्गं प्रयान्ति निष्पापाः पापिष्ठा यान्ति शुद्धताम् ॥४५॥संसारकर्मपाशानां मोक्षणे वै विशारदी ।पावनी पावनानां च मम भक्ता सदा शुभा ॥४६॥प्रत्यह मम भक्ता या मां प्रस्मरत्यहर्निशम् ।सा तु मद्रूपिणी बोध्या हरिणी सा न संशयः ॥४७॥भ्राजत्कर्पूरशुभ्रं मां पद्मपत्रायतेक्षणम् ।शंखचक्रगदापद्ममीनध्वजधनुर्धरम् ॥४८॥पीताम्बरं विराजन्तं कौस्तुभेन समुज्ज्वलम् ।श्रीवत्सवक्षसं पुष्टं वनमालादिभूषितम् ॥४९॥स्वर्णकुण्डलभाव्याप्तकपोलवदनं हरिम् ।वलयांऽगदनूपुरकिरीटरशनान्वितम् ॥५०॥प्रसन्नवदनं कृष्णनारायणं प्रभुं विभुम् ।वामसक्थिस्थपाण्डुरश्रीचिह्नप्रविराजितम् ॥५१॥सपादपञ्चषष्ट्यंगुलोर्ध्वमान पुमुत्तमम् ।चतुर्बाहुं चन्द्रशुभ्राननं भ्रूशरराजितम् ॥५२॥मामनादिकृष्णनारायणं ध्यायति या सती ।सा भक्ता वैष्णवीरूपा श्रीरूपा मत्स्वरूपिणी ॥५३॥तस्यास्तु दर्शनेनापि भक्त्या वा भोजनेन च ।पूजनेन कमले वै मुक्तिगा जायते सखी ॥५४॥तृषातुरा यथा वारि तद्वन्मां सा स्मरत्यपि ।हिमाकुला यथाग्निं च तद्वन्मां सा स्मरत्यपि ॥५५॥यथा पतिं पतिधर्मा तद्वन्मां सा स्मरत्यपि ।भीता यथा स्वगोप्तारं तद्वन्मां सा स्मरत्यपि ॥५६॥लोभवती यथा द्रव्यं तद्वन्मां सा स्मरत्यपि ।पुत्रकामा यथा पुत्रं तद्वन्मां सा स्मरत्यपि ॥५७॥विवासिता यथा गेहं तद्वन्मां सा स्मरत्यपि ।चातकी च यथा मेघं तद्वन्मां सा स्मरत्यपि ॥५८॥ब्रह्मवेत्त्री यथा ब्रह्म तद्वन्मां सा स्मरत्यपि ।पितरश्च यथा पिण्डं देवा हव्यं यथाऽध्वरे ॥५९॥ऋषयश्च यथा मन्त्रान् मानवाः सम्पदो यथा ।हंसाश्च मानसं यद्वत् तद्वन्मां सा स्मरत्यपि ॥६०॥कामुकी कामिनं यद्वद् भक्ता भजन्तमेव यम् ।माताऽपत्यं यथा तद्वन्मां सा स्मरति साध्विका ॥६१॥भक्तिमन्तो यथा कृष्णं भक्तिं च वैष्णवा यथा ।पशवश्च तृणं यद्वत् तद्वन्मां सा स्मरत्यपि ॥६२॥सन्तो धर्मं साधवश्च क्षमां श्रेष्ठी समर्हणाम् ।प्राणी प्राणान् वधुश्चात्मा तद्वन्मां सा स्मरत्यपि ॥६३॥जीवाश्चायुर्भ्रमराश्च पुष्पं सूर्यं तु चाटिका ।वल्लभा वल्लभं यद्वत् तद्वन्मां सा स्मरत्यपि ॥६४॥रात्रिस्थाश्च यथा ज्योतिः श्रमार्ताः श्रान्तिमेव च ।निद्रां जागरिणो यद्वत् तद्वन्मां सा स्मरत्यपि ॥६५॥अनालसा यथा सिद्धिं करिणोऽरण्यभूमिकाम् ।सिंहा गाढवनं यद्वत् तद्वन्मां सा स्मरत्यपि ॥६६॥सूर्यकिरणमासाद्य सूर्यकान्तेऽनलो यथा ।एवं साध्वीसुसत्संगाद्धरौ प्रेमवती भवेत् ॥६७॥चन्द्रकिरणयोगेन चन्द्रकान्तः स्रवेत्सुधाम् ।एवं वै वैष्णवीयोगाद्धरौ भक्तिस्तवो भवेत् ॥६८॥कौमुदीं प्राप्य च यथा कुमुदं संविकासते ।गुर्वीं भक्तां तथा प्राप्य हृत्पद्मं संविकाशते ॥६९॥यथा कीटी भ्रमरीं च स्मृत्वा भ्रमरी जायते ।योगस्मृत्या तथा साध्वी स्मृत्वा मां मत्समायते ॥७०॥वध्वश्च कामबुद्ध्यैव कृष्णरूपं परं गताः ।तथा गोपी च मां स्मृत्वा कृष्णनारायणायते ॥७१॥काचिद्धास्यायते मां च काचित् स्नेहायते च माम् ।काचित् स्पृहायते मां च काचित् स्वाम्यायते सती ॥७२॥प्रेमायते च काचिच्च कृष्णायते च भामिनी ।एवं मां भक्तियोगेन समीपे विन्दते क्षणात् ॥७३॥सान्निध्येऽपि स्थितश्चाऽहं दूरे भक्तिं विना सदा ।भक्तियोगेन दृश्येय भक्ताभिः परमेश्वरः ॥७४॥देवाद्यैरमृतं प्राप्तं तथापि दुःखिनो हि ते ।भक्तिमेवाऽमृतं प्राप्य दुःखं सर्वं विनश्यति ॥७५॥भक्त्या वैकुण्ठमासाद्य मोदते विष्णुसन्निधौ ।अन्यत्सर्वं परित्यज्य मम भक्तिं समाश्रयेत् ॥७६॥प्राप्य देहं विना भक्तिं क्रियते यद् वृथा हि तत् ।विष्णुभक्तिं विना नैव संसाराब्धितरिर्भवेत् ॥७७॥दुःखदावानलदग्धं मम भक्तिः प्रशाम्यति ।जन्मान्तरेऽपि भक्तिर्मे मामकीं विदधाति वै ॥७८॥भूत्वा च मामकी दासी लक्ष्मीः प्रजायते ततः ।रेणुमात्रमपि भक्तेर्मम धाम ददाति वै ॥७९॥शतैश्च श्रूयते भक्तिः सहस्रैरपि बुध्यते ।लक्षैश्च भज्यते तत्र भक्ता काचिद् रमा भवेत् ॥८०॥बुद्धिदा बहवो लोके भजमानस्तु कश्चन ।तत्रापि च तदात्मत्वं प्राप्तः कोटिगणेऽद्वयः ॥८१॥पूजया हस्यते भक्तिर्जपैर्हासयते तथा ।भक्त्या भक्तिः शंस्यते च मया भक्तिः प्रगृह्यते ॥८२॥मूले सिक्तस्य वृक्षस्य शाखादलफलोद्भवः ।तथा सिक्तो हरिर्भक्त्या भक्तानन्दफलोद्भवः ॥८३॥यस्या वृत्तिर्यादृशी सा तथा भक्तिं करोति वै ।भजनादेव मे लक्ष्मि फलमग्रे ह्यवाप्यते ॥८४॥पानीयहारिणी यद्वद् घटे तीरे प्रकर्षणे ।चित्तं ददाति तद्वच्चेन्मयि ददाति मुच्यते ॥८५॥यथा लोके स्थितं व्योम भूतैर्नैव हि लिप्यते ।तथा लोके स्थिता भक्ता कर्मभिर्नहि लिप्यते ॥८६॥दिवारात्रौ हि मे भक्ता ममानन्दोपजीविनः ।तेऽत्रस्था अपि धामस्था दिव्या मुक्ता हि ते मताः ॥८७॥सर्वमेधादियज्ञानां फलं स्वर्गं प्रपातवत् ।मम भक्त्यध्वरफलं पुनरागमवर्जितम् ॥८८॥दृष्टमानन्त्यमेवाऽस्या भक्तेर्मे मत्प्रसादतः ।पाषाणो जलमध्यस्थो जलेन लिप्यते न सः ॥८९॥भक्तो मायान्तरस्थोऽपि मायया लिप्यते न सः ।मे भक्तस्यान्तरे शैत्यं विना जलेन मद्वशात् ॥९०॥दर्दुरो वसति नीरे गन्धं वेत्ति न पद्मजम् ।भ्रमरोऽरण्यवासोऽब्जगन्धं प्रवेत्ति वै स तु ॥९१॥अहं वसामि हृदये बहिर्वृत्तिर्न वेत्ति माम् ।प्रेमभक्तियुतो दूरस्थोऽपि वेत्ति हृदि स्थितम् ॥९२॥गंगातटे वसन्त्येके वसन्त्यन्येऽर्बुदाचले ।माहात्म्यवित् फलं त्वत्ति तथा भक्तियुतो जनः ॥९३॥गर्दभश्चन्दनभारं वहते गन्धमेति न ।बहिःस्थश्चान्तरस्थं मां न वेत्ति नैति मत्सुखम् ॥९४॥मृगा जिघ्रन्ति रस्यानि कस्तूरीगन्धवेदिनः ।स्वनाभिस्थं न जानन्ति तथा मां वै बहिर्मुखाः ॥९५॥मूर्खाणां ज्ञानशून्यानामुपदेशो निरर्थकः ।तथा मद्भक्तिशून्यानामानन्दोऽपि निरर्थकः ॥९६॥सर्पपीतं पयः क्ष्वेडं शठभक्तिस्तथाविधा ।अन्धो दीपं वीक्षते न तथा मां वै बहिर्मुखः ॥९७॥वेषेण च यथा चर्मं चर्मणा वर्ष्म संवृतम् ।वर्ष्मणेन्द्रियकं यद्वत्तथेन्द्रियैर्हि वासना ॥९८॥तयाऽऽवृतश्च जीवात्मा तेनाऽहं वै समावृतः ।अणोरणीयान् चान्तःस्थो वसाम्यात्मा न चैति माम् ॥९९॥दुग्धे घृतं तिले तैलं विद्यतेऽहं तथा विधः ।विद्ये सर्वत्र मां नैव जानन्ति बहिरिच्छवः ॥१००॥एकसूत्रे यदा प्रोता मणयो मयि तत्तथा ।सृष्टयः सर्वथा प्रोताश्चात्मानो न विदन्ति माम् ॥१०१॥यथा काष्ठादिगो वह्निर्मथनाद् दृश्यते बहिः ।तथा त्वात्मस्थितश्चाऽहं दृश्ये भक्तिप्रमन्थनात् ॥१०२॥यथा दीपात् प्रभवन्ति दीपाश्चान्ये ह्यपेक्षिताः ।तथा गुरोः प्रजायन्ते सर्वज्ञा भक्तिमुक्तिगाः ॥१०३॥यथाऽर्कस्योदये ज्योतिः सर्वत्रैव प्रकाशते ।तथा भाग्योदये स्वामी गुरुः स्वयं प्रकाशते ॥१०४॥यथा वायुः सर्वगश्च सर्वगन्धवहस्तथा ।गुरुर्हरिः सर्वगश्च कर्मभक्तिफलावहः ॥१०५॥नीरं यादृग्रसाढ्यं वै तादृग्रसो मुखे भवेत् ।आत्मा यादृक्प्रेमपूर्णस्तथाऽनन्दरसो निजे ॥१०६॥पृथ्वी नैकरसैर्युक्ता नानासस्यस्वरूपिणी ।आत्मा नैकसुखाढ्यश्च नानाब्रह्मसुखान्वितः ॥१०७॥सच्चिदानन्दरूपोऽयं ह्यात्मा भक्तोऽतिमोदवान् ।ममाऽऽनन्देन संयुक्तो महानन्दी प्रजायते ॥१०८॥ममाऽऽनन्दं मम भक्तिं लक्ष्मि या वेत्ति वै हृदि ।सा भक्ता कमलातुल्या मम धामाऽभियायिनी ॥१०९॥अहं वसामि सर्वत्र लोका जानन्ति नैव माम् ।अविद्यया न जानन्ति चाऽभक्त्या न विदन्ति माम् ॥११०॥सर्वकर्माणि चेत् कुर्युर्विष्णुदैवतकानि वै ।तैरेव निर्गुणैर्योगैश्चाप्नुवन्ति पुरःस्थितम् ॥१११॥एवमुक्तं मया लक्ष्मि मम सान्निध्यमद्भुतम् ।विचार्य प्राप्य विज्ञाय भजित्वा मामवाप्नुयात् ॥११२॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वधूगीतायां भगवदुक्तभक्तिमाहात्म्योत्कर्षनिरूपणनामा पञ्चषष्टितमोऽध्यायः ॥६५॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP