संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीदिनाधिपधनाधिपादिस्तोत्रम्

श्रीदिनाधिपधनाधिपादिस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


स्वस्वाधिकारमनुरुध्य यथाधिकारं
संस्पर्शितेभमुखमुख्यसुरप्रसादान् ।
तत्तद्दिनेश्वरतिथीश्वरकृत्यसक्तान्
वन्दे दिनाधिपधनाधिपमुख्यनाथान् ॥१॥
कारुण्यपूरितकटाक्षवितारिचेष्टा -
नम्रालिसम्मदव्बोधपयोधिसोमान् ।
विद्याप्रदानतुलितानतनागराजान्
वन्दे दिनाधिपधनाधिपमुख्यनाथान् ॥२॥
भक्तेष्टदायकशशाङ्कधराच्युताजान्
नाकेशवित्तविधिबोधमुखप्रदातॄन् ।
ब्रह्मादिदेवसुखदु:खनिकायहेतून्
वन्दे दिनाधिपधनाधिपमुख्यनाथान् ॥३॥
हर्म्याङ्गनामपिसुतादिसुखप्रदातॄन्
स्वर्गाङ्गनानिकरगीतनिजापदानान् ।
फालस्थलेखविनिमायकशक्तिदातॄन्
वन्दे दिनाधिपधनाधिपमुख्यनाथान् ॥४॥
कामक्रुधादिरिपुजित्सुलभाङ्घ्रिपद्माञ्
छास्त्रालिबोधकुमुदोडु निकायनाथान् ।
ॐकारयुक्तनिजमन्त्रकदम्बपूज्यान्
वन्दे दिनाधिपधनाधिपमुख्यनाथान् ॥५॥
शारीरदार्ढ्यमतितैक्ष्ण्यमुखप्रदातॄ
श्चित्तान्धकारहरकान्तिनखाञ्चिताङ्घ्रीन् ।
मोक्षैहिकार्थमुखसर्वसुखप्रदातॄन्
वन्दे दिनाधिपधनाधिपमुख्यनाथान् ॥६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP