द्वापरयुगसन्तानः - अध्यायः १२७
लक्ष्मीनारायणसंहिता
श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं महादानमथाऽपरम् ।
कल्पपादपदानाख्यं सर्वपातकनाशनम् ॥१॥
पवित्रदिवसं प्राप्य तुलापुरुषदानवत् ।
कारयेन्मण्डपं रम्यं घटादिभिः सुशोभितम् ॥२॥
शृंगारितं पुष्पवस्त्रैः कदलीस्तम्भतोरणैः ।
कुण्डवेदीयुतं रम्यं विप्रासनविराजितम् ॥३॥
सर्वोपकरणाद्यैश्च तीर्थजलघटैर्युतम् ।
पूजाविधानसामग्र्यादिभिः पूर्णं च सध्वजम् ॥४॥
द्वारदेशान् तोरणस्थान् देवान् दिक्पालदेवताः ।
शाखस्थान् देवदेवाँश्चाऽऽवतारान् परमेश्वरम् ॥५॥
महालक्ष्मीप्रभृतिश्रीदेवीश्च यावतीस्तथा ।
आवाहयेद् यथास्थानं पुण्याहघोषपूर्वकम् ॥६॥
कांचनस्य शुभं वृक्षं पत्रपुष्पफलान्वितम् ।
पक्षिव्रातकृतशोभम् मञ्जर्यंकुरराजितम् ॥७॥
वस्त्रभूषाछादनादितन्तुवल्लीसमन्वितम् ।
शक्तितस्त्रिपलादूर्ध्वमासहस्रपलात्मकम् ॥८॥
एवं तत्कल्पवृक्षस्य गुडप्रस्थे सुरोपणम् ।
कृत्वा सिताम्बरयुग्मं दद्याच्छाखासु चोत्तमम् ॥९॥
ब्रह्मविष्णुमहेशाद्यैर्देवैः सुशोभिते द्रुमम् ।
पञ्चशाखं चोपशाखं भासुरं श्वेतरक्तकम् ॥१०॥
हरिद्वर्णदलाढ्यं च रक्तांकुरसमन्वितम् ।
श्वेतमूलं पिशंगादिस्तम्बभागसमन्वितम् ॥११॥
शृंगारयित्वाऽधस्ताच्च महास्वर्णासने शुभे ।
अनादिश्रीकृष्णनारायणं संकल्पपूरकम् ॥१२॥
स्थापेयन्मां कमलेशं सकलत्रं सुवर्णजम्।
ममाऽवतारान् सर्वांश्च पितरं मातरं मम ॥१३॥
सर्वा लक्ष्मीः स्थापयेच्च कामदेवं सभार्यकम् ।
अष्टसिद्धीः स्थापयेच्च कल्पवल्लीः प्रकल्पयेत् ॥१४॥
कल्पस्तबकान् परितः कल्पयेत्तु नवांकुरान् ।
शृंगारयेत् समस्ताँस्तान् कुंकुमाबीरचन्दनैः ॥१५॥
महावृक्षस्य पुत्राख्यान् वृक्षान् स्वल्पान् सुशोभितान् ।
सन्तानरूपान् परितस्तुरीयांशेन कल्पयेत् ॥१६॥
घृतपिण्डमुपन्यस्य घृतपात्रं च वा पृथु ।
पूर्वभागे ह्युपन्यस्य स्वल्पकल्पद्रुमं शुभम् ॥१७॥
न्यस्येद् घृतोपरिष्ठाद्वै कल्पवल्लीषु शोभितम् ।
मन्दारं दक्षिणे पार्श्वे श्रिया सार्धं न्यसेदपि ॥१८॥
गोधूमानां समुदाये कल्पस्तम्बादिशोभिते ।
अथ पश्चिमभागेऽपि पारिजातद्रुमं शुभम् ॥१९॥
सौवर्णं कल्पपुष्पाढ्यवल्लीयुक्तं न्यसेच्छुभे ।
तण्डुलानां समुदाये तृणांकुरादिशोभिते ॥२०॥
सावित्र्या जीरकपुञ्जस्थितया सह सन्न्यसेत् ।
अथोत्तरे सुगन्धाढ्यं तिलपुञ्जे सुशोभितम् ॥२१॥
कुन्दस्तबकयुक्तं च हरिचन्दनमुत्तमम् ।
व्रीहिपुञ्जोपशोभं च पूजासामग्रिकान्वितम् ॥२२।
स्थापयेत् कोणभागेषु बकुलं चैशदिग्भवम् ।
अग्नौ तु चम्पकं रम्यं नैर्ऋते नारिकेलजम् ॥२३॥
वायव्ये पूगिकावृक्षं नागवल्लीसमन्वितम् ।
एलादिस्तम्बयुक्तं च कृत्वोद्यानं सुशोभनम् ॥२४॥
इक्षुदण्डान् रोपयेच्च फलमाल्याम्बरान्वितान् ।
कौशेयवस्त्रमूलाँश्च कृत्वैवं वाटिकां शुभाम् ॥२५॥
आम्रद्रुप्रान्तभागां वै मयूरकोकिलाश्रिताम् ।
गोगोपवृषयुक्तां च जलवापीसमन्विताम् ॥२६॥
संशोभयित्वा तत्राऽष्टौ न्यस्येत् पूर्णघटान् शुभान् ।
रत्नपल्लववस्त्राढ्यान् फलवारिसमन्वितान् ॥२७॥
पादुके चामरे छत्रं वेत्रं वितानकं रथम् ।
विमानं वाहनं चापि स्थापयेत् तत्र सन्निधौ ॥२८॥
पात्रं नैवेद्यदानार्थं स्थाली चाशनभाजनम् ।
जलपानार्थकलशं स्थापयेत् पादपान्तिके ॥२९॥
दीपं धूपं प्रकुर्याच्च फलं मिष्टं रसान्न्यसेत् ।
तथा समस्तधान्यानि चाष्टादशविधानि वै ॥३०॥
यथाशक्ति न्यसेत्तत्र मण्डपे पादपान्तिके ।
गोधूमान् तण्डुलान् कङ्गूः ज्वारिका बर्जराँस्तथा ॥३१॥
बण्टिका शीणिका मुद्गान् चणकान् राजमाषकान् ।
कुलत्थिका वटाणाँश्च माषाँश्च कोद्रवाँस्तथा ॥३२॥
यवान् तुवरीर्धान्यानि षोडशोपन्यसेत् पुरः ।
निवारान् राजगुरुकान् शृंगाटकांश्च चिर्भटान् ॥३३॥
आम्रानिक्षून् नारिकेलानमृतान् बिल्वकाँस्तथा ।
पनसान् जाम्बुकाँश्चापि लिचिकाँश्च कलिंगरान् ॥३॥
शर्कराः खर्बूचकाँश्च कर्कटीः षोडश न्यसेत् ।
अथ होमाँश्च कुण्डाग्नावष्टोत्तरशतं चरेत् ॥३५॥
पायसान्नैः फलैश्चापि विविधैः रससंभृतैः ।
सुवर्णस्य गणेशं च सपत्नीकं प्रपूजयेत् ॥३६॥
कुर्यान्मूर्तेर्हरेर्मेऽधिवासनं सद्रुमस्य च ।
वृक्षं संस्नापयेन्मां च कुर्यात् त्रिःसम्प्रदक्षिणम् ॥३७॥
नमस्कुर्यात् स्तवनं चाचरेत् सम्प्रार्थयेत्ततः ।
नमस्ते परमेशाय कल्पद्रुमात्मकाय च ॥३८॥
कल्पवल्ल्यधिनाथाय चिन्तितार्थप्रदायिने ।
सर्वरसगन्धरूपविभूतिमूर्तये नमः ॥३९॥
विश्वम्भराय देवाय नमस्ते पूर्तिमूर्तये ।
सर्वान्नपूर्णदेवाय सर्वामृताय ते नमः ॥४०॥
सर्वसुधानिवासाय पीयूषरूपिणे नमः ।
त्वमेव परमेशोऽसि नारायणोऽसि माधवः ॥४१॥
संकर्षणोऽनिरुद्धस्त्वं प्रद्युम्नस्त्वं विभासि च ।
सूर्यश्चन्द्रोऽग्निरिन्द्रस्त्वं जाठरस्त्वं सनातनः ॥४२॥
ब्रह्मणो मानसोद्यानेश्वरस्त्वं च वनस्पतिः ।
मूर्तरूपोऽप्यमूर्तोऽसि बीजवृक्षात्मकोऽसि च ॥४३॥
नरनारीस्वरूपोऽसि महालक्ष्मीयुतोऽसि च ।
सनातनस्वरूपोऽसि सृष्टिरक्षणनाशकृत् ॥४४॥
सन्तानवल्लिकावृक्षैर्युतोऽस्मान् पाहि सर्वतः ।
स्वर्गं देहि विभूतीश्च प्रदेहि सम्पदः शुभाः ॥४५॥
सिद्धीर्देहि विमानानि वंशोद्धारं तथा कुरु ।
पितॄणां मोक्षदस्त्वं वै तेषां तृप्तिं विधेहि च ॥४६॥
अन्ते श्रीकृष्णकृष्णस्य पदं देहि महासुखम् ।
एवमभ्यर्थ्य तं दद्याद् गुरवे कल्पपादपम् ॥४७॥
चतुर्भ्यश्चाथ ऋत्विग्भ्यः सन्तानादीन् समर्पयेत् ।
अन्यदानानि सर्वाणि साधुभ्यश्च द्विजातये ॥४८॥
दद्यात् प्रभोजनं रम्यं कारयेद् भिक्षुयोगिनाम् ।
न वित्तशाठ्यं कुर्वीत दद्याद्धनं यथोचितम् ॥४९॥
फलमूलानि धान्यानि दद्याद् योग्येभ्य एव तु ।
नमस्कुर्यात् प्रसाद्यैव विसर्जयेत्ततः स्वयम् ॥५०॥
प्रसादभोजनं कुर्यादेवं दानप्रदः पुमान् ।
सर्वपापविनिर्मुक्तश्चाश्वमेधाऽयुतोद्भवम् ॥९१॥
पुण्यं लभते धर्मात्मा सपत्नीकः सबान्धवः ।
सकुटुम्बो महाराज्यं भुक्त्वाऽत्राऽथ दिवं व्रजेत् ॥५२॥
महत्स्वर्गं च वै भुक्त्वा सत्यलोकं व्रजेत्ततः ।
वैराजं च पदं भुक्त्वा यायाद् वैकुण्ठमेव च ॥५३॥
भूतान् भाव्यान् शतगोत्रान् तारयेन्मानवान् स हि ।
स्तूयमानान् दिवः पृष्ठे पितापुत्रप्रपौत्रकान् ॥५४॥
विमानैरर्कतुल्यैश्च विष्णुलोकं परात्परम् ।
प्रेषयत्येव तत्पुण्यैर्धामाऽक्षरं ततः परम् ॥५५॥
नारायणबलोपेतो नारायणपरायणः ।
नारायणकथासक्तो नारायणप्रसेवकः ॥५६॥
यजमानोऽनादिकृष्णनारायणपदं व्रजेत् ।
श्रोता वक्ताऽस्य च स्मर्ता महेन्द्रो जायते ध्रुवम् ॥५७॥
शृणु त्वं शिवराज्ञीश्रि महादानं तथाऽपरम् ।
गोसहस्रमहादानं सर्वपुण्यप्रदायकम् ॥५८॥
पुण्यां तिथिं समासाद्य युगमन्वन्तरादिकीम् ।
जयन्तीं देवदेवीनां नारायणस्य मे तथा ॥५९॥
मण्डपं रमणीयं वै कृत्वा कुण्डं शुभं ततः ।
होमवस्तूनि संगृह्य देवानावाहयेत्ततः ॥६०॥
समर्चयेद्धरिं मां चावतारानीश्वरीस्तथा ।
सर्वा लक्ष्मीः पूजयेच्च गोमूर्तिं स्वर्णकारिताम् ॥६१॥
पूजयेद् यजमानस्तां पयोव्रती त्र्यहं च वा ।
एकाहं वा ततो विप्रैः पुण्यादं वाचयेदथ ॥६२॥
अग्नौ च हवनं कुर्याद् घृतव्रीहिफलादिभिः ।
सहस्रवारं हवनं कृत्वा गवां सहस्रकम् ॥६३॥
बहिःस्थितं पूजयेच्च प्रणमेच्च प्रदक्षिणम् ।
वस्त्रमाल्याम्बरभूषाशृंगखुरसुदोहनैः ॥६४॥
शृंखलाकुंकुमपृष्ठाच्छादनैः पूजयेत्ततः ।
सुवर्णशृंगाभरणा रौप्यपादसमन्विता ॥६५॥
सुवर्णघण्टिकायुक्ताः कांस्यदोहनकान्विताः ।
सुवर्णतिलकोपेता हेमपट्टाद्यलंकृताः ॥६६॥
कौशेयवस्त्रसंवीता माल्यगन्धादिकार्चिताः ।
घासग्रासयुता दण्डैश्चामरैरुपशोभिताः ॥६७॥
उपानत्पादुकाछत्रभाजनासनसंयुताः ।
नन्दिकेश्वरयुक्ताश्च वत्सवत्सतरीयुताः ॥६८॥
यद्वा सौवर्णगोमध्ये नन्दिकोऽपि सुवर्णजः ।
दशगोमध्यगो वस्त्राभरणादिविभूषितः ॥६९॥
लवणद्रोणशिखरे माल्येक्षुफलसंयुतः ।
पलशतोर्ध्वसौवर्णः शतत्रयमितोऽथवा ॥७०॥
शक्तितः पलसाहस्रत्रितयोद्भावितोऽथवा ।
स्थापनीयः पूजनीयस्तथा गोदशकं शुभम् ॥७१॥
सौवर्णं पूजनीयं वै दशांशं पूजयेच्च वा ।
गीतमंगलनादैश्च स्नापयित्वाऽमृतोदकैः ॥७२॥
प्रदक्षिणं च त्रिःकृत्वा गृहीतकुसुमाञ्जलिः ।
पूजयित्वा गवां वृन्दं नमस्कृत्याऽर्थयेत्ततः ॥७३॥
नमोऽस्तु ब्रह्ममूर्तिभ्यो विश्वमातृभ्य आनमः ।
लोकाधिवासिनीभ्यश्च रोहिणीभ्यो नमो नमः ॥७४॥
गवामंगेषु तिष्ठन्ति सृष्टयस्तिस्र एव च ।
चतुर्दशभवनानि वेधसः सृष्टिरित्यपि ॥७५॥
विष्णोः सदाशिवस्याऽपि चाऽष्टाविंशतिभूस्तराः ।
षट्पञ्चाशच्च मायाया लोकास्तिष्ठन्ति गोषु तु ॥७६॥
रोहिण्यो द्रोग्ध्र्य ईश्वर्यो मातरः पान्तु मां सदा ।
गावो ममाऽग्रतः सन्तु गावः सन्तु च पृष्ठतः ॥७७॥
गावः शिरसि मे नित्यं गवां मध्ये वसाम्यहम् ।
वृषोऽयं धर्मरूपश्च भवत्यपि सनातनः ॥७८॥
हरेर्मूर्तौ वसन्पातु मां सदा सकुटुम्बकम् ।
स्वर्गं सत्यं च वैराजं भौमं वैकुण्ठमुत्तमम् ॥७९॥
श्रीपुरं चामृतं चाव्याकृतं गोलोकमक्षरम् ।
ब्रह्मधाम वृषो गावो ददत्वेव च मे शुभम् ॥८०॥
इति सम्प्रार्थ्य सौवर्णीं धेनुं श्रीगुरवेऽर्पयेत् ।
नन्दीश्वरं प्रदद्याच्च धर्ममूर्तिं सते तथा ॥८१॥
ऋत्विग्भ्यो धेनुमेकैकां दद्यात् शृंगारितां शुभाम् ।
अन्यगावः प्रदद्याच्च विप्रेभ्योऽपि यथोचितम् ॥८२॥
नैका बहुभ्यो दातव्या क्लेशदा स्यात्ततः खलु ।
बह्व्यस्त्वेकस्य दातव्या धीमताऽऽरोग्यवृद्धये ॥८३॥
सर्वाभूषणयुक्ताश्च दातव्या गुरवे शुभाः ।
बह्व्यः श्रीगुरवे देया यदि बाधो न वर्तते ॥८४॥
विविधानि धनान्येव धान्याम्बराणि यानि च ।
स्वर्णरजतरूप्याणि देयानि भिक्षुकादिषु ॥८५॥
पयोव्रती ब्रह्मचारी हरिभक्तिपरायणः ।
श्रावयेच्छृणुयाद्धेनुकथां कुर्याज्जपं हरेः ॥८६॥
विपुलां श्रियमाप्नोति पापहीनो भवेत्तथा ।
बहुपुण्यो विमानेन सूर्यसहस्रशोभिना ॥८७॥
देहान्ते नाकपृष्ठं च गत्वा सत्यं ततः परम् ।
लोकपालैः पूजितश्च वंशविस्तारशोभितः ॥८८॥
भुक्त्वा भोगान् दिव्यसंज्ञान् वैराजलोकसंस्थितान् ।
वैष्णवं योगमास्थाय ततो यात्यक्षरं पदम् ॥८९॥
शतमेकोत्तरं सोऽयं पितॄणां तारयेद् बुधः ।
मातामहानां तद्वच्च तारयेच्छतवंशजान् ॥९०॥
पितरश्चाभिनन्दन्ति गोसहस्रप्रदं सुतम् ।
अपि स्यात् स कुलेऽस्माकं पुत्रो दौहित्र एव वा ॥९१॥
गोसहस्रप्रदो भूत्वा नरकादुद्धरिष्यति ।
तस्य कर्मकरो वा स्यादपि द्रष्टाऽनुमोदकः ॥९२॥
संसारसागरादस्मात् सोऽपि नस्तारयिष्यति ।
मृतस्याऽग्रे यान्ति गावो याम्यलोकसृतावपि ॥९३॥
वैतरण्यां तारयन्ति धर्मराजगृहेऽपि च ।
स्वर्गे वा सत्यलोके वा महेश्वरनिवासने ॥९४॥
विष्णोर्वासे तथेशानीवासे श्रीपुरकेऽपि च ।
महालक्ष्म्या निवासे चावताराणां निवासने ॥९५॥
सर्वत्र यान्ति गावश्च तारिकाः पोषिकाः शुभाः ।
यत्र गौस्तत्र वै देवा ईश्वराः पार्षदा मम ॥९६॥
सर्वा लक्ष्म्यो ब्रह्मपत्न्यो यत्र गावो वसन्ति वै ।
यत्र ब्रह्माक्षरं चापि गोलोको यत्र वर्तते ॥९७॥
गवां योगेन गोलोकः मे कृष्णस्य व्यजायत ।
यत्र गावस्तत्र चाहं लक्ष्मीः राधा च माणिकी ॥९८॥
प्रज्ञा पद्मावती श्रीश्च महालक्ष्मीः परेश्वरी ।
तत्राऽमृता पुरी दिव्या श्रीपुरी धामिनी शुभा ॥०१९॥
नित्या सर्वप्रभोगाढ्या दिव्योपकरणान्विता ।
दिव्यशक्तिगणाकीर्णा दिव्यवैभवशोभना ॥१००॥
शाश्वतानन्दसन्दोहा दिव्यभोज्यसुपानिका ।
दिव्यवासोद्यानवाटीशय्याविहारसंभृता ॥१०१॥
एवंविधां श्रीपुरीं वै लभते गोसहस्रदः ।
गोलोकं लभते चापि लभते चाऽक्षरं पदम् ॥१०२॥
लभते स ममैश्वर्यं शिवाराज्ञि! समस्तकम् ।
लभते स रसान् सर्वान् नारायणि! न संशयः ॥१०३॥
लभते विविधाः शक्तिर्दुःखहे! सुखसंभृताः ।
अश्नुते सर्वकामांश्च ब्रह्मणा सह धामनि ॥१०४॥
पठनाच्छ्रवणादस्य स्मरणादुपदेशनात् ।
प्रेरणाद् भुक्तिमुक्ती स लभते यजमानकः ॥१०५॥
नरो नारी सती साध्वी साधुर्देवो गुरुः प्रभुः ।
गोदानस्य प्रदो याति शाश्वतं ब्रह्म मत्पदम् ॥१०६॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने कल्पवृक्षमहादानगोसहस्रमहादानविधिनिरूपणनामा सप्तविंशत्यधिकशततमोऽध्यायः ॥१२७॥
N/A
References : N/A
Last Updated : May 04, 2021
TOP