संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १५३ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १५३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १५३ Translation - भाषांतर श्रीनारायणीश्रीरुवाच-यात्रायां का दिशा श्रेष्ठा कनिष्ठा का कदा मता ।प्रस्थानं च कदा श्रेष्ठं कदा किं कर्म शोभनम् ॥१॥अशोभनं कदा स्याच्च नक्षत्रवारयुक्तिथौ ।तत्सर्वं मे समाचक्ष्व लोककल्याणहेतवे ॥२॥श्रीपुरुषोत्तम उवाच-कृत्तिका त्वग्निदैवत्या रोहिणी ब्रह्मदेवता ।मृगशिरा सोमदेवा चाऽऽर्द्रा तु रुद्रदेवता ॥३॥पुनर्वसुः सूर्यदेवा पुष्यं तु गुरुदैवतम् ।अश्लेषा सर्पदैवत्या मघा तु पितृदेवता ॥४॥पूर्वाफाल्गुनिका बोध्या पद्मजे भगदेवता ।उत्तराफाल्गुनी बोध्या पद्मजेऽर्यमदेवता ॥५॥हस्ता सवितृदेवा च चित्रा तु त्वष्ट्रदेवता ।स्वाती तु वायुदैवत्या विशाखेन्द्राग्निदेवता ॥६॥अनुराधा मित्रदेवा ज्येष्ठा तु शक्रदेवता ।मूला निर्ऋतिदैवत्या पूर्वाषाढाऽऽप्यदेवता ॥७॥उत्तराषाढिका वैश्वदेवता परिकीर्तिता ।अभिजित् ब्रह्मदैवा च श्रवणा विष्णुदेवता ॥८॥धनिष्ठा वसुदेवा वारुणदेवा शतभिषा ।अजदेवा पूर्वभाद्रोत्तरभाद्राऽहिर्बुध्निका ॥९॥पुषादेवा रेवती चाश्विनीदेवा तथाऽश्विनी ।भरणी यमदेवा च प्रोक्तास्ते ऋक्षदेवताः ॥१०॥ब्रह्माणी संस्थिता पूर्वे प्रतिपन्नवमीतिथौ ।माहेश्वरी चोत्तरे च द्वितीयादशमीतिथौ ॥११॥पञ्चम्यां च त्रयोदश्यां वाराही दक्षिणे स्थिता ।षष्ठ्यां चापि चतुर्दश्यामिन्द्राणी पश्चिमे स्थिता ॥१२॥सप्तम्यां पौर्णमास्यां च चामुण्डा वायुकाष्ठिका ।अष्टम्यमावास्यदिने लक्ष्मीस्त्वीशानगा मता ॥१३॥एकादश्यां त्रयोदश्यामग्निकोणे तु वैष्णवी ।द्वादश्यां च चतुर्थ्यां तु कौमारी नैर्ऋते सती ॥१४॥योगिनीसम्मुखे नैव गमनादि प्रकारयेत् ।अश्विनी रेवती चापि मृगा मूला पुनर्वसुः ॥१५॥पुष्या हस्ता तथा ज्येष्ठा प्रस्थाने श्रेष्ठताप्रदाः ।हस्त्यादिपञ्चऋक्षाणि ह्युत्तरात्रयमित्यपि ॥१६॥अश्विनी रोहिणी पुष्या धनिष्ठा च पुनर्वसुः ।वस्त्रप्रावरणे श्रेष्ठा सौभाग्यवर्धका अपि ॥१७॥कृत्तिका भरण्यश्लेषा मघा मूला विशाखिनी ।तिस्रः पूर्वा अधोवक्त्रा अधःकार्याणि तत्र वै ॥१८॥वापीकूपतडागादिभूमिखनिप्रगह्वरम् ।देवागारस्य खननं निधानखननं तृणम् ॥१९॥गणितं ज्योतिषारम्भं खनिबिलप्रवेशनम् ।कुर्यात्तान्येव सिद्ध्यन्ति चाधःकार्याणि सर्वथा ॥२०॥रेवती चाश्विनी चित्रा स्वाती हस्ता पुनर्वसुः ।अनुराधा मृगो ज्येष्ठा ह्येताः पार्श्वमुखा मताः ॥२१॥गजोष्ट्राऽश्वबलीवर्ददमनं महिषस्य गोः ।बीजानां वपनं कुर्यान्नावादीनां प्रवाहणम् ॥२२॥चक्रयन्त्ररथानां च गमनं चाऽऽगमादिकम् ।रोहिण्यार्द्रा तथा पुष्या धनिष्ठा चोत्तरात्रयम् ॥२३॥शतभीषा श्रवणं च नव तूर्ध्वमुखा मताः ।आसु राज्याभिषेकं च पट्टबन्धं प्रकारयेत् ॥२४॥ऊर्ध्वमुखान्युच्छ्रितानि सर्वाण्येतासु कारयेत् ।चतुर्थी त्वशुभा षष्ठी चाष्टमी नवमी तथा ॥२५॥अमावास्या पूर्णिमा च द्वादशी च चतुर्दशी ।अथ शुभा प्रतिपत्तु कृष्णा बुधे द्वितीयका ॥२६॥तृतीया मंगलयुक्ता चतुर्थी शनिवासरे ।गुरौ तु पञ्चमी, षष्ठी शुभा मंगलशुक्रयोः ॥२७॥सप्तमी बुधसोमस्थाऽष्टमी मंगलसूर्यगा ।नवमी सोमवारस्था दशमी गुरुवारिका ॥२८॥एकादशी गुरुव्याप्ता द्वादशी बुधवासरे ।त्रयोदशी शुक्रभौमौ शनौ श्रेष्ठा चतुर्दशी ॥२९॥पौर्णमास्यप्यमावास्या श्रेष्ठा बोध्या बृहस्पतौ ।द्वादशीं दहति सूर्यः शशी त्वेकादशी दहेत् ॥३०॥भौमो दहेच्च दशमीं नवमीं तु बुधो दहेत् ।गुरुर्दहति चाष्टमीं सप्तमीं भार्गवो दहेत् ॥३१॥शनैश्चरो दहेत्षष्ठीं गमनं चासु नास्ति वै ।प्रतिपन्नवमीष्वेव चतुर्दश्यष्टमीषु च ॥३२॥बुधवारे च प्रस्थानं दूरतः परिवर्जयेत् ।मेषे कर्कटके षष्ठी कन्यायां मिथुनेऽष्टमी ॥३३॥वृषे कुंभे चतुर्थी च द्वादशी मकरे तुले ।दशमी वृश्चिके सिंहे धनुर्मीने चतुर्दशी ॥३४॥एता दग्धा न गन्तव्यं देहिजीवादिमानवैः ।विशाखात्रयमादित्ये पूर्वाषाढात्रये शशी ॥३४९॥धनिष्ठात्रितयं भौमे बुधे तु रेवतीत्रयम् ।रोहिण्यादित्रयं गुरौ शुक्रे पुष्यत्रयं रमे! ॥३६॥शनैश्चरे वर्जयेच्च तूत्तराफाल्गुनीत्रयम् ।एष औत्पातिको योगो मृत्युरोगादिकारकः ॥३७॥मूलेऽर्कः श्रवणे चन्द्रः प्रोष्ठपद्युत्तरे कुजः ।कृत्तिकासु बुधश्चैव गुरौ लक्ष्मि पुनर्वसुः ॥३८॥पूर्वफाल्गुनिका शुक्रे स्वातिश्चैव शनैश्चरे ।एते ह्यमृतयोगाः स्युः सर्वकार्यप्रसाधकाः ॥३९॥विष्कंभे घटिकाः पञ्च शूले सप्त प्रकीर्तिताः ।षड्गण्डे चातिगण्डे च नव व्याघातवज्रयोः ॥४०॥व्यतीपाते परीघे च वैधृते च दिने दिने ।वर्जनीया मृत्युयोगा ह्येते कार्यविनाशकाः ॥४१॥हस्तेऽर्कश्च गुरुः पुष्ये ह्यनुराधाबुधे शुभा ।रोहिणी तु शनौ श्रेष्ठा सोमे च शतभीषणा ॥४२॥शुक्रे तु रेवती श्रेष्ठा ह्यश्विनी मंगले शुभा ।एते ते सिद्धियोगाः स्युः सर्वदोषविनाशकाः ॥४३॥भार्गवे भरणी चापि सोमे चित्रा तु पद्मजे ।भौमे चैवोत्तराषाढा धनिष्ठा तु बुधे यदा ॥४४॥गुरौ शतभिषा चापि शुक्रे वै रोहिणी तथा ।शनौ तु रेवती चापि विषयोगा हि ते मताः ॥४५॥पुष्यः पुनर्वसुश्चैव रेवती चापि चित्रिका ।श्रवणा च धनिष्ठा च हस्ताऽश्विनी मृगा तथा ॥४६॥शतभीषा चापि योग्या जातकर्मादिकर्मणाम् ।विशाखा चोत्तरा तिस्रो मघाऽऽर्द्रा भरणी तथा ॥४७॥अश्लेषा कृत्तिका चैताः प्रस्थाने मरणप्रदाः ।षडादित्ये दशा बोध्याः सोमे पञ्चदश स्मृताः ॥४८॥अष्टौ तु मंगले बोध्या बुधे सप्तदश स्मृताः ।शनैश्चरे दश बोध्या गुरावेकोनविंशतिः ॥४९॥राहौ द्वादशवर्षाणि ह्येकविंशतिर्भार्गवे ।रवेर्दशा दुःखदा स्यादुद्वेगनृपनाशकृत् ॥५०॥विभूतिदा सोमदशा सुखमिष्टान्नदा तथा ।दुःखप्रदा भौमदशा राज्यादेः स्याद् विनाशिनी ॥५१॥दिव्यस्त्रीदा बुधदशा राज्यदा कोषवृद्धिदा ।शनेर्दशा राज्यनाशबन्धुदुःखकरी भवेत् ॥५२॥गुरोर्दशा राज्यदा स्यात् सुखधर्मादिदायिनी ।राहोर्दशा राज्यनाशव्याधिदा दुःखदा भवेत् ॥५३॥हस्त्यश्वदा शुक्रदशा राज्यस्त्रीलाभदा भवेत् ।मेषमंगारकक्षेत्रं वृषं शुक्रस्य कीर्तितम् ॥५४॥मिथुनस्य बुधः क्षेत्रं सोमः कर्कटकस्य च ।सूर्यक्षेत्रं भवेत् सिंहः कन्याक्षेत्रं बुधस्य च ॥५५॥भार्गवस्य तुलाक्षेत्रं वृश्चिको मंगलस्य च ।धनुर्बृहस्पतेः क्षेत्रं शनेर्मकरकुंभकौ ॥५६॥मीनः सुरगुरोश्चेति क्षेत्रेष्टं लाभदं क्रये ।पौर्णमास्याद्वयं यत्र पूर्वाषाढाद्वयं भवेत् ॥५७॥द्विराषाढः स विज्ञेयो विष्णुः स्वपिति कर्कटे ।अश्विनी रेवती चित्रा धनिष्ठा स्यादलंकृतौ ॥५८॥मृगाऽहिकपिमार्जारश्वानः शूकरपक्षिणः ।नकुलो मूषिकश्चैव यात्रायां दक्षिणे शुभाः ॥५९॥विप्रकन्या शवं हस्ती शंखो भेरी वसुन्धरा ।वेणुः स्त्री पूर्णकुम्भश्च यात्रायां शुभदर्शनाः ॥६०॥जम्बुकोष्ट्रखराद्याश्च यात्रायां वामके शुभाः ।कार्पासौषधितैलानि पक्वांगारभुजंगमाः ॥६१॥मुक्तकेशी रक्तमाला नग्नश्चाऽशुभलक्षणाः ।हिक्का पूर्वे फलदा चाऽग्नेये सन्तापशोकदा ॥६२॥दक्षिणे हानिदा शोकसन्तापदा तु निर्ऋते ।मिष्टान्नदा पश्चिमे तु वायव्येऽर्थप्रदा मता ॥६३॥उत्तरे कलहा चेशाने तु मृत्युप्रदा भवेत् ।सूर्यं नरस्वरूपं तु विलिख्य तस्य ऋक्षकम् ॥६४॥तदादित्रयमास्थेयं मस्तके त्रयमानने ।एकैकं स्कन्धयोर्बाहुयुग्मे च हस्तयोर्न्यसेत् ॥६५॥हृदये पञ्च नाभौ त्वेकं गुह्ये चैकमित्यपि ।एकैकं जानुके शिष्टानि तु पादे नियोजयेत् ॥६६॥चरणस्थेन ऋक्षेण त्वल्पायुर्जायते नरः ।विदेशगमनं जानौ गुह्यस्थे परदारवान् ॥६७॥नाभिस्थेनाऽल्पसन्तुष्टो हृत्स्थेन तु महेश्वरः ।पाणिस्थेन भवेच्चौरः स्थानभ्रष्टो भवेद् भुजे ॥६८॥स्कन्धस्थेन धनपतिर्मुखे मिष्टान्नमाप्नुयात् ।मस्तके पट्टवस्त्राढ्यश्चेति तदृक्षवत्फलम् ॥६९॥सप्तमोपचयश्चन्द्रः श्रेष्ठः शुक्ले द्वितीयजः ।पञ्चमो नवमश्चापि लाभदः संभवत्वपि ॥७०॥चन्द्रस्य द्वादशाऽवस्था भवन्ति शृणु पद्मजे ।आश्विन्यास्तु समारभ्य त्रित्रिऋक्षेषु वै दशा ॥७१॥सार्धद्वयेषु बोध्या प्रथमा तु प्रवासदा ।द्वितीया हानिदा चापि तृतीया मृत्युदा मता ॥७२॥चतुर्थी जयदा हास्यप्रदा तु पञ्चमी दशा ।षष्ठी क्रीडारतिदा सप्तमी सुखमोददा ॥७३॥अष्टमी शोकदा भोगप्रदा तु नवमी दशा ।दशमी ज्वरदा कम्पप्रदा चैकादशी दशा ॥७४॥सुस्थितिदा द्वादशी च दशातुल्यं फलं मतम् ।जन्मस्थः कुरुते तुष्टिं द्वितीये सुखनाशकः ॥७५॥तृतीये राज्यसम्मानं चतुर्थे कलहप्रदः ।पञ्चमे स्त्रीप्रदः षष्ठे धनधान्यप्रदो भवेत् ॥७६॥सप्तमे रतिपूजादोऽष्टमे प्राणसन्देहकृत् ।नवमे कोषसञ्चयप्रदो दशमे सिद्धिदः ॥७७॥एकादशे जयदश्च द्वादशे मृत्युदः शशी ।कृत्तिकादौ पूर्वयात्रां सप्तक्षाणि तु संव्रजेत् ॥७८॥मघादौ दक्षिणे गच्छेदनुराधादौ पश्चिमे ।धनिष्ठादिसप्तसु यात्रोत्तरे श्रेष्ठा मता सदा ॥७९॥अश्विनी रेवती चित्रा धनिष्ठा वेषधारणे ।मृगाऽश्विचित्रापुष्याश्च मूला हस्ता शुभास्तु वै ॥८०॥कन्याप्रदाने यात्रायां प्रतिष्ठादिषु कर्मसु ।शुक्रचन्द्रौ तु जन्मस्थौ शुभदौ सर्वदा मतौ ॥८१॥चन्द्रबुधगुरुशुक्राः शुभदा वै द्वितीयके ।तृतीये भौममन्दार्कशशांकाः शुभदा मताः ॥८२॥बुधश्चतुर्थके श्रेष्ठः शुक्रगुरू तु पञ्चमौ ।चन्द्रकेतू तथा श्रेष्ठौ पच्चमौ परिकीर्तितौ ॥८३॥शनिश्चार्कश्च भौमश्च षष्ठे श्रेष्ठा मताः सदा ।गुरुश्चन्द्रः सप्तमे च बुधः. शुक्रस्तथाऽष्टमे ॥८४॥नवमे तु गुरुः श्रेष्ठो दशमेऽर्काऽर्किचन्द्रकाः ।एकादशे ग्रहाः सर्वे द्वादशे बुधभार्गवौ ॥८५॥सिंहेन मकरः श्रेष्ठः कन्यया मेष उत्तमः ।तुलया सह मीनस्तु कुंभेन सह कर्कटः ॥८६॥धनुषा वृषभः श्रेष्ठो मिथुनेन तु वृश्चिकः ।एवं प्रीत्यै भवत्येव सर्वं शुभफलप्रदम् ॥८७॥उदयादेव चारभ्य सूर्यो राशौ प्रतिष्ठति ।अह्नि षट्सु निशि षट्सु रात्रीषु संप्रवर्तते ॥८८॥घटिकाः पञ्च मीने च मेषे चापि तथाविधाः ।वृषे कुंभे चतस्रश्च तिस्रो मिथुने नक्रके ॥८९॥पञ्च चापे कर्कटे च षट् सिंहे वृश्चिके तथा ।सप्त तुले च कन्यायां घटिका परिकीर्तिताः ॥९०॥मेषलग्ने भवेद् वन्ध्या वृषे भवति कामिनी ।मिथुने सुभगा कन्या वेश्या भवति कर्कटे ॥९१॥सिंहे चैवाऽल्पपुत्रा सा कन्यायां रूपसंयुता ।तुलायां रूपमैश्वर्यं वृश्चिके कर्कशा भवेत् ॥९२॥सौभाग्यं धनुषि स्याच्च मकरे नीचगामिनी ।कुंभे चैवाल्पपुत्रा च मीने वैराग्यसंयुता ॥९३॥तुला कर्कटको मेषो मकरः स्थिरचारिणः ।पञ्चाननो वृषः कुम्भो वृश्चिकश्च स्थिरा मताः ॥९४॥कन्या धनुश्च मीनश्च मिथुनं द्विस्वभाविनः ।यात्रा चिरेण कर्तव्या प्रवेष्टव्यं स्थिरेण ह ॥९५॥देवस्थापनवैवाह्यं द्विस्वभावेन कारयेत् ।नन्दा भद्रा जया श्रेष्ठा रिक्ता वर्ज्या तिथिः सदा ॥९६॥नन्दा प्रतिपत् षष्ठी चैकादशीति तिथित्रयम् ।भद्रा द्वितीया सप्तमी द्वादशीति तिथित्रयम् ॥९७॥जयाऽष्टमी तृतीया च त्रयोदशी तिथित्रयम् ।रिक्ता चतुर्थी नवमी चतुर्दशी तिथित्रयम् ॥९८॥पूर्णा पञ्चमी दशमी पूर्णिमा ताः शुभा मताः ।बुधश्चरो गुरुः क्षिप्रो मृदुः शुक्रो रविर्ध्रुवः ॥९९॥शनिश्च दारुणो भौम उग्रः शशी समोऽपि च ।चरक्षिप्रैः प्रयातव्यं प्रवेष्टव्यं मृदुध्रुवैः ॥१००॥दारुणोग्रैश्च योद्धव्यं विजयः स्यान्न संशयः ।नृपाऽभिषेकोऽग्निकार्यं सोमवारे प्रशस्यते ॥१०१॥सोमे तुले प्रयाणं च गृहं च भवनादिकम् ।सैनापत्यं शौर्ययुद्धं शस्त्राभ्यासः कुजे शुभः ॥१०२॥सिद्धिकार्यं च मन्त्रश्च यात्रा चेति बुधे शुभाः ।पठनं देवपूजा च वस्त्राद्याभरणं गुरौ ॥१०३॥कन्यादानं गजारोहः स्त्रीसंगो भार्गवे शुभाः ।स्थाप्यं गृहप्रवेशश्च गजबन्धः शनौ शुभाः ॥१०४॥इत्येवं सर्वमालक्ष्य कार्यारम्भं प्रवर्तयेत् ।भुक्तिर्मुक्तिर्भवेच्चापि पठनाच्छ्रवणाद् रमे! ॥१०५॥नक्षत्राणि च योगिन्यस्तिथयो योगका अपि ।दशाश्चापि शकुनानि हिक्का स्थानानि वै तथा ॥१०६॥लग्नानि घटिका सर्वं मत्स्वरूपं विभावय ।यथापुण्यं देहिनो वै तथा समुपतिष्ठते ॥१०७॥अहं लक्ष्मि स्मृतस्तत्र पूजितो भोजितोऽपि च ।सेवितो वन्दितः प्रसादितश्च परिचारितः ॥१०८॥करोमि सर्वं सद्भाग्यं दुःस्थं सुस्थं करोमि च ।मां विज्ञाय च सर्वत्र कार्यध्वंसो न विद्यते ॥१०९॥सर्वं भक्तस्य सफलं नास्तिकस्य तु निष्फलम् ।आत्मवतः फलं श्रेष्ठं चानात्मनः कनिष्ठकम् ॥११०॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने नक्षत्रयोगिनीतिथियोगदशाशकुनहिक्कास्थानलग्नघटिकाविशेषे कार्याकार्यफलाऽफलादिनिरूपणनामा त्रिपञ्चाशदधिकशततमोऽध्यायः ॥१५३॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP