संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीमहालक्ष्मीस्तुति:

श्रीमहालक्ष्मीस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


उदारहासां कलहंसगामिनीं
तुङ्ग ( व्यञ्ज ) स्तनीं कुन्तलशङ्कितेक्षणाम् ।
श्यामानितम्बार्पितरत्नमेखलां
जगत्सवित्रीं कमलालयां भजे ॥१॥
पीताम्बराढ्यां सुकुमारदोश्चय -
पादोरुवाह्यं सकपोलसुन्दरीम् ।
चार्वायताक्षोन्नसतुल्यकर्णयुक्
सुभ्र्वाननां श्रीकमलालयां भजे ॥२॥
शुचिस्मितां बिम्बफलाधरद्युतिं
शोणायमानद्विजकुन्दकुड्मलाम् ।
सुमध्यमां कुण्डलमण्डिताननां
जगत्सवित्रीं कमलालयां भजे ॥३॥
लसन्महारत्नहिरण्ययाङ्गदां
स्फुरन्महारत्नकिरीटकुण्डलाम् ।
चतुर्भुजां शङ्खरथाङ्गपङ्कभू -
गदाधरां श्रीकमलालयां भजे ॥४॥
महामणिव्रातकिरीटकुण्डलां
प्रभापरिक्षिप्तसहस्रकुन्तलाम् ।
प्रसन्नवक्त्रां रुचिरायतेक्षणां
लक्ष्मीं भजे श्रीपुरुषोत्तमप्रियाम् ॥५॥
उन्निद्रहृत्पङ्कजकर्णिकालये
योगेश्वरास्थापितपादपल्लवाम् ।
पद्मप्रियां कम्बुसुजातकन्धरां
लक्ष्मी भजे श्रीपुरुषोत्तमप्रियाम् ॥६॥
सुवाससं हाटककर्णभूषण -
त्विडुल्लसत्कुन्तलमण्डिताननाम् ।
बृहन्नितम्बस्तनकृच्छ्रमध्यमां
वन्देsरविन्दाक्षमनोरमां रमाम् ॥७॥
विभूषितां मेखलयाङ्गुलीयकै -
र्महाधनैर्नूपुरकङ्कणादिभि: ।
कदम्बकिञ्जल्कपिशङ्गवाससं
वन्देsरविन्दाक्षमनोरमां रमाम् ॥८॥
स्वकर्णविभ्राजितकुण्डलोल्लसत् -
कपोलनीलालकमण्डिताननाम् ।
दुकूलपर्यस्तनितम्बमेखलां
पीनस्तनीमब्धिभवामुपाश्रये ॥९॥
अदीनलीलाहसितेक्षणोल्लसद् -
श्यामासदापीय्यवयोsङ्गरञ्जितां
पीनस्तनीमब्धिभवामुपाश्रये ॥१०॥
वन्दे विमृश्याव्यभिचारिसद्गुणै -
र्वरं निजैकाश्रयतागुणाश्रयाम् ।
वव्रे वरं या निखिलार्चितं जगत् -
प्रभुं मुकुन्दं निरपेक्षमीप्सितम् ॥११॥
स्निग्धामलाकुञ्चितनीलकुन्तलै -
र्विरोचमानननहासपेशलाम् ।
अम्लानलक्ष्म्यासुममालयाञ्चितं [ तां ]
जगत्सवित्रीं कमलालयां भजे ॥१२॥
निगूढजत्रु पृथुतुङ्गवक्षसं
श्रीकौस्तुभोद्भासितनैजविग्रहाम् ।
आवर्तनाभिं त्रिवलीविभूषितां
जगत्सवित्रीं कमलालयां भजे ॥१३॥
कान्तां हरे: कनककुण्डलचारुकर्ण -
नासाकपोलवदनां परदेवताख्याम् ।
कुम्भस्तनीं कुलिशपाणिमुखार्चितार्ङ्घ्रि
[ पद्मालयां सवलयां कमलां नमामि ] ॥१४॥
वन्दे सुमृष्टमणिकुण्डलनिष्ककण्ठीं
दिव्याम्बरां कचभरव्यतिषक्तमल्लीम् ।
उत्तुङ्गपीवरपयोधरभारहारां
पद्यालयां सवलयां कमलां कलिघ्नीम् ॥१५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP