संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ७३ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ७३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ७३ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्व ययातेरुत्तराणि वै ।मानवे दिवि वा सत्ये विशेषो नैव वै मृतौ ॥१॥तस्माद्देहं विहायाऽहं गमिष्यामि न वै दिवम् ।नैव कायो विना प्राणं प्राणा जीवं विना न च ॥२॥जीवो नात्मानमृते च ह्यात्मा हरिं विना न च ।एतत्सर्व विहायाऽत्र स्वर्ग मे नैव रोचते ॥३॥येषां प्रसादभावेन सुखमश्नामि भूतले ।तान् संत्यक्त्वा स्वर्गभोगं भोक्ष्येऽहं नैव सर्वथा ॥४॥पश्य मे पुण्यभक्त्याड्य कायं विंशतिवर्षवत् ।अशीतिवर्षजीर्णोऽहं भजे देहं नवं यथा ॥५॥नैव ग्लानिर्न मे हानिर्न भ्रमो व्याधयो न च ।वर्धते धर्मभक्तिभ्यां बलवान् काय एव मे ॥६॥.सर्वामृतमयं दिव्यमोषधं भक्तिसंयुतम् ।धर्माख्यं क्रियते चात्र पापव्याधिप्रणाशनम् ॥७॥श्रीहरेः कीर्तनेनैव कायो मया हि शोधितः ।एतद्रसायनं नित्यं पिबामि पाचयामि च ॥८॥तेन मे च जरामृत्यू विद्येते नैव तद्बलात् ।ये पिबन्ति महाभक्ताः कृष्णनामरसायनम् ॥९॥तेषां देहो दिव्यरूपो जायते वै यथा मम ।हरेर्ध्यानेन भक्त्या च पूजया सेवया तथा ॥१०॥सत्येन दानपुण्येन मन्त्रजपेन मातले! ।भक्तिसंस्थापनेनाऽपि कायो मेऽस्ति निरामयः ॥११॥आशीर्वादैः सतां जातो मायाकालादिनिर्भयः ।हरेः कृपावशादत्र स्वर्गात्स्वर्गं ममाऽस्ति वै ॥१२॥हरेः पूजोपचारेण भक्त्या ध्यानेन कीर्तनैः ।सत्यदाननियमाद्यैः कायो मे दिव्यतां गतः ॥१३॥नाऽहं स्वर्गं गमिष्यामि स्वर्गमत्र करोमि वै ।याहि चेन्द्रं यथार्थं वै मयोक्तं सन्निवेदय ॥१४॥श्रुत्वा च मातलिस्तूर्णं ययाविन्द्रं न्यवेदयत् ।इन्द्रोऽपि चिन्तयित्वैव क्लृप्तानां चाऽपरां ततः ॥१५॥व्यरचयन्नृपं मोहयितुं चाह च मातलिम् ।शृणु त्वं मातले राजा विष्णुभक्तो दृढोऽस्ति वै ॥१६॥स तु भक्तिं परित्यज्य दिवं नाऽऽयास्यति क्वचित् ।किन्तु सदेह एवासावामन्त्रणीय आदरात् ॥१७॥विज्ञापनीयो विनयैर्देवाद्यैः सृष्टिनीतितः ।अथ वै मातलिश्चाज्ञां प्राप्य ययौ नृपं प्रति ॥१८॥राजा चक्रे च सम्मानं मातलिः प्राह वै स्फुटम् ।राजन्निन्द्रो वरुणश्च ममः कुबेरकोऽनलः ॥१९॥ईशानश्चाप्यनिलश्च निर्वृतश्च गुरुः कविः ।सर्वे त्वां मानयासुर्निजधिष्ण्याऽर्हमेव च ॥२०॥सर्वे निवेदयामासुर्लोकहितार्थमेव यत् ।सदेहेनाऽपि वै स्वर्गे देवहितार्थमित्यपि ॥२१॥आगन्तव्यं त्वया राजन्नित्यामन्त्रणमस्ति नः ।दृष्ट्वा श्रुत्वा यथेष्टं च सम्मिलित्वा सुरादिकान् ॥२२॥पुनर्गन्तव्यमेवाऽथ भूतले च यथेच्छया ।इत्युक्तः स तु राजर्षिः सम्मान्य दैवतं वचः ॥२३॥विमानवरमारुह्य ययौ मातलिना दिवम् ।दिक्पालानां सभायां स नृपः सम्मानितः सुरैः ॥२४॥सुरान्नत्वा निषसाद यथार्हं च ततः परम् ।मैत्रीं साप्तपदीनां च कृत्वा परस्परं ततः ॥२५॥इन्द्रो जगाद राजानं शृणु राजन् हितावहम् ।लोका वै मायया व्याप्ता मानवा देवतासुराः ॥२६॥त्वया लोका निर्जिताश्च विष्णुभक्त्या हि भूतले ।नृपे धर्मयुते तस्य प्रजा भवति धार्मिकी ॥२७॥नृपे भक्ते भक्तियुक्ता दुष्टे दुष्टा भवत्यपि ।भूतलं वैष्णवं धाम त्वया कृतं शुभं खलु ॥२८॥किन्तु राजन् यममार्गः स्वर्गमार्गोऽपि साऽर्गलः ।इदानीं वर्तते भक्त्या वैकुण्ठं यान्ति मानवाः ॥२९॥दिक्पालानां च ये लोका निर्जना वै भवन्ति यत् ।ब्रह्मणा च कृतः सृष्टेः प्रवाहोऽपि निरुद्ध्यते ॥३०॥देवानां चापि पितॄणामाशा लुप्ता भवत्यपि ।वंशविस्तारभावाश्च प्रवर्धन्ते हि वैष्णवाः ॥३१॥सर्वे यास्यन्ति वैकुण्ठं न स्वर्गं न यमालयम् ।न जनं न तपश्चापि न सत्यं ब्रह्मणो गृहम् ॥३२॥एवं वै वर्तमाने तु ऋणानुबन्धिता नृप ।लुप्तैव स्यात्ततो राजन् प्रवाहो न यथा क्षयेत् ॥३३॥तथा विचार्य सर्वेषामानुकूल्यं विधेहि वै ।इच्छामो भवते दातुमप्सरोरत्नमुत्तमम् ॥३४॥गृहाण भुङ्क्ष्व भूलोकं यथा राजा तथा प्रजाः ।भविष्यन्ति ततो मार्गा यमादीनामनर्गलाः ॥३५॥श्रुत्वा प्राह ययातिर्वै नाऽहं कापथगो नृपः ।कोटिपुण्योत्तरां भक्तिं कृत्वा नारायणप्रियाम् ॥३६॥निमंक्ष्यामि न संसारे सर्वथाऽऽलोकिते पुनः ।मम पुण्यं विनश्येच्च भक्तिः स्याद् व्यभिचारिणी ॥३७॥संसारपारमाप्तस्य पुनर्मे पतनं भवेत् ।विष्णुर्नारायणः कृष्णः कुप्रसन्नो भवेन्मम ॥३८॥सर्वं कृतं मे व्यर्थं स्यात् तन्नेच्छाम्यप्सरोवराम् ।इत्युक्त्वा मौनमास्थाय स्थितस्तावत् सुरादयः ॥३९॥सस्मरुर्विष्णुमीशानं ब्रह्माणं तत्र वै द्रुतम् ।प्राययुर्देववर्याश्च पूजिता देवतादिभिः ॥४०॥निषेदुश्चासनेष्वेव विज्ञापिताः कथां प्रति ।श्रुत्वा विष्णुस्तदा प्राह ययातिं तु निजानुगम् ॥४१॥राजन् गृहाण देवानां वाक्यं हितं यमस्य च ।गृहाण चाऽप्सदोरत्नं प्रजाते तादृशी तदा ॥४२॥भविष्यति मोहयुक्ता धर्मादिकार्यवर्जिता ।यमादिसृतयश्चापि भविष्यन्त्यप्यनर्गलाः ॥४३॥मम वाक्यं गृहाणेदं स्वस्ति ते संभविष्यति ।ब्रह्महरौ तथैवैव प्राहतुस्तं नृपं तदा ॥४४॥नृपो नत्वाऽर्थयामास बन्धनं पापमेव मे ।भवेत्तस्मात् कृपासिन्धो समुद्धारं कुरु प्रभो ॥४५॥विष्णुः प्राह न ते बन्धोऽप्सरसा वै भविष्यति ।कर्म सर्वं तव राजन् निर्गुणं वै ममाऽऽज्ञया ॥४६॥तामसानां राजसानां मोहनार्थं समाचर ।अप्सरोरत्नमासाद्य कामभोगान् समाचर ॥४७॥मुक्तिस्ते भविता राजन्नाऽत्र कार्या विचारणा ।अस्मद्वाक्यं हि वेदोऽस्ति विधिर्धर्मः स एव सः ॥४८॥अस्मद्वाक्यविधानेन मुक्तिर्मुक्तिः शुभा गतिः ।अस्मद्वाक्यविरोधेन दुःखं बन्धो ह्यधोगतिः ॥४९॥इत्युक्तः स तु राजर्षिः स्वीचकाराऽप्सरोवराम् ।देवताः पूजयामासू राजानं वाक्यवर्तिनम् ॥५०॥विष्णू रक्षाकरं मन्त्रं ददौ नैजं तु निर्गुणम् ।'विष्णुप्रयोजितश्चाऽहं करोमि कर्म यद्विधम् ॥५१॥सर्वं समर्पितं विष्णौ निर्बन्धं विष्णवे स्वाहा' ।एनं मन्त्रं तदा लब्ध्वा नीत्वा चाऽप्सरसं नृपः ॥५२॥बिन्दुमतीं चाऽथ नत्वा सुरान् विष्णुं प्रपूज्य च ।आययौ भूतलं राजा विमानवरमास्थितः ॥५३॥रेमे साकं तया लक्ष्मि मोहमाप्तोऽभवत्ततः ।चिरेणाऽयं धर्मकर्मभक्त्यादीन् विस्मृतोऽभवत् ॥५४॥प्रजा वीक्ष्य नृपं तद्वद् धर्मकर्मविवर्जिताः ।चिरेणाऽप्यभवन् लक्ष्मि यथा राजा तथा प्रजाः ॥५५॥बिन्दुमती रतिपुत्री चाऽप्सरोगणमध्यगा ।राजपत्नी हि राजानं मोहे चिक्षेप सर्वदा ॥५६॥कामभोगैश्च वार्धक्यं ह्यवाप नृप एव सः ।सतृष्णस्याऽन्तिकाद् बिन्दुमती चाऽदृश्यतां ययौ ॥५७॥राजा शोकं चकाराऽस्याः कृते चापि दिवानिशम् ।अथ सा ददृशे रात्रौ राजानं प्रति भावुकी ॥५८॥वृद्धस्त्वं दृश्यसे राजन् नैव योग्योऽसि मत्कृते ।यौवनं प्राप्य वर्तेथास्त्वां सेविष्ये तदा नृप ॥५९॥राजा कामातुरः पुत्रानाहूय वाक्यमाह तत् ।तुरुं यदुं कुरुं पुरुं स्पष्टमाह नृपस्तदा ॥६०॥एकोऽपि गृह्यतां पुत्रा जरा मेऽशक्तिकारिणी ।धीरो भूत्वा ततो नैजं तारुण्यं मम दीयताम् ॥६१॥मानसं मेऽतिसन्तप्तं स्त्र्यासक्तं बहुचञ्चलम् ।जरायाश्चोपग्रहणं करिष्यति सुतस्तु यः ॥६२॥स भुनक्ति तु मे राज्यं भुवं सन्धारयिष्यति ।विपुला सन्ततिस्तस्य यशः कीर्तिर्भविष्यति ॥६३॥श्रुत्वा पुत्रास्तमूचुर्वै भवान् धर्मपरो नृप ।कस्मात्ते चाऽप्सरोयोगादीदृशी भावनाऽधमा ॥६४॥ययातिः प्राह मोहान्मे भावना चेदृशी सुताः ।अवश्यंभाविनो भावा भवन्ति प्रकृतेर्वशाः ॥६५॥एवं ज्ञात्वा प्रकर्तव्यं यत्सुखं मम पुत्रकाः ।तुरुः प्राह शरीरं प्राप्यते पितृप्रसादतः ॥६६॥धर्मः सेवा च शुश्रूषा पित्रोस्तेनैव जायते ।तेन विषयभोगश्च जायते च युना सदा ॥६७॥सोऽयं मे दानकालो न न दास्ये यौवनं हि ते ।भवान् वृद्धत्वमापन्नो योग्योऽयं समयस्तथा ॥६८॥श्रुत्वा राजा शशापैनं तरुं ज्येष्ठं सुतं तदा ।अपध्वस्तस्त्वयाऽऽदेशो ममैवं पापचेतन ॥६९॥तस्मात् पापी भव त्वं वै सर्वधर्मबहिष्कृतः ।वेदाचारविहीनश्च ब्रह्मघ्नो मद्यपो भव ॥७०॥सर्वभक्षश्च दुर्मेधा म्लेच्छाचारो भविष्यति ।पुत्राः पौत्राः प्रपौत्राद्यास्तादृशास्ते भवन्त्विति ॥७१॥एवं शप्त्वा तुरुं चापि निष्कास्य राज्यमण्डलात् ।यदुं प्राह प्रदेहि मे यौवनं भुंक्ष्व राष्ट्रकम् ॥७२॥यदुः प्राह न शक्नोमि दातुं ते यौवनं नृप ।जराया हेतवः पञ्च चिन्ता वृद्धस्त्रियस्तथा ॥७३॥कदन्नं नित्यमध्वा च शीतजाठरपीडनम् ।सा जरा रोचते मे न भोगकालो ह्ययं मम ॥७४॥श्रुत्वा राजा शशापैनं राज्यहीनः सवंशजः ।तेजोहीनः क्षत्रधर्मवर्जितः पशुपालकः ॥७५॥भविष्यसि न सन्देहो याहि राज्याद् बहिर्मम ।इत्युक्त्वा च कुरुं प्राह शर्मिष्ठाबालकं नृपः ॥७६॥देहि मे यौवनं पुत्र गृहाण त्वं जरां मम ।कुरुः प्राह करिष्यामि भजनं श्रीहरेः सदा ॥७७॥कः पिता कोऽत्र वै माता सर्वे स्वार्थपरा भुवि ।न कांक्षे तव राज्यं वै न दास्ये यौवनं मम ॥७८॥इत्युक्त्वा पितरं नत्वा हिमालयवनं ययौ ।तत्र तेपे तपश्चापि वैष्णवो धर्मभक्तिमान् ॥७९॥कृषिं चकार धर्मात्मा सप्तक्रोशमितक्षितेः ।हलेन कर्षयामास महिषेण वृषेण च ॥८०॥आतिथ्यं सर्वदा चक्रे नूत्नधान्यादिभिः सदा ।विष्णुर्विप्रस्वरूपेण ययौ कुरोः कृषिं प्रति ॥८१॥आतिथ्यं च गृहीत्वैव मोक्षपदं ददौ ततः ।कुरुक्षेत्रं च तन्नाम्ना कृतं नारायणेन ह ॥८२॥सर्वमोक्षकरं रम्यं पापतापप्रणाशकम् ।अथ राजा पुरुं प्राह देहि मे यौवनं सुत ॥८३॥भुंक्ष्व राज्यं मया दत्तं सुपुण्यं हतकण्टकम् ।पुरुर्नत्वाऽऽह राज्यं वै भोक्तव्यं दैवयोगतः ॥८४॥जरां देहि गृहाणाऽपि यौवनं मे पितर्द्रुतम् ।तृप्तिं याहि महाराज यथेष्टां यौवनेन मे ॥८५॥तवैव यौवनं त्वेतत् तवैवांऽशोऽहमस्मि च ।स्वत्वं तवैव मय्यस्ति गृहाण यौवनं मम ॥८६॥इत्युक्त्वा जलमादाय ददौ हस्ते पितुर्जलम् ।यौवनं ताम्रवर्णं वै तूर्णं देहाद् व्यपासरत् ॥८७॥प्रविवेश ययातेस्तु शरीरे स च वै युवा ।बभूव च जरा प्राप्ता पुरुं पुत्रं पिशाचिनी ॥८८॥पुरुमाह ततो राजा प्रसन्नवदनेक्षणः ।मम राज्यं प्रभुंक्ष्व त्वं मया दत्तं महामते ॥८९॥यौवनं तेऽपि चाऽद्यैव पुनर्भवतु मेऽपि च ।विष्णोः प्रसादतः पुत्र जराव्यपगमस्तव ॥९०॥आवयोर्यौवनं नित्यं विष्णुभक्तिप्रभावतः ।सर्वदाऽस्तु जगादैवं पुत्रो युवा बभूव ह ॥९१॥ययातिश्च युवा जातः पश्य लक्ष्मि बलं मम ।पितृभक्तिबलं चापि चाऽप्सरःसंगमं तथा ॥९२॥सर्वमेतत् फलदं वै स्वानुरूपं क्षितौ मतम् ।पुरुः राज्यं चकाराऽपि ययातिर्भोगमाप्तवान् ॥९३॥धनूराज्यं च छत्रं च गजमश्वं धनं धराम् ।कोशं वेशं बलं सर्वं चामरं व्यजनं गृहम् ॥९४॥ददौ राजा हि पुरवे बिन्दुमतीपतिस्तदा ।ययावुद्यानभागं चोवासैकान्ते तया सह ॥९५॥अथ बिन्दुमती प्राह शृणु त्वद्दूषणं नृप ।शर्मिष्ठा देवयानी च तव भार्ये ह्युभे ह्यपि ॥९६॥अन्याश्च राजकन्यास्ते भार्याशतं भवत्यपि ।सापत्नकेन भावेन भवान् भर्ता प्रतिष्ठितः ॥९७॥ससर्पोऽसि महाराज चन्दनस्य द्रुमो यथा ।वरमग्निप्रवेशं च शिखरात्पतनं वरम् ॥९८॥तं वरं नैव पश्यामि सपत्नीविषसंयुतम् ।अहं राजन् प्रभोक्त्री स्यां तव कायस्य भूपते ॥९९॥इत्यर्थे प्रत्ययं देहि मम वै स्वकरे नृप ।यत्र क्वापि निवासेन नाऽत्र सपत्निकागृहे ॥१००॥राजा ददौ प्रत्ययं च ततो वनादिषु स्वयम् ।ययौ सार्धं बिन्दुमत्या पर्वतेषु दिगन्तरे ॥१०१॥वै विंशतिसहस्राणि वर्षाण्यस्य गतानि हि ।अथाऽप्सरोऽभवद् गर्भवती चैच्छद् दिवं प्रति ॥१०२॥गन्तुमिन्द्रगृहं कामगृहं पितुर्निवेशनम् ।राजानं चापि नेतुं सा महाग्रहं चकार ह ॥१०३॥देवानां दर्शनं राजन् करिष्यसि दिवं व्रज ।इत्युक्तः स तु राजर्षिः शुशोच वै क्षणं हृदि ॥१०४॥सर्वं कालेन भवति कालोऽयं मे ह्युपागतः ।पृथ्व्यास्त्यागे वचनं मे सत्यं कार्यं भवेदतः ॥१०५॥एवं विचार्यं च पुरुं जरायुक्तं सुतं नृपः ।आहूय निजतारुण्यं ददौ जग्राह वै जराम् ॥१०६॥राज्यार्थं च समादिश्य भक्तिमादिश्य वैष्णवीम् ।प्रजाभ्यश्च स्वजनेभ्यश्चाशीर्दत्वा ययौ दिवम् ॥१०७॥भक्तिमत्यः प्रजा नारायणं स्मृत्वा च तत्पराः ।अभवन् सह गन्तुं वै नारायणपरायणाः ॥१०८॥दिव्यदेहोऽभवद् राजा प्रजा दिव्याश्च कोटिशः ।अब्जखर्वसहस्राणि जनास्ते परिजग्मिरे ॥१०९॥स्वर्गं गत्वा च तत्रैव बिन्दुमतीं रतिगृहे ।निधाय वैष्णवैः साकं विष्णुना चाऽनुमोदितः ॥११०॥ययातिः प्रययौ विष्णोर्वैकुण्ठं वैष्णवैः सह ।ब्रह्मलोकं ययुः सर्वे पूजिताश्चाऽमरादिभिः ॥१११॥एवं भक्तिप्रभावोऽस्ति लक्ष्मि निर्बन्धकृत् सदा ।अहं नयामि वैकुण्ठं गोलोकं चाऽक्षरं परम् ॥११२॥भक्तं कर्मसु मग्नं वै निर्बन्धं प्रकरोमि च ।राजा वैकुण्ठमासाद्य नेमे वराय योजितः ॥११३॥ययाचे सर्वथा दास्यं मया दत्तं हि शाश्वतम् ।दिक्पालानामभूत् कार्यं प्रजाप्रवाह इत्यपि ॥११४॥पठनाच्छ्रवणादस्य स्मरणाच्च विचिन्तनात् ।धर्मो ज्ञानं विरागश्च भक्तिर्मोक्षो भवन्त्यपि ॥११५॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने ययातेः स्वर्गतः पृथिव्यामधिकभक्त्यादिलाभ इति तस्य पृथिव्यास्त्यागार्थमिन्द्रकृतबिन्दुमत्याः प्रदानं पुत्रतोयौवनप्रप्तिश्चान्ते वैकुण्ठगमन चेत्यादिभक्तिप्रभाववर्णननामा त्रिसप्ततितमोऽध्यायः ॥७३॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP