संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीतिरुपतिश्रीसप्तगिरीश्वरकमलश्वगृहवेङ्कटरमणस्तुति:

श्रीतिरुपतिश्रीसप्तगिरीश्वरकमलश्वगृहवेङ्कटरमणस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भवनिजसंज्ञकभीकरसागरतारकनावौ भक्तव्रातसुरोर्वीजौ
चरणद्वन्द्वश्रोजितलोहितपाथोजातौ भृङ्गभुजङ्गमनिभकेशौ ।
चरणानतजनकाङ्क्षितवरततिसन्ततदाङ्घ्री शरदृतुजलधरनिभवस्त्रौ
वन्दे श्रीमत्सप्तगिरीश्वरकमलस्वगृहवेङ्कटरमणावनिशमहम् ॥१॥
निजपदशरनागतवत्सलतामुखगुणरम्यौ स्मृतिलवसाधितनतकाम्यौ
क्षीराम्भोनिधिवासिरमाहरिकलियुगमूर्त्ती विन्ध्यावलिवलिमुखनम्यौ ।
कृपणानम्रकृपाम्बुधिचेतोगाम्भीर्यातिशयोच्छिन्नकृतान्तकृताखिलभीतिभयौ
नारदपाराशर्यजशौनकमुखमुनिविनुतौ गीर्मेनाजार्चितपादौ
चरणानतजनकोटिप्रार्थितवरदातारौ कनकघनाभस्वशरीरौ ।
नीरदसन्निभकुन्तलमण्डितमस्तकजातौ भवजलनिधिपारदपादौ
पद्मानतविनतातनुभवयारूढौ विनतजनाखिलदुरितघ्नौ
वीणावादनमुरलीगायनलोलस्वान्तौ हरिणविलोचनपद्माक्षौ ।
एणाङ्काग्रे बह्वतनुभामौ बिम्बन्यक्कृच्छोणाधररमणीयास्यौ
वन्दे श्रीमत्सप्तगिरीश्वरकमलस्वगृहवेङ्कटरमणावनिशहम् ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP