संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीदक्षिणास्यस्तव:

श्रीदक्षिणास्यस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


प्रालेयाद्रिप्रजनिहृदयाम्भोभवोद्यद्दिनेशं
हस्तीन्द्रास्यानलभवतनुभ्राजदुत्सङ्गदेशम् ।
इन्द्राग्न्यादित्रिदशकलितस्वीयपादारविन्दं
वन्दे नित्यं हृदयसरसीसंभवे दक्षिणास्यम् ॥१॥
लोपामुद्राघटाभवतनूमुख्यमौन्यर्चिताङ्घ्रिं
मेधाप्रज्ञाक्षरपरमवित्स्पर्शिमन्त्राक्षरालिम् ।
भोगीशानस्वशयनसहप्रोद्भवाप्राणकान्तं
वन्दे नित्यं हृदयसरसीसंभवे दक्षिणास्यम् ॥२॥
उर्वीपालीविहितचरणाम्भोजधूलीस्मृदाली -
स्वाज्ञापात्राखिलजनलसत्क्ष्मामुवर्मुख्यलोकम् ।
घस्राधीशामृतनिजकरस्वर्गिवक्तस्वनेत्रं
वन्दे नित्यं हृदयसरसीसंभवे दक्षिणास्यम् ॥३॥
श्रीवाग्देवीसरसिजजनु:सिन्धुवर्ष्मप्रजाता -
दैत्यारातिप्रभृतिदिविजोत्तंससंधातपूज्यम् ।
बिल्वाम्भोजस्थलकमलभूचम्पकाद्यचिंताङ्घ्रिं
वन्दे नित्यं हृदयसरसीसंभवे दक्षिणास्यम् ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP