संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १७९ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १७९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १७९ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु लक्ष्मि भावुकाख्ये पुरे वैश्यो ह्यनाथकः ।आबाल्यान्मृतजनको जननीपोषितो ह्यमुम् ॥१॥माता नित्याश्रयानाम्नी पुत्रं तु वेशिनं सदा ।पालयत्येकमेवेयं वंशवृद्धिप्रमूलकम् ॥२॥नित्यं सा विधवा कृष्णमन्दिरे विप्रसन्निधो ।कथां श्रोतुं प्रयात्येव यया दुःखं प्रणश्यति ॥३॥कथाज्ञानेन सहसा धैर्यं प्रजायते शुभम् ।तापा नश्यन्ति दुःखानि चिन्तालयो भवत्यति ॥४॥सा संहितां प्रशुश्राव लक्ष्मीनारायणाभिधम् ।वर्षद्वयं प्रशुश्राव सर्वाख्यानानि भामिनी ॥५॥कथास्ता विविधाः श्रुत्वा ब्रह्मरूपा व्यजायत ।सती साध्वीधर्मयुत्ता वर्तते सा विदेहिनी ॥६॥नित्याश्रयेति स्वनाम्नोऽर्थं विवेद ततो हि सा ।नित्ये हरौ स्वामिदेवे त्वाश्रयो मम विद्यते ॥७॥हरिः पतिः प्रभुः स्वामी पत्नी तस्य भवाम्यहम् ।सेवनीयः सदाऽनादिकृष्णनारायणः प्रभुः ॥८॥गोपालबालकः साक्षात् कम्भरानन्दनोऽव्ययः ।कोट्यर्बुदाब्जलक्ष्मीनां पतिः श्रीपतिरीश्वरः ॥९॥स एव निजभक्तानां सर्वकामप्रपूरकः ।भुक्तिमुक्तिप्रदः स्वामी नारायणः प्रियः पतिः ॥१०॥एवं ज्ञानं समापन्ना व्रतं तपसि संस्थिता ।चक्रेऽनादिकृष्णनारायणमूर्तिप्रसेवनम् ॥११॥तया वै ताम्रपत्रे मे कारिता प्रतिमा शुभा ।तत्पूजा वै व्रतं नित्यं पालितं स्वार्पणात्मकम् ॥१२॥शृणु लक्ष्मि यथासेवां कृतवती तु साऽभवत् ।प्रातरुत्थाय पृथ्व्यां सा ओं श्रीकृष्णनरायण ॥१३॥इतिनाम्नामष्टोत्तरशतं जपति मालया ।ततो ध्यानं मम मूर्तेः करोति शयने स्थिता ॥१४॥पादौ जंघे जानुनी च सक्थिनी जघनादिकम् ।कटि नाभिमुदरं च वक्षः पृष्ठं द्विपार्श्वकम् ॥१५॥कण्ठं मुखं कपोलौ च गण्डौ भालं च चक्षुषी ।कर्णौ शिखां ध्यायतीति ततः स्नानं करोति सा ॥१६॥अनाथमाता भक्ता मेऽनादिकृष्णनरायण ।नामजपं करोत्येव स्नाने वारिघटं तु सा ॥१७॥सूर्याय पितृभ्यश्चापि ददाति द्युनिवासिने ।तुलसीपत्रपुष्पाणि स्तम्बेभ्यः स्वयमेव हि ॥१८॥आचित्वा चन्दनं घृष्ट्वा नीरवा चायाति वै गृहम् ।मूर्तिं मे त्वासने न्यस्याऽऽवाहनं चासनादिकम् ॥१९॥पाद्यमर्घ्यमाचमनीयकं जलं ददाति मे ।जलेन चन्दनेनापि वारिणा कुसुमैस्तथा ॥२०॥विना पञ्चामृतं पञ्चामृतनाम्नाऽर्चयत्यपि ।वस्त्रं यज्ञोपवीतं चाऽमलकं भूषणार्थकम् ॥२१॥तण्डुलान् सर्वशृंगारार्थं च कुंकुममुत्तमम् ।अर्पयत्येव मे साध्वी धूपं चन्दनचूर्णजम् ॥२२॥दीपं तैलेनाऽर्पयति नैवेद्यं चणकादिकम् ।फलं वा तिलपात्रं वा गूडं वा प्रातरेव सा ॥२३॥ददात्यपि यथालब्धं जलं तथाऽर्पयत्यपि ।नीराजनं करोत्येव घण्टीनादप्रपूर्वकम् ॥२४॥प्रदक्षिणां नमस्कारं स्तुतिं विसर्जनं शुभम् ।पुष्पाञ्जलिप्रपूर्वं च करोत्येवं सदा प्रगे ॥२५॥ततो वै गृहकार्यं सा करोति बाललालनम् ।बालस्य रक्षणं स्तन्यदानं बालस्य भोजनम् ॥२६॥भृत्यतालब्धसन्तुष्टा पोषणं सा करोति वै ।अन्नवस्त्रादिसन्तुष्टा पतिं कृष्णं प्रसेवते ॥२७॥ततो दासीस्वरूपा सा भृत्या भृत्यत्वकर्मणे ।याति श्रेष्ठिगृहे पात्रमञ्जनादिविधित्सया ॥२८॥भृत्याकार्यं विनिर्वर्त्य मध्याह्नेऽन्नफलादिकम् ।प्राप्यते श्रेष्ठिभार्यातस्तदादाय गृहं निजम् ॥२९॥समायाति मद्भजनाऽनादिकृष्णनरायण ।नित्यं श्रेष्ठिकुटुम्बं तच्छृणोति नामकीर्तनम् ॥३०॥मद्भक्तं तदभूत् सर्वं श्रेष्ठी वृद्धोऽपि रूपशः ।कालेन निधनं यातस्तदा नित्याश्रया गृहे ॥३१॥अनादिश्रीकृष्णनारायणेति धुन्यमाचरत् ।अहं तया समाकृष्टो ययौ वै श्रेष्ठिनोऽन्तिकम् ॥३२॥साक्षादभवं तस्याऽग्रे तस्याश्चाग्रे स्त्रियास्तथा ।दिव्यं मे मर्शनं दत्वा निन्ये धामाऽक्षरं हि तम् ॥३३॥विमानेन सुदिव्येन कुटुम्बं तद् व्यलोकयम् ।सर्वं मद्भक्तिमज्जातं तया ह्यनाथया रमे ॥३४॥मध्याह्ने ह्येवमेवेयं नित्यं श्रेष्ठिगृहक्रियाम् ।कृत्वाऽऽयाति गृहं नैजं भोजयित्वा निजं सुतम् ॥३५॥दुग्धं संपाययित्वा च भुंक्ते कृष्णस्मृतिस्थिता ।सायं निराजनं चापि करोति भजनं मम ॥३६॥भोजनं सा ततो दत्वा मह्यं कृत्वा स्वयं ह्यपि ।स्वपिति बालकं कृत्वा पार्श्वेऽपरे च मामपि ॥३७॥एवं नित्यं भजते मां नित्याश्रया तु वैष्णवी ।बालोऽपि मातृभक्तिं वै दृष्ट्वा भक्ततमोऽभवत् ॥३८॥यथा माता तथा पुत्रः संस्कृतश्चात्मवेदनः ।महाभागवतो बाल्ये रोमेऽर्हणादिखेलनैः ॥३९॥कृत्रिमां मृत्तिकामूर्तिं संस्थाप्य- वालुकासने ।कर्दमादिचन्दनाद्यैः पुपूज प्रतिमां मम ॥४०॥तृणपत्राणि भूस्थानि धृत्वाऽर्पयति भावतः ।पुष्पाणीति प्रमत्वैव मातृवत् सलिलं तथा ॥४१॥मृत्तिकाभग्नपात्रादौ समर्पयति सादरम् ।भोजनं निम्बपक्वसत्फलं चान्यद् ददाति च ॥४२॥प्रदक्षिणां दण्डवच्च करोति मालिकां तथा ।क्षमां सम्प्रार्थयत्येव दयां प्रसन्नतां हरेः ॥४३॥विसर्जयति सर्वं तत् ततो मित्रैः सहापि च ।रमते तु गृहाग्रे वै भजन्नारायणं तु माम् ॥४४॥एवं काले गते सोऽपि युवाऽभवत्प्रभक्तराट् ।माताऽपि भजते मां च प्रसन्नोऽहं तयोस्तदा ॥४५॥अभवं चागतस्तत्र विप्ररूपधरो हरिः ।भिक्षां तत्राऽर्थयामास नित्याश्रया तु मां तदा ॥४६॥ददौ वै रोटकं त्वेकं तक्रं ददौ प्रभुक्तये ।अहं गृहांगणे तत्र निषद्य भुक्तवान् मनाक् ॥४७॥अर्धं तु रोटकं तस्मै बालाय चार्पयं तथा ।तक्रं प्रददौ स्वल्पं च दुग्धं तत्कृतवानहम् ॥४८॥युवा पुत्रो विस्मितश्चोवाच त्वमातरं मुहुः ।मातस्तक्रमिदं दुग्धं जातं विप्रप्रसादतः ॥४९॥रोटकोऽयं मिष्टमिश्रो घृताक्तोऽपि व्यजायत ।सोऽयमतश्चमत्कारी विद्यते ब्राह्मणोत्तमः ॥५०॥माताऽऽश्चर्यं परं श्रुत्वा मुग्धा व्यलोकयत् प्रभुम् ।दृष्ट्या दृष्टिं सम्प्रयोज्य तावच्चतुर्भुजोऽभवम् ॥५१॥दिव्यो दिव्यावयवश्च दिव्यसर्वांगभूषणः ।दिव्यचिह्नोऽभवं लक्ष्मीसहितः पुरुषोत्तमः ॥५२॥तदा सा मां विलोक्यैव श्रीपतिं परमेश्वरम् ।पपात पादयोर्मे च त्रायस्व व्याजहार च ॥५३॥पुत्रः केशीसंज्ञकश्च ज्ञात्वा मां परमेश्वरम् ।अनाथनाथं श्रीकृष्णं पपात पादयोर्मम ॥५४॥तुष्टाव मां बालकश्च माता तुष्टाव विह्वला ।कृष्ण कृष्णकृपासिन्धो ह्यनाथनाथ माधव ॥५५॥तव स्वो भवसंसारात् तारय श्रीर्हरे पते ।अनादिश्रीकृष्णनारायणश्रीकृष्णमत्प्रभो ॥५६॥भवता विप्ररूपेण तारितौ मातृपुत्रकौ ।अनाथानां भवान् नाथश्चेति सत्यं वचस्तव ॥५७॥मया कथा हि बहुधा श्रुता ते परमेश्वर ।विरागं परमं प्राप्य सेवितोऽसि जनार्दन ॥५८॥ज्ञानं प्राप्य पतिं ज्ञात्वा त्वां भजामि च नित्यदा ।बालोऽयं भवतो नाथ त्वं निभालय पुत्रकम् ॥५९॥मां धामाऽक्षरसंज्ञं ते नय श्रीपुरुषोत्तम ।स्वामिन् कान्त सुहृद् बन्धो रक्षक श्रीहरेऽव माम् ॥६०॥इत्येवमुक्त्वा सा लक्ष्मि पुष्पाञ्जलिं ददौ मयि ।पादौ जग्राह मे चापि रुरोद प्रेमविह्वला ॥६१॥प्लावितौ मम पादौ तु तदश्रुभिस्तया रमे ।पुत्रोऽपि चात्मनिवेदी प्रेमाश्रूणि मुमोच ह ॥६२॥मुक्तिं देहि कृपासिन्धो परमेश श्रियः पते ।इत्युवाच करौ धृत्वा वक्षो वक्षो नियुज्य च ॥६३॥आश्लिष्टवान् यथा पुत्रः पितरं तत्तथा स माम् ।मयाऽश्रूणि प्रमुक्तानि पुत्रं भक्ततमं प्रति ॥६४॥स तैराप्लुत एवाऽभूद् दिव्यदृष्टिस्ततोऽभवत् ।निभालिता च तन्माता कृपादृष्ट्या मया रमे ॥६५॥साऽपि दिव्या दिव्यदृष्टिस्तदा तूर्णं व्यवर्तत ।त्रिकालज्ञौ कृपया मे निर्बन्धो सिद्धिसंश्रितौ ॥६६॥लक्ष्मीवन्मुक्तवत् तौ तु जातौ दिव्यविहारिणौ ।दिव्योपकरणैस्तत्र संकल्पितैः समाहृतैः ॥६७॥पूजयामासतुर्मां च मुमुचतुर्न मां हि तौ ।अत्र वासं कुरु कृष्णेत्याहतुस्तौ मुहुर्मुहुः ॥६८॥यद्वा नय नौ सहैवेत्येव जगदतुस्तदा ।अहं रूपं सुसंकुच्य विप्ररूपः पुनस्तदा ॥६९॥अभवं तौ सिषेवाते व्यजनेन करैस्तथा ।अहं विचार्य मुक्तिं वै तयोर्दिव्यस्वरूपिणौ ॥७०॥सहैव नीत्वा सूर्याभे विमाने चाऽध्यरोहयम् ।पुत्रं तु केशिनं प्रसूं नित्याश्रयां ह्यनाथिनीम् ॥७१॥प्रापयामास तूर्णं मे धामाऽक्षरं परं पदम् ।एवं लक्ष्मि ह्यनाथानां नाथोऽहं भवतारकः ॥७२॥वल्लभोऽस्मि प्रभक्तानां मोक्षदः सुदयावशः ।पठनाच्छ्रवणाच्चाऽस्य भुक्तिर्मुक्तिर्भवेच्छुभा ॥७३॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने अनाथाया नित्याश्रयायास्तत्पुत्रस्य केशिनश्च भागवतीं भक्तिं दृष्ट्वा भगवता दत्तं दर्शनं मोक्षणंचेत्यादिनिरूपणनामा नवसप्तत्यधिकशततमोऽध्यायः ॥१७९॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP