संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीवाणीशशिडिम्भमौलिमणिभाग्गर्भैकदन्तस्तव:

श्रीवाणीशशिडिम्भमौलिमणिभाग्गर्भैकदन्तस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


अम्भोजातसमस्तदर्पहकरान् भक्तेष्टकल्पद्रुमान्
अम्भोदातृभुजङ्गभृङ्गचिकुरान् संसारभीत्यन्तकान् ।
वासोनिर्जितशारदामृतधराञ्छृङ्गाद्रिपीठस्थिताञ्
छ्रीवाणीशशिडिम्भमौलिमणिभाग्गर्भैकदन्तान् भजे ॥१॥
कृत्स्नक्ष्मागुरुशङ्करार्यकलितान् काम्याखिलेष्टप्रदान्
कृत्स्नात्मत्वमहाविभूतिदजगन्नम्याङ्घ्रिपाथोभवान् ।
कृत्ताज्ञानकृतान्तविघ्ननिकरान् नम्याच्छधीश्राणकाञ्
छ्रीवाणीशशिडिम्भमौलिमणिभाग्गर्भैकदन्तान् भजे ॥२॥
नीरश्राणकजिष्णुकुन्तलभरान् कीनाशराज्याम्बुधि -
पारप्रापकपादपद्मनमनान् मेनाप्रमुख्यार्चितान् ।
कीराब्जाश्रयभूषिकस्फुटलसद्दीनावनात्मव्रताञ् -
छ्रीवाणीशशिडिम्भमौलिमणिभाग्गर्भैकदन्तान् भजे ॥३॥
एणाङ्कीयकलाधृतिस्फुटनमद्दोषावलीमर्षणान्
काणादाक्षपदाब्जजैमिनिफणीशानादिशास्त्रप्रदान् ।
वीणामुख्यविनोदवाद्यनिकरैर्भक्तस्तुताङ्घ्रिद्वयाञ्
छ्रीवाणीशशिडिम्भमौलिमणिभाग्गर्भैकदन्तान् भजे ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP