संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीकार्तवीर्यस्तुति:

श्रीकार्तवीर्यस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


रागपूर्णमतिदुर्लभेक्षणं रागहीनजनलभ्यापादुकम् ।
देवराजमुखकीर्रिंतश्रियं भावयामि कृतवीर्यवर्ष्मजम् ॥१॥
जीववासवजिदुक्तिवैभवं यत्पदार्चकतते: करधात्र्यौ ।
वारितानपकुप्छ्जताजरं भावयामि कृतवीर्यवर्ष्मजम् ॥२॥
इन्दिरेशरथपादरूपिणं नम्रदीनकरुणासुधार्णवम् ।
दारकोटिपरिरब्धविग्रहं भावयामि कृतवीर्यवर्ष्मजम् ॥३॥
हस्तिवाजिमुखमावितारकं भक्तपापकरिवंशमृगेन्द्रम् ।
दत्तदत्तपुरुयोगसम्पदं भावयामि कृतवीर्यवर्ष्मजम् ॥४॥
कान्रिधूतकनकाम्बुजोदरं कीरवर्णितविभूतिवैभवम् ।
अक्षरात्मपदसंस्पृगक्षरं भावयामि कृतवीर्यवर्ष्मजम् ॥५॥
कामिताखिलपदार्थदार्चनं बाहुजालकुसितामितश्रियम् ।
आत्मतत्त्वहृदयप्रकाशकं भावयामि कृतवीर्यवर्ष्मजम् ॥६॥
चिन्तनाप्यनिखिलावनीशतं सर्वलोककमनीयपादुकम् ।
आमयादिशतकोटिसंस्मृति भावयामि कृतवीर्यवर्ष्मजम् ॥७॥
दुर्जनासुहरशस्त्रसञ्चय - प्रोल्लसन्निजकराब्जसन्ततिम् ।
योगिचिन्त्यपदपङ्कसम्भवं भावयामि कृतवीर्यवर्ष्मजम् ॥८॥
अब्जयोनिगिरिजापतिप्रभं काम्यवैभवितारिमन्त्रकम् ।
चित्तशान्तिमुखसद्गुणप्रदं भावयामि कृतवीर्यवर्ष्मजम् ॥९॥
सन्नतालिसकलश्रमापहं तत्कृताघनिकरक्षमानिधिम् ।
जन्ममृत्युभयहृद् यमादिदं भावयामि कृतवीर्यवर्ष्मजम् ॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP