संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
डङ्कनगरीट् ( डाकोरलक्ष्मी ) स्तोत्रम्

डङ्कनगरीट् ( डाकोरलक्ष्मी ) स्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भजद्वाताभीप्टव्रजवितरणे कल्पकतिके
भवाभिख्याम्भोधेर्झटितितरणे पीतचरणे ।
भुजङ्गाम्भोधारिभ्रमरनिकरभ्रान्तिदकचे
भयध्वान्तादित्य प्रदिश करुणां डङ्कनगरीट् ॥१॥
वराभीत्यम्भोजद्वयमुखलसन्नैजकरत:
परास्तध्वस्ताम्भ:प्रभवसकलाहुङ्कृतिभरे ।
प्रणम्राशेषेष्टव्रजदचरणे कृष्णदयिते
असाध्यत्वभ्राजन्नतनिखिलकाम्यालिदपदे
सुरज्येष्ठोमेशप्रभृतिसुरनम्याङ्घ्रिकमले ।
ऋणव्रातत्यक्तस्वपतियुतरम्याब्जवसते
कृतान्तादिप्रोत्थाखिलभयचयच्छेदनपटो
कृपापारावारायितनिजमन:पाथसिभवे ।
कृतार्थाग्रेयायीकृतपदनते कृष्णदयिते
मुहुर्मुह्यन्मेनाप्रमुखललनाविस्मयकर -
स्वकीयाशेषाङ्गोल्लसदतुललावन्यभरिते ।
कनत्स्वर्णन्यक्कृन्निजतनुरुचे कृष्णदयिते
पदाम्भोजानम्रेप्सितवरततिश्राणनचणे
दुरन्तानिष्टालीभरितभवपारप्रदपदे ।
शुकादिध्याताङ्घ्रे जलदचिकुरे पारदपदे
पदाब्जासक्ताघव्रजझटितिभेतृस्मृतिलवे
गुणालीस्वाधीनींविहितविनताजध्वजमते ।
कठोरोत्तुङ्गस्वस्तनजितधरे कृष्णदयिते
मुदावीणापाणिप्रभृतिमुनिगीतात्मचरणे
कटाक्षै: काणादप्रमुखनयदस्वीयकरुणे ।
कृपां प्रेम्णा दीने प्रकुरु नयनापास्तहरिणे
भयध्वान्तादित्य प्रदिश करुणां डङ्कनगरीट् ॥८॥
स्वओआदाब्जद्वन्द्वस्तवनपरपद्याष्टकमिदं
समाकर्ण्य श्रद्धाप्रवणपठितं कष्टशमनी ।
कृपालुर्डङ्कर्षिप्रथितपुरगाभीष्टनतिदा
महालक्ष्मी: सिद्धी: करणलसिता अष्ट वितरेत् ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP