संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीमहालक्ष्मीस्तुति:

श्रीमहालक्ष्मीस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भवाब्जदृशिपद्मभूनुतपदे भवान्यग्निभू -
भवप्रभववल्लभोल्लसितपार्श्वभागद्वये ।
भवाभिधभयानकाम्बुनिधिवाडवानुग्रहे
भवाम्बुनिधिसभ्भवे भव विभूतये भार्गवि ॥१॥
भुजङ्गकुलभूमिभृत्प्रवरभोगिशायिप्रिया
भुजङ्गशरदम्बुद भ्ररताभ्रमस्पृक्कूचा ।
भ्रमव्रजसमूलसंहृतिचणाङ्घ्रिपद्मस्मृति -
र्भजज्जनपरम्परेप्सितदकब्पवृक्षोsवतात् ॥२॥
स्मरप्रजननक्षितिस्वतनुमात्मबीजाक्षरै:
स्मरज्जनमनोगताखिलपदार्थदानव्रताम् ।
करच्छविनितारिताखिलनिजस्मयाम्भोरुहां
शरज्जलवितारकच्छविनिजाम्बरां मां भजे ॥३॥
चराचरचयाकृतित्रिभुवनाम्बिकां कायभा -
पराजितनिजप्रभास्मयविशेषयुक्पारदाम् ।
करालभवसागरप्रपतितानमत्पारदां
परागलवसंस्मरत्परमभूतिदाङ्ध्रि भजे ॥४॥
धराधरधवोद्भवाधवगदाधराजार्चितां ( ते )
धराधरकठोरतोल्लसिततुङ्गपीनस्तनीम् ( नि )
( धरारुणचहामहोsधरितदपंबिम्बे रमे )
मरालघनडम्बरापहृति ( नय ) चुञ्चुगत्युज्ज्वलां ( ले )
परात्परनिजाकृतिप्रवणधीप्रदामाश्रये ॥५॥
श्रुतिस्मृतिपुराणवाङ् ( गी: ) निकरगम्यसौम्याशयां
विकुण्ठनिलयस्थितानुपमरम्यहर्म्यालयाम् ।
पदाम्बुजनतावलीनिखिलदह्र्मकाम्यालिदां
भजामि भुवनत्रयाधिपतिकाम्यारम्याकृतिम् ॥६॥
कृपामृतमहार्णवस्वहृदयाम्बुजाताम्बुजा
कृपाणमुखशस्त्रसंस्कृतसुपर्वशत्रुव्रजा ।
कृमिप्रभृतिकञ्जजावधिनमस्कृता भस्मसात् -
कृतानतजनावलीकृतसमस्तपापावतात् ॥७॥
कृतस्वकृतितास्पृशिप्रवणपादपद्मस्मृति: ( धूलिस्पृशि: )
कृतान्तकृतभीतिधिक्कृतिलसन्नमस्कृद्व्रजा ।
कृतान्तपुरगात्मसम्भवसमर्पणादक्षीना -
कृतात्मगुरुनिष्क्रियाप्रतिमकृष्णकान्ताsवतात् ॥८॥
विनम्रविनतातनुप्रभववाहनाम्भोजभू -
वनप्रभवरिप्वलङ्कृतप्रमुख्यामराम् ।
( वनप्रभवसम्भवप्रियतमाशचीसेविताम् )
इनाम्बुनिधिसम्भवस्वतनुलोचनप्रेयसीं
धनाभिमतिवारकद्युतिलसत्स्ववेणीं भजे ॥९॥
अनन्तपरिरम्भणाधिकृततानुरूपत्वभाग्
अनन्तजनसूपदानुगुणपीनतुङ्गस्तनीम् ।
कनत्कनकदर्पहृच्छविविराजिताङ्गप्रभू [ भां ]
मन प्रभवसुन्दरावयवसन्ततिं सन्दधे ( मां भजे ) ॥१०॥
कणादफणिनायकप्रभृतिशास्त्रदायीक्षणां
प्रणामकरणेक्षणक्षणनिवारितापद्गणाम् ।
ऋणामयमुखाशुभक्षपणनैपुणीश्राणिकां
गणाधिपसुरेण्नुतां हृदि भजे ( दधे ) त्रिकोणालयाम् ॥११॥
रणाङ्गणावतारणप्रमुखकारणप्राणहृत् -
कृपाणमणितूणकेषुगणपाणिताभीषणाम् ।
प्रणन्तृजनताणणप्रणयरक्षणप्रीणन -
प्रणीतकरुनार्णवप्रणयिवीक्षणां मां भजे ॥१२॥
फणाधरफणामणिच्छुरितवर्णिकां नूपुर -
प्रघूर्णवरटारणक्चरणधूतशोणाम्बुजाम् ।
मृणालमृदुदोर्लताप्रणयकङ्कणालीक्वणत् -
कणालिचणपाणिजक्वणितदिव्यवीणा भजे ॥१३॥
गुणालिगणभूषणां विजितबिम्बशोणाधरां
क्षणच्छविचलेक्षणक्षण ( च्छवि, द्युति ) पराजितैणां रमाम् ।
सुपर्वपतिकर्षणप्रवणताप्रवीणाकृतिं
सुवर्णमदहृत्तनुप्रभवपञ्चवाणां भजे ॥१४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP