संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्री सौर्यश्वत्थनारायणस्तुति: ॥

श्री सौर्यश्वत्थनारायणस्तुति: ॥

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


पादाम्भोरुहपुग्मधूलिकणिकालेशप्रणामादिकृद् -
व्राताकाङ्क्षितवस्तुदाननियमोद्भूतामरोर्वीरुहौ ।
वन्दे कालमुखातिदारुणमहायादोनिकायोल्लसत् -
संसाराब्धिघटोद्भवौ दिनपसून्वश्वत्थनारायणौ ॥१॥
षट्पादाम्बरजीत भोजनतम:कीलालधृत्कज्जला -
शेषाहङ्कृतिहुङ्कृदात्मशिरसी सञ्जातकान्तिच्छटौ ।
वन्दे शारदनीरदायकहिमक्षीराब्धिजाताशनौ
क्षीराभाम्बरवेष्टितौ दिनपसून्वश्वत्थनारायणौ ॥२॥
पादाम्भोजयुगीविनम्रजनतासर्वेष्टदाभीतिद -
मुद्रामुद्रितपाणिनिर्जितपयोजाताखिलाडम्बरौ ।
वन्दे संसृतिमध्यजन्यसकलकेल्शालिविध्वंसन -
काङ्क्षिव्रातनमस्कृतौ दिनपसून्वश्वत्थनारायणौ ॥३॥
दीनानन्यगतित्वयुक्तमनसानैजाङ्ध्रिपाथोजनु -
र्द्वन्द्वासक्तजनावतव्रतध्रस्वस्वान्तरम्याशयौ ।
वन्दे स्वीयकृपाकटाक्षकणिकाकृताङ्घ्रिनम्रावली
कार्त्तान्तादिभयव्रजौ दिनपसून्वश्वत्थनारायणौ ॥४॥
कष्टक्लेशसहस्रजालविलसत्संसारपाथोनिधि -
मग्नानम्रकृपाम्बुधी अविरतं भक्तालिरक्षाव्रतौ ।
वन्दे व्यासशुकादिमौनिमणिभिर्मेंनाघृताचीमुख -
स्व:स्त्रीभिश्च नुताङ्घ्रिकौ दिनपसून्वश्वत्थनारायणौ ॥५॥
कान्तारत्नसुवर्णरत्नतनुभूगेहादिभुक्तिव्रजान्
मुक्तिञ्च स्पृशतौ पदाम्बुजनताभीष्टानुरोधंमुहु: ।
वन्दे कज्जलिकाप्रियङ्गकलिकाश्यामच्छविभ्राजित -
स्वीयाङ्गद्युतिभास्वरौ दिनपसून्वश्वत्थनारायणौ ॥६॥
भूयो जन्मशतार्जिताघनिकराकाराटवीप्लोषकृद् -
दावस्वाश्रयभोजिनैंजचरणाम्भोजातधूलिस्मृती ।
वन्दे पुष्करपूर्वजादिधरणीनाथानुभूतस्वपन् -
माहात्म्यातिशयव्रजौ दिनपसून्वश्वत्थनारायणौ ॥७॥
अक्षस्वाङ्घ्रिकणादजैमिनिफणिव्रातक्षितीट्कार्दमी -
व्यासाचार्यमुखोदिताखिलनयज्ञानप्रदाङ्घ्रयर्चनौ ।
वन्दे चन्द्रशरीरजातरमणीताताङ्घ्रभूविग्रहौ -
चन्द्राग्रेजनिवल्लभौ दिनपसून्वश्वत्थनारायणौ ॥८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP