संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्री सप्तगिरीश्वरदम्पति श्रीवेङ्कटेशस्तुति:

श्री सप्तगिरीश्वरदम्पति श्रीवेङ्कटेशस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


अशेषभुवनप्रसूजनकनैजलीलाकृती
अनेकपतुरङ्गमप्रमुखसर्वसम्पत्प्रदौ ।
अपारकरूणासुधार्निधस्वहृन्नेरजा -
वये शरणमम्बुधिप्रजनिवेङ्कटेशौ मुदा ॥१॥
अनङ्गमुखसेवितस्वचरणामृतप्रोद्भवौ
प्रणम्रजनवाञ्छितालिखपदार्थविश्राणकौ ।
परस्परतप: फलाय्यितपरस्परप्रेमकौ
भजाम्यमृतशेवधिप्रजनिवेङ्कटेशौ मुदा ॥२॥
विनिर्जितमनोभवप्रमुखलभ्यपादाम्बुजौ
पादम्बुजनतव्रजप्रमदनीरराश्यब्धिजौ ।
प्रणम्रजनतावशीकृतसमस्तविद्यावली
अये शरणमम्बुधिप्रजनिवेङ्कटेशौ मुदा ॥३॥
निलिम्पनिकरस्फुरन्मुकुटधृष्टपादाम्बुजौ
यथेष्टमतिसत्वरं लषितपूगपूर्त्तिव्रतौ ।
वचोsर्थवदभेद्यताञ्चितपरस्पराश्लेषणा -
वये शरणमम्बुधिप्रजनिवेङ्कटेशौ मुदा ॥४॥
विभूतिनिचयस्प्रुशिप्रभृतिरक्षितस्वानतौ
षडास्यगणपप्रसूद्रुहिणवल्लभाद्यर्चितौ ।
पयोजजपयोधिजार्भकधरादिसंसेविता -
वये शरणमम्बुधिप्रजनिवेङ्कटेशौ मुदा ॥५॥
अहेतुककृपाजनिक्षितिहृदाख्यपाथोरुहो
ललाटनयनाद्यनुग्रहपरायणस्वाशयौ ।
पदाब्जनतलाकिनीमुखनिलिम्पनारीव्रजौ
भजाम्यमृतशेवधिप्रजनिवेङ्कटेशौ मुदा ॥६॥
अजाक्षिजविलोचनप्रभवसोदरीभामकौ
तुलादिरहिताखिलावयवलावणीसागरौ ।
कणादनमुखोदिताखिलनयप्रवीणत्वदा -
वये शरणमम्बुधिप्रजनिवेङ्कटेशौ मुदा ॥७॥
निजप्रणववाच्यतापरसशीर्षवेदव्रजौ
सदा प्रणवसक्तधीयमिजनप्रसादोन्मुखौ ।
इहोपरि सुखप्रदस्वचरणाम्बुजन्मस्मृती
अये शरणमम्बुधिप्रजनिवेङ्कटेशौ मुदा ॥८॥
निजाघरतसत्प्रभानिहतबिम्बदर्पव्रजौ
समस्तविषयावलीविरतिभाग्जनाप्याङ्घ्रिकौ ।
अशेषजगतीत्रयस्थितसमस्तवस्त्वीश्वरौ -
अये शरणमम्बुधिप्रजनिवेङ्कटेशौ मुदा ॥९॥
स्वकीयतनुभास्वरच्छविपरास्तहेमाम्बुदौ
क्षणार्धलवसंहृताखिलनतार्त्तिशीकावली ।
वये शरणमम्बुधिप्रजनिवेङ्कटेशौ मुदा ॥१०॥
अतिद्रुतवीतीर्णतत्सकालकाङ्क्षतश्रेयसा -
जलोद्भवभुजंगमक्षितिपभोगदिव्यासनौ
क्षपाधिपतिशेखरप्रभृतिदेवदेवार्चितौ ।
गृहीतपदसन्नतेक्षितवितारदीक्षाविधि
अये शरणमम्बुधिप्रजनिवेङ्कटेशौ मुदा ॥११॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP