संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ६७ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ६७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ६७ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-.शृणु नारायणीश्रि त्वं हृद्यं निवेदयामि ते ।अहं वै सर्वजीवानां साधारणो महाप्रभुः ॥१॥मामाराध्यैव सर्वेऽत्र सृष्टावैश्वर्यशालिनः ।भवन्त्येव ततस्तेभ्यो ददाम्यैश्वर्यमर्थितम् ॥२॥यथाकर्मफलं देयं न्यायोऽयं मम सर्वदा ।प्रसन्नता फलं रिक्तं विशेषोऽयं मम गृहे ॥३॥परितोषिकरूपा मे प्रसन्नता हि सेवके ।कार्यकरे यत्नवति प्रसन्नता निसर्गजा ॥४॥नार्या नरे च वा सृष्टौ करोमि यत्र तत्र वा ।पार्वत्यां चापि सामुद्र्यां द्वीपिन्यां वाऽन्ययोषिति ॥५॥हारित्यां वाऽप्यमर्यां वा गौर्यां पर्यां च वा तथा ।राशियान्यां च वा ब्राह्म्यां रौद्र्यां वनिन्यां योषिति ॥६॥.मानस्यां वा तथेशान्यां दरिद्रायां तथा च वा ।अन्त्यजायां पूर्वजायां मध्यजायां तथापि वा ॥७॥धीवर्यां वा शबर्यां वा यवन्यां वा तथा पुनः ।पिशंग्यां प्राचीनकायां चाब्रिक्तायामथापि वा ॥८॥श्वेतायां वापि कृष्णायां चित्रायां वापि योषिति ।तथाविधे नरे वापि भक्ते देवे तथार्षके ॥९॥ईश्वरे वापि मुक्ते वा यत्र प्रसन्नता मम ।तत्र तत्र हि सर्वेषां रत्नानां स्यादसंख्यता ॥१०॥ऐश्वर्याणां समस्तानां सिद्धीनां स्यादसंख्यता ।सम्पदां च समस्तानामृद्धीनां स्यादसंख्यता ॥११॥आनन्दानां सुखानां च प्रमोदानामसंख्यता ।उत्सवानां तथोत्साहविलासानामसंख्यता ॥१२॥लक्ष्मीनां श्रेयसां चापि भोग्यानां स्यादसंख्यता ।सर्वेषामपि कामानां तृप्तीनां स्यादसंख्यता ॥१३॥यत्राऽहं च प्रसन्नः स्यां पारितोषिकरूपवान् ।तत्राऽक्षरं पदं मे च स्वर्गॆ परं वसत्यपि ॥१४॥वद लक्ष्मि कथंकारं न्यूनत्वं संभवेत्ततः ।सर्वं दिव्यॆ भवत्येव सर्वॆ सर्वोत्तमं मम ॥१५॥भक्तगृहं मम गृहं भक्तोऽहं चाऽहमेव सः ।इत्येवं वर्तते हृद्यं तत्कुटुम्बं ममैव ह ॥१६॥मम सर्वं च भक्तस्य भेदो मनाङ् न विद्यते ।का माया कश्च कालो वा प्रभुर्वै मन्निवेशने ॥१७॥यत्राऽहं संवसाम्येव धामाऽक्षरं परं हि तत् ।मृत्तिकागृहरूपं वै शाश्वतं तत्परं पदम् ॥१८॥यत्राऽहं नास्मि तत्सौधं विमानमपि नारकम् ।यत्राऽहं न वसाम्येषा भूमिः श्मशानरूपिणी ।यत्राऽहं सेवितो नैव रमणी साऽपि राक्षसी ॥१९॥नाऽऽश्लिष्टोऽहं यया लक्ष्मि सा भूती च पिशाचिनी ।येनाऽहं वन्दितो नैव समाश्लिष्टो न माधवः ॥२०॥स चात्र विद्यते भूतो राक्षसो जन्मखादकः ।मामाश्रित्य पिशाचाश्च भवन्ति देवतोत्तमाः ॥२१॥पिशाचिन्योऽपि मां प्राप्य जायन्ते ब्रह्मयोषितः ।दोषाः पिशाचास्तद्वत्यः पिशाचिन्यो भवन्ति वै ॥२२॥गुणा मुक्ता हि तद्वत्यो मुक्तान्यस्ता भवन्ति वै ।अहंब्रह्मेतिज्ञानिन्यो ब्रह्मपत्न्यो भवन्ति वै ॥२३॥परब्रह्मश्रिताः सर्वा हरिपत्न्यो भवन्ति वै ।हरिं मां वै परित्यज्य तपो दुःखं कथं चरेत् ॥२४॥परेशेन विना काचिन्नैव सिद्धिमवाप्नुयात् ।ब्रह्मणा निर्मिता देहा देहधर्मा ह्यनन्तकाः ॥२५॥ब्रह्मधर्मा देहधर्मा मनो धर्मास्तथाऽऽन्तराः ।लोकधर्मास्तथा तेन निर्मिताः सर्वसौख्यदाः ॥२६॥मम धर्मास्तु नित्या वै ब्रह्मापि निर्मितो मया ।मम नित्यान् परान् धर्मानाश्रित्य मां प्रयाति सः ॥२७॥मम प्रसन्नता ह्येव धर्मो मे दिव्यताप्रदः ।ब्रह्मधर्मान् सुसत्कृत्य मम धर्मान् समाचरेत् ॥२८॥कर्तव्यं विद्यते नाऽस्या मम धर्मार्थयोषितः ।स्वधर्मोऽयं मम धर्मः शुक्लश्च निर्गुणश्च सः ॥२९॥शुक्लधर्मेण वै स्थेयं शुक्लं देयं न मे सदा ।स्वल्पं शुक्लं च मे दत्तमानन्त्याय प्रजायते ॥३०॥शुक्लं मदर्थमेवाऽत्र लीलयाऽपि कृतं च वा ।इन्द्रियाद्यैः कृतं वापि शुक्लं धामनि चाप्यते ॥३१॥पुण्यं शुक्लं मम कार्यं तद्वतोऽघं न जायते ।दुःखं नैव तथा माया नैव जन्म कुतो मृतिः ॥३२॥तस्मात् स्थेयं सदानन्दपूर्णतया मदाश्रितैः ।मामनाश्रित्य बन्धेन कर्मणाऽत्र वहन्ति ये ॥३३॥भारं वै वासनाजन्यं ते भवन्ति पुनः पुनः ।शाखामृगो यथा याति प्रतिवृक्षं तथा हि सः ॥३४॥नीयते कर्मणा जीवः संसारवनयोनिषु ।क्रीडार्थं कन्दुको यद्वत् क्षिप्यते रंगबालकैः ॥३५॥तथाऽयं कर्मभिः क्षेत्रे क्षिप्यते मायिके स्तरे ।बद्धोऽश्वो न स्वतन्त्रोऽस्ति विहर्तुं यातुमेव वा ॥३६॥कर्मबद्धो न स्वतन्त्रः सुरर्षिपितृमानुषे ।मनुष्या भूतले श्रेष्ठाः किन्तु ते पक्षवर्जिताः ॥३७॥पक्षिणो व्योमगाश्चापि हस्तसाधनवर्जिताः ।देवा दिव्यस्वरूपाश्च क्षितिस्थौल्यादिवर्जिताः ॥३८॥नार्यो रूपगुणाढ्याश्च नियाम्यास्तास्तथाकृताः ।वृद्धाः पूज्या निर्मिताश्च किन्त्वधिकारवर्जिताः ॥३९॥साधिकारा युवानश्च दीर्घानुभववर्जिताः ।गजो हि बलवानास्ते किन्तु साधनवर्जितः ॥४०॥सिंहो वै बलवान् राजा पशुस्तामससत्तमः ।हरिणः पावनश्चास्ते किन्तु वन्यः पशुः कृतः ॥४१॥विप्रा विद्यानिधयोऽपि दारिद्र्यरोषपीडिताः ।काकाः शकुनचतुराः किन्तु मलिनयोनिजाः ॥४२॥मणयो मौक्तिकाः श्रेष्ठाः किन्तु ते दुर्लभाः कृताः ।कटुतृणानि बहूनि मिष्टानि दुर्लभानि वै ॥४३॥सुलभा वै कापुरुषा दुर्लभाः साधवः प्रिये ।सत्यः साध्व्यो दुर्लभाश्च सुलभा वारयोषितः ॥४४॥पत्राणि सन्ति बहूनि फलानि दुर्लभानि वै ।भोगिनः सन्ति सुलभा दुर्लभास्तु विरागिणः ॥४५॥कीटकाः सन्ति सर्वत्र फणाध्रा दुर्लभाः प्रिये! ।मरणं सुलभं लक्ष्मि! चामृतं दुर्लभं बहु ॥४६॥कलहः सुलभो लक्ष्मि! मेलनं दुर्लभं बहु ।स्वार्थः सर्वत्र सुलभः परार्थो दुर्लभः सदा ॥४७॥भोगस्तु सुलभो लक्ष्मि! मोक्षोऽस्ति दुर्लभः सदा ।पुमांसः सुलभा लक्ष्मि! पुमुत्तमस्तु दुर्लभः ॥४८॥पुरुषः सुलभश्चास्ते दुर्लभः पुरुषोत्तमः ।नार्यः सर्वत्र लभ्यन्ते नारायणी तु दुर्लभा ॥४९॥उद्योगः सर्वथा प्राप्यः सेवा तु दुर्लभा प्रिये! ।देहस्तु बहुधा लभ्यश्चाऽऽत्मा वै दुर्लभः प्रिये! ॥५०॥गृहं तु सुलभं लभ्यं धामाऽक्षरं तु दुर्लभम् ।गर्भस्तु सुलभो लक्ष्मि! हिरण्यगर्भो हि दुर्लभः ॥५१॥खनयः सुलभा लक्ष्मि! ब्रह्मशृंगं हि दुर्लभम् ।वासनाः सुलभा लक्ष्मि! वासुदेवो हि दुर्लभः ॥५२॥पतयः सुलभा लक्ष्मि! दुर्लभः शाश्वतः पतिः ।स्वामिनः सुलभा लोके परस्वामी हि दुर्लभः ॥५३॥सर्वं वै सुलभं लक्ष्मि! कृष्णोऽहं दुर्लभः सदा ।माया वै सुलभा लोके मायेशोऽहं तु दुर्लभः ॥५४॥समर्थस्वामिना लक्ष्मि! कर्मयोनिर्निरस्यते ।कर्मबद्धं जगत्सर्वं कृष्णोऽहं तारयामि वै ॥५५॥तोयं सर्वत्र सुलभं विष्णुपद्वारि दुर्लभम् ।दुर्लभेषु समस्तेषु विष्णुपदं हि दुर्लभम् ॥५६॥दुर्लभं सुलभं भक्तिमतां करोमि सर्वथा ।एवं कृत्वा सेविनां मे कर्म सर्वं हि मुक्तिदम् ॥५७॥वद लक्ष्मि! कृपा मेऽत्र कारणं पारितोषिकम् ।तल्लब्ध्वा पुण्यमुत्कृष्टं ममाऽऽनन्दपदं व्रजेत् ॥५८॥मयि त्यागो दुर्लभो वै तदन्यः सुलभः खलु ।मयि न्यासो दुर्लभो वै तदन्यः सुलभः सदा ॥५९॥अन्यार्पणं तु सुलभं मय्यर्पणं हि दुर्लभम् ।अन्ययत्नोऽपि सुलभो मदर्थः स तु दुर्लभः ॥६०॥अन्यार्थता हि सुलभा मदर्थता हि दुर्लभा ।अन्यवधूत्वं सुलभं वधूत्वं मम दुर्लभम् ॥६१॥मायिकं सुलभं सर्वं मदीयं दुर्लभं प्रिये! ।कृतश्रया विजानाति ह्यश्रमाया न वेदनम् ॥६२॥कियद्यत्नेन लभ्योऽहं जानाति श्रीर्नरायणी ।सती हैमी विजानाति कथं लभ्यो हि शंकरः ॥६३॥माणिक्याऽश्वी विजानाति कथं धार्मिर्हि लभ्यते ।राधा कृष्णा च कमला विजानन्ति परिश्रमम् ॥६४॥गायत्री नैव जानाति नैव जानाति चाब्धिजा ।पद्मावती विजानाति कथं लभ्यः परेश्वरः ॥६५।लब्धकृपांशवनिता न जानाति तपःश्रमम् ।जानन्ति योगिनो युक्ताः साध्व्यो जानन्ति तच्छ्रमम् ॥६६॥योगिन्यश्च विजानन्ति तापस्यो देहशोषिकाः ।त्वं लक्ष्मि! किं विजानासि हनूमत्पर्वते तपः ॥६७॥कृत्वा श्रमेण लब्धवत्यसि मां पुरुषोत्तमम् ।मृत्योर्विनिमये लभ्यो भवामि नाऽन्यथा प्रिये! ॥६८॥बाह्यं च मानसं सर्वं मदर्थं यस्य जीवितम् ।मदर्थं त्यजनं सर्वं स मां प्राप्नोति वै श्रमात् ॥६९॥मदर्थं यस्य सर्वस्वं यस्या मदर्थिनी कृतिः ।यस्यास्त्यागा मदर्थाश्च सा मां प्राप्नोति वै श्रमात् ॥७०॥शुद्धगेहाऽऽप्तकाया च योगिनी योगिपुत्रिका ।मदर्थकृतसर्वस्वा मां प्राप्नोतीव भार्गवी ॥७१॥योगे मां योगिनं वेत्ति ध्यानं मां च स्मरत्यपि ।मदर्थकृतसर्वस्वा पद्मेवाऽऽप्नोति सा हि माम् ॥७२॥स्वल्पयत्नाऽपि कल्याणी मदर्थविरहातुरा ।चिदानन्दमयं मां सा ह्यवाप्नोतीव माधवी ॥७३॥सर्वकामकृता यज्ञा मय्येव सर्वसौख्यदाः ।नित्यं सौख्यं लभन्ते ता भक्तिमत्यो मयि स्थिताः ॥७४॥सर्वाक्षरपदं राज्यं सर्वेश्वरगतं सुखम् ।सर्वावतारानन्दादि लभते मम भामिनी ॥७५॥यस्या मतिर्न भिद्येत मदन्यकामनादिभिः ।सा मां तु दुर्लभं कान्तं कृत्वा सुलभमेति वै ॥७६॥कृष्णसेवापरां नारीं कालो यमश्च मुञ्चतः ।अपराधसहस्रां वा करोमि दोषवर्जिताम् ॥७७॥रक्षकोऽहं हृदयस्थो बहिस्तिष्ठामि सत्वरम् ।दुर्लभोऽपि भवाम्येव सुलभो गोपवेश्मवत् ॥७८॥दुर्लभोऽपि भवाम्येव सुलभो वामनो यथा ।सुदूरोऽपि भवाम्येव निकटस्थो गजार्थवत् ॥७९॥अदृश्योऽपि भवामीव दृश्यो प्रह्लादकाष्ठगः ।अगम्योऽपि भवाम्येव गम्यः स्वपतिरीशवत् ॥८०॥सर्वं स्नेहार्पणाल्लक्ष्मि! ददामि वितरामि च ।दुर्लभं सुलभं सर्वं सेविकार्थं करोमि च ॥८१॥त्वदर्थं क्रियते सर्वं भक्तार्थं क्रियते तथा ।ब्रह्मप्रियार्थं क्रियते सर्वं भक्त्या वशेन ह ॥८२॥इत्येवं मां विदित्वैव या जन्मान्तं करोति सा ।दिव्यश्रीरिव सम्पन्ना मदीया जायतेऽक्षरे ॥८३॥स्वपन्ति मोहनिद्रायां शरीरसुखमोहिताः ।उपदेशेन मे चेद्वै जागृतिं यान्ति बोधिताः ॥८४॥तदा लभ्यं पतिं कान्तं मां प्रयान्ति पुमुत्तमम् ।नरा नार्यः सदा मुक्ता भवन्ति दिव्यविग्रहाः ॥८५॥दिव्यानन्दभरा नित्यं न्यूनसौख्यं न विद्यते ।परिपूर्णं सुखं सर्वं तत्र लोके प्रविद्यते ॥८६॥मन्मूर्ताविव साक्षाच्च मय्येवानन्दशेवधिः ।आनन्दानां प्रवाहा वै स्रवन्ते मम मूर्तितः ॥८७॥मद्भक्तानानन्दयित्वा प्रविशन्ति च ते मयि ।मन्मूर्तितो हि निर्यान्ति प्रकृष्टानन्दवार्धयः ॥८८॥मद्भक्तासु चिरं स्थित्वा पुनश्चायान्ति वै मयि ।एते सर्वे महानन्दा ह्रासं व्रजन्ति नैव ह ॥८९॥न्यूना भवन्ति नैवापि सान्ता भवन्ति नैव च ।प्रवाहाणां प्रवाहाश्च स्वेच्छाजन्या भवन्ति वै ॥९०॥अक्षया वर्धमानाश्च मम मूर्तिसुयोगजाः ।ब्रह्मानन्दः स एवास्ते मुक्तानां मम धामनि ॥९१॥भुंक्ष्व तं परमानन्दं सर्वाभिः सह पद्मजे ।एतास्त्वत्करगा आल्यः सख्यस्ते स्वसृसंज्ञिताः ॥९२॥सपत्न्यः कोट्यब्जलक्षार्बुदा मन्मयमूर्तयः ।त्वदभिन्ना हि ताः सर्वा मदभिन्ना भवन्त्यपि ॥९३॥ततो भिन्ना हि मे मूर्तेर्मदात्मिका गुणात्मिकाः ।मच्छक्तयश्च ताः सर्वा मयाऽऽज्ञप्ताः स्त्रियोऽभवन् ॥९४॥मां च प्राप्य मया नैजस्वरूपात्मत्वमापिताः ।मया सर्वपृथिव्यां वै गत्वा स्वयं हि मार्गिताः ॥९५॥अन्विष्य निजकान्तात्वं प्रापिता मम शक्तयः ।वधूधर्मान् पुरस्कृत्य भुञ्जन्तां नन्दितं हि माम् ॥९६॥अक्षरं चाऽक्षयं चाऽप्यव्ययं शाश्वतमुत्तमम् ।सर्वानन्दनिधानं मां भुञ्जन्तां परमेश्वरम् ॥९७॥या काचिन्मां पुरस्कृत्य कृत्वा मां हृदि सर्वथा ।वधूगीतां मदुक्तां च श्रुत्वा कान्तं सनातनम् ॥९८॥इच्छिष्यन्ति निजानन्दं श्रीपतिं पुरुषोत्तमम् ।तासां प्राप्तो भविष्यामि ग्रहीष्यामि च तत्करम् ॥९९॥नेष्यामि परमं धाम करिष्ये स्वामिनीं हि ताम् ।मुक्तानिकां ब्रह्मप्रियां करिष्ये तां हरिप्रियाम् ॥१००॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वधूगीतायां हरेः कृपासर्वस्वफलनिरूपणनामा सप्तषष्टितमोऽध्यायः ॥६७॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP