संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
ॐ अथश्रीसच्छिदानन्दस्तोत्रम्

ॐ अथश्रीसच्छिदानन्दस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


नीरागाशयलभ्यपादवनजान् साराज्यमुख्यापहान्
भक्तव्रातजराकुमृत्युमुखहान् देवार्च्यपादाम्बुजान्
गी:श्रीनिर्जितनिर्जराय नवनिध्यध्यक्षताश्राणकान्
श्रीसच्चित्सुखदेशिकान् हृदि दधे दीनानुकम्पार्णवान् ॥१॥
नागास्यार्यनवीनरूपरुचिराञ्छ्रीचक्रपूजारतान्
नागाधीश्वरवर्ण्यभीन्नविभवान् पापेभपञ्चाननान् ।
कीरादीडयपरात्मबोधजलधीन् स्वर्णापहासित्विष:
श्रीसच्चित्सुखदेशिकान् हृदि दधे दीनानुकम्पार्णवान् ॥२॥
धर्मादींश्चतुरो नताय ददतो भक्ताखिलेष्टप्रदान्
जीवब्रह्मविभेदवारणहरीन् हृदग्रन्थिभेदव्रतान् ।
विश्वात्मत्वविभूतिदाननिरतान् दुर्बुद्धिदैन्यापहान्
श्रीसच्चित्सुखदेशिकान् हृदि दधे दीनानुकम्पार्णवान् ॥३॥
ब्रह्मश्रीपतिशङ्कराकृतिधरान् योगीन्द्रवन्द्याङ्घ्रिकान्
संसारप्रभवाखिलश्रमहरान् शान्त्यादिदाङ्घिस्मृतीन् ।
क्षान्ताङ्घ्रिप्रणतालिमन्तुनिकरान् क्षोणीपतित्वप्रदान्
श्रीसच्चित्सुखदेशिकान् हृदि दधे दीनानुकम्पार्णवान् ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP