संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीमारीचात्रिवसिष्ठ ( सप्तर्षि ) स्तव:

श्रीमारीचात्रिवसिष्ठ ( सप्तर्षि ) स्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भक्तव्राताभीष्टवितारकगीर्वाणागान् निजकरनिर्जितपाथोजान्
भूयो भवमृत्भवभयभसितीकृतिचणपादाञ्छरदम्बुप्रदनिजवस्त्रान् ।
आधिपहिमदधिशङ्खवलक्षस्वजटाजूटान् वरविश्राणनतुष्टहृदो
वन्दे श्रीमन्मारीचात्रिवशिष्ठकौशिकगौतमभार्गवजीवभवान् ॥१॥
पदयुगनतजनकाम्याशेषश्राणनसक्तान् कृष्णाद्यादृतमाहात्म्यान्
शतमखमुखसुरनम्यपरागस्वाप्दाम्भोजान् कृत्तकृतान्तादिभयालीन् ।
करुणादिमगुणरम्याखिलनयतत्त्वविबोधान् कृम्याद्यजपर्यन्तान्
वन्दे श्रीमन्मारीचात्रिवशिष्ठकौशिकगौतमभार्गवनिजतत्त्वान् ॥२॥
मेनारम्भामुखललनामण्यचलितचिन्ताज्वरततिदायकपदनमनान्
शौनकमुखमुनिनुतनिजपादाम्भोभवयुगलान् खरभवपारस्पृक्पूजान् ।
कनकादिमघनविरतान् कनकश्राणननिपुणान् पारदनीरदनिभवेशान्
वन्दे श्रीमन्मारीचात्रिवशिष्ठकौशिकगौतमभार्गवजीवभवान् ॥३॥
विनतव्राताखिलदुरितावलिसागरघटजान् वीणापाणिप्रभूतीड्यान्
विनतातनुभववरदाधिपवृषवाहनरूपान् काणादादिमनयनिपुणान् ।
पीनस्तनभरनम्रतनुस्त्रीविमुखस्वान्तानेणाङ्काधिकशिशिरहृदो
वन्दे श्रीमन्मारीचात्रिवशिष्ठकौशिकगौतमभार्गवजीवभवान् ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP