संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः २०९ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः २०९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २०९ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं हूणभक्तस्य सत्कथाम् ।नाम्ना सारंगसंज्ञस्य भूधरीग्रामवासिनः ॥१॥अरण्ये भूधरीग्रामे सौराष्ट्रे भक्तराण्मम ।कुटुम्बसहितो हूणजातीयो वर्तते रमे ॥२॥करोति स्नानमाद्यं च प्रपूज्य मां ततः परम् ।महिषीमण्डलं नीत्वा चारणार्थं तु शाद्वले ॥३॥घासारण्ये प्रयात्येव सायं गृहं प्रयात्यपि ।अरण्ये सन्ति सिंहाश्च व्याघ्राश्च भल्लुका अपि ॥४॥वृकाश्च द्वीपकाश्चापि हिंस्रा वै प्राणिनोऽपरे ।व्याघ्राः सिंहा धर्षयन्ति क्वचिद् गोमहिषीवृषान् ॥५॥मारयित्वा भक्षयन्ति त्रासदा दुःखदा हि ते ।हूणः सारंगनामा च पञ्चाशन्महिषीधनः ॥६॥घासेषूत्तममिष्टेषु महिषीश्चारयत्ययम् ।अथ मध्याह्नसमये पार्श्वद्रुषण्डमध्यतः ॥७॥कर्मद्यरण्यमार्गेण सिंहाः पञ्च समाययुः ।महिषीणां घासचारवृत्तीनां मण्डलोपरि ॥८॥निपेतुः सहसाऽकस्मात् सिंहाः पञ्चैव शब्दिताः ।बलिनश्चातिपुष्टाश्चाऽप्रधृष्याः क्षुद्रुडन्विताः ॥९॥अकस्मात्ता महिष्योऽपि पृष्ठबिन्दुं विधाय च ।परितो मुखचक्रं संरक्ष्याऽपत्यानि मध्यके ॥१०॥क्रुधा प्राणप्ररक्षार्थं भयेन मण्डलीकृताः ।संभूय ग्रामरचनां विधाय चक्रिरेऽवनम् ॥११॥सिंहा महिषीग्रामं वै दृष्ट्वा प्राप्य भयं द्रुतम् ।पश्चाद् विवृत्य ते दूरे मुमुचुर्वै मुहुर्मुहुः ॥१२॥कुगन्धिवातनिवहान् पशूनां भयहेतवे ।येन स्वमण्डलाद् भूत्वा पृथक् चेद् विद्रवेत् तदा ॥१३॥सिंहास्ता धर्षयेयुश्च मारयेयुः स्वभोजनम्।तथा चक्रुर्गर्जनाश्च दर्शयामासुरुग्रताम् ॥१४॥तथापि ता महिष्यस्तु सार्थाद् बहिर्न निर्ययुः ।एवमेव स्थितौ सिंहा गर्जन्त्येव भयंकरम् ॥१५॥श्रुत्वा चान्ये दश सिंहाश्चाययुर्भक्ष्यहेतवे ।चक्रकं परितश्चक्रःु सिंहास्ते दशपञ्च च ॥१६॥महिष्यस्तु समग्रास्ताः प्रतिचक्रे यथास्थिताः ।न द्रवन्ति निस्सरन्ति नाप्नुवन्ति न ताश्च ते ॥१७॥एवमेवाऽभवत् सायं सिंहा दूरे भवन्ति न ।अथ सारंगहूणश्च प्रजज्वाल तदाऽनलम् ॥१८॥महिषीणां परितश्च समिधां सञ्चये पृथक् ।वह्निभयेन सिंहाश्चेद् दूरे यान्तीति चिन्तया ॥१९॥तथापि क्रूरकालास्ते दूरे याता न सर्वथा ।परितस्ते भ्रमन्त्येव मारणार्थं द्रवन्ति च ॥२०॥निशामुखं समापन्नं साहाय्यस्तत्र नास्ति च ।रात्रौ सिंहबलं चाति जायते तमसि वृते ॥२१॥महिषीणां विनाशः स्यात् किं कर्तव्यं विपद्भुवि ।विना नारायणं कृष्णं सहायदो न विद्यते ॥२२॥रक्षको भगवानेव महापत्काल आगते ।मत्वैवं तेन वै लब्धं मन्त्रं जजाप तन्मयः ॥२३॥लोमशाद् यो मन्त्रवरः प्राप्तोऽश्वपट्टतीर्थिना ।तेन पुरा च तं मन्त्रं जजाप हूणभक्तराट् ॥२४॥ 'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।अष्टोत्तरशतवारं जप्त्वा नेमेऽम्बरे हरिम् ॥२५॥अनादिश्रीकृष्णनारायण विष्णो जगद्गुरो ।बालकृष्ण हरेकृष्ण रक्ष रक्षय मामिह ॥२६॥शरणागतसंत्रातः पाहि सिंहापदस्त्विह ।अरण्ये त्वां विना कृष्ण रक्षकोऽन्यो न विद्यते ॥२७॥हरेकृष्ण बालकृष्ण शीघ्रमायाहि रक्ष नः ।अन्धकारे वर्धमाने मृत्युर्नः स्यान्न संशयः ॥२८॥भक्तोऽस्मि चेत्तव कृष्णनरायण प्ररक्षय ।प्राणिनां जायते मृत्युः क्वापि नैवाऽत्र संशयः ॥२९॥किन्तु कृष्ण प्रसह्याऽत्र देहानां नखभेदनैः ।महिषीणां त्वकालेऽत्र मृत्युर्योग्यो न मे मतः ॥३०॥यासां दुग्धं हि भगवन् पीयते प्रत्यहं त्वया ।प्रातर्वै पूजने कृष्ण नैवेद्ये दिवसे निशि ॥३१॥यद्घृतेन प्रदीपंते कारयामि निशामुखे ।तासां त्वं रक्षणं चेन्न करोषि निर्दयो नु किम् ॥३२॥यासां सुमधुरं चापि पिच्छलं दधि चोत्तमम् ।आस्वादयसि कृष्ण त्वं कथं नैव प्ररक्षसि ॥३३॥शीघ्रमायाहि रक्षार्थं नो चेद् भक्तस्तवाऽस्मि यः ।स एव प्रथमं प्राणाँस्त्यक्ष्यामि पशुहेतवे ॥३४॥आश्रितानां रक्षणं वै कार्यं प्राक् स्वामिना सदा ।स्वामिनाशे ततो नाशः स्वामिदोषाय नेष्यते ॥३५॥इमा महिष्यो मां कृष्ण वीक्षन्ति रक्षकं प्रति ।मयि कृष्ण हृदये त्वं स्थितः सन् किन्न पश्यसि ॥३६॥पश्य पश्य हरे कृष्ण महापत्पतिता इमाः ।भक्षको भक्षक एव मास्तु चास्त्वपि रक्षकः ॥३७॥इत्युक्त्वाऽश्रूणि लक्ष्मि संमुमोच भक्तराण्मम ।सारंगहूणो दीर्घं वै श्वासं मुमोच निस्पृहः ॥३८॥मृत्युं गता वयं चेति मत्वा रुरोद वै क्षणम् ।सिंहा बलं प्रकुर्वन्ति दूरे वह्निभयात् स्थिताः ॥३९॥सारंगो वह्निबलवान् वह्निकाष्ठानि चाभितः ।प्राज्वाल्याप्यभिप्राज्वाल्य निक्षिपति स्थले स्थले ॥४०॥यावद्बुद्धिबलं यत्नः कर्तव्यः प्राणरक्षणे ।मत्वैवं कुरुते यत्नं विष्णोरिच्छा बलीयसी ॥४१॥हस्ते कृत्वा ज्वलत्काष्ठं भ्रमँश्च परितस्तदा ।रक्षार्थं स्वमहिषीणां भजनं कुरुते ह्यति ॥४२॥ 'हरे कृष्ण हरे कृष्ण बालकृष्ण श्रियः पते ।हरे विष्णो हरे जिष्णो कृष्णकृष्ण रमापते' ॥४३॥इत्येवं चोर्ध्वकण्ठेन चक्रे मे कीर्तनं रमे ।अथाऽह तस्य रक्षार्थं महिषीरक्षणाय च ॥४४॥द्रागेव सिंहराजस्य रूपं केसरिणो महत् ।सशुण्ढं सन्दधारैव येन बिभ्यति वै द्रुतम् ॥४५॥सिंहा व्याघ्रा गजाश्चापि शरभाः किमुत मृगाः ।अतिक्रूरं विकरालं शुण्ढादण्डधरं नवम् ॥४६॥महाकेसरिराजस्य रूपं धृत्वा गतोऽभवम् ।गर्जनां मेघवत् कृत्वाऽरण्यं पशूनकम्पयम् ॥४७॥सिंहास्ते मां महासिहं विद्युद्भाचक्षुषं नरम् ।समस्तसिंहजातीनां राजानं च भयंकरम् ॥४८॥शतोर्ध्वबलिनं श्रुत्वा भयं चापुर्महावने ।अथाऽहं सहसाऽरण्यादुत्प्लुत्याऽऽकाशमेव तु ॥४९॥शतहस्ताऽम्बरं विध्वा न्यपतं सिंहसन्निधौ ।तावत् सिंहा महाभीतिनष्टधैर्या ममाऽग्रतः ॥५०॥सहसा मृत्युरूपस्य मुखात्ते समुपाद्रवन् ।अरण्ये विविशुः सर्वे मद्भयेन मृगाधिपाः ॥५१॥सिंहाधिपोऽहं सहसा विद्राव्य तान् मृगाधिपान् ।धृतमानववेषोऽहं तूर्णमभवं गोचरः ॥५२॥प्रसन्नवदनः शान्तः शंखचक्रगदाब्जवान् ।सान्त्वयन् भक्तमहिषीर्भक्तं च सान्त्वयन्नपि ॥५३॥अन्तिकं प्रययौ सारंगोऽपि दृष्ट्वा हरिं च माम् ।मुमुदे प्राप्तजीवश्च तुष्टाव परया मुदा ॥५४॥पपात पादयोश्चापि महिषीर्निर्भयै रवैः ।बोधयामास सर्वाश्च महिष्यो निर्भया अपि ॥५५॥मुमुदुः सुखवत्यश्च जातास्तत्र नरद्वयात् ।प्राप्तधैर्याः समभवन्नथ सारंगभक्तराट् ॥५६॥लक्ष्मि दुग्धं प्रदुह्यैव पाययामास मे तदा ।पपौ चाऽहं महिषीणां सर्वासां दुग्धमुत्तमम् ॥५७॥ततः सारंगभक्तेन साकं महिषीभिस्तथा ।शनैः शनैरगच्छं तद्धोषं भूधरीगोपुरे ॥५८॥आप्रातस्तत्र मुदितो न्यवसं भक्तपूजितः ।भक्तानिकया तत्पत्न्या सेवितोऽन्यैश्च हूणकैः ॥५९॥नामसंकीर्तनाद्यैश्च पादसंवाहनादिभिः ।जलार्पणैस्तथा चान्यमहोत्सवैः प्रतोषितः ॥६०॥अथ प्रातः साधुरूपोऽभवं सूर्यप्रभागमे ।सेवितस्तैः समस्तैश्च भोजनैः पुष्पगन्धिभिः ॥६१॥पृष्टोऽहं हूणभक्तैश्च कल्याणाय तथा रमे ।पापप्रणाशनार्थाय तेभ्यश्चोपादिदेश च ॥६२॥शृण्वन्तु मम भक्ताः स्थ सर्वेऽपि स्थूलबुद्धयः ।तथापि श्रेयसे यत्नं कुर्वन्तः सूक्ष्मबुद्धयः ॥६३॥भवन्तः खलु विद्यन्ते मोक्षधीः सूक्ष्मधीर्हि सा ।स्वश्रेयसे य उद्युक्तास्ते वै सुसूक्ष्मबुद्धयः ॥६४॥लौकिकव्यवहारेषु निपुणाश्चेत् स्वश्रेयसे ।सुप्ता यदि ते मूर्खा वै स्थूलधियो मताः सदा ॥६५॥मायावृता जडा मूर्खाः कथ्यन्ते पशुसदृशाः ।अपि राजा प्रधानो वा गुरुर्वा शिक्षकोऽपि वा ॥६६॥अधीतविद्यो वा स्याच्चेद् यतते न स्वमुक्तये ।स एव स्थूलबुद्धिर्वै मूर्खो याम्यं गमिष्यति ॥६७॥मम भक्तौ वर्तमाना दिव्यास्ते मानवाः स्त्रियः ।अभक्ता ये ते तु बोध्या निरयस्थाः पशुप्रभाः ॥६८॥मम भक्ताः स्वनेत्राभ्यां लभन्ते दर्शनं मम ।अप्राकृते हि तन्नेत्रे बाध्ये मद्योगतः सदा ॥६९॥भक्तचित्ते हरिश्चाऽहं वसामि दिव्यमेव तत् ।भक्तानां वर्ष्म दिव्यं चेन्द्रियाणि दिव्यकानि च ॥७०॥अन्तःकरणं दिव्यं च क्रिया दिव्याः सदा तथा ।अहमक्षरधामस्थो वसामि भूतले क्वचित् ॥७१॥क्वचिदत्र समायातो भवामि भक्तसदृशः ।तथापि दिव्य एवाऽस्मि भवन्तो दिव्यमूर्तयः ॥७२॥दिव्याश्च महिष्यः सर्वा भक्ता दिव्या नराः स्त्रियः ।सर्वात्मात्मा स्वतन्त्रोऽहं सर्वशक्तिपतिः प्रभुः ॥७३॥परात्परतरश्चास्मि राधालक्ष्मीपतिर्हरिः ।सर्वकारणरूपश्च व्यतिरिक्तश्च धामनि ॥७४॥स एवाऽहं साधुरूपो भवाम्यत्र सुगोचरः ।मम योगेन वल्लव्यो हूण्यश्च दिव्यतां गताः ॥७५॥वश्च बाह्यान्यान्तराणि करणान्यखिलान्यपि ।तादात्म्यं प्राप्य मां साक्षात्पश्यन्ति दिव्यकानि तत् ॥७६॥अमायिकेन दृश्योऽहं नान्यथा तु कदाचन ।कृपया च स्वयं भक्ता ग्राह्योऽस्मि नेतरेण वै ॥७७॥मायातत्त्वानि सर्वाणि दिव्यतां यान्ति मत्स्पृशेः ।पञ्चविंशो हि जीवात्मा मुक्तो भवति मद्युजेः ॥७८॥षड्विंशोऽहं च भगवान् पुरुषोत्तम एव यः ।वशे भवामि भक्तस्य सर्वावतारकारणम् ॥७९॥मायागुणरहितोऽस्मि दिव्यमद्गुणमण्डितः ।ईश्वराद्यैः पूजितश्च भक्तमध्ये च तादृशः ॥८०॥मां भजित्वा सेवयित्वा मत्वा दिव्यं नरायणम् ।यान्ति धामाऽक्षरं भक्ता दिव्यपार्षदसेवितम् ॥८१॥स्त्रियो मद्योगमापन्ना भवन्ति दिव्यविग्रहाः ।गावो महिष्यो वृषभा मद्योगे दिव्यतां गताः ॥८२॥कन्यका मम योगेन ऋषयः साधवस्तथा ।कुमारा अपि गोपाला दिव्यतां मत्समा गताः ॥८३॥अपि ब्रह्मप्रियाः पत्न्यो वृक्षाश्च वल्लिकास्तथा ।मम योगेन दिव्यास्ता मत्समाः परिवर्तिताः ॥८४॥मां भजन्तु ततो नित्यं पाययन्तु जलं पयः ।फलं मूलं च कन्दं च मिष्टान्नं पत्रमित्यपि ॥८५॥प्रातर्भक्तिं प्रकुर्वन्तु मध्याह्ने सायमित्यपि ।रात्रौ दिवा च मां कृष्णं स्मरन्तु सर्वकर्मसु ॥८६॥साधूनां सेवनं नित्यं कुर्वन्तु चान्नवारिभिः ।भजनं कीर्तनं मे च कुर्वन्तु नित्यमुत्सुका. ॥८७॥मुक्तिमन्तेऽक्षरे लोके दास्ये गोपीपतिस्त्वहम् ।स्वर्गभोगाँस्तु निपुणान् सकामेभ्यः सुखावहान् ॥८८॥इत्युक्त्वा च महाशंखं दत्वा यद्धोषतः सदा ।हिंस्रा दूरं प्रयास्यन्तीत्युक्त्वा लब्ध्वा प्रपूजनम् ॥८९॥तिरोऽभवं वनाल्लक्ष्मि ते च सारंगहूणकाः ।सुखिनश्चाऽभवँश्चान्ते धामाऽक्षरं प्रपेदिरे ॥९०॥एवं ये वनवासा वा ग्रामवासाः पृथग्गृहाः ।दीना वापि नरा नार्यो ये भजन्ते हरिं तु माम् ॥९१॥तानुद्धरामि कष्टाद्वै स्मृतमात्रः प्रभुस्त्वहम् ।भुक्तिं मुक्तिं ददाम्येवाऽऽनन्दितां शाश्वतीं स्थितिम् ॥९१॥पठनाच्छ्रवणादस्य स्मरणादपि पापिनाम् ।पापनाशो भवेन्मुक्तिर्भवेद् रक्षा च शाश्वती ॥९२॥इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने सारंगनामकस्य हूणभक्तस्य महिषीपशुधनस्याऽरण्ये सिंहकृतापदः श्रीहरिणा रक्षणं कृतं मोक्षश्चेत्यादिनिरूपणनामा नवाधिकद्विशततमोऽध्यायः ॥२०९॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP