संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीपवनस्तव:

श्रीपवनस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भजदावलीहृदयेष्टगतस्पृशिधूतकल्पलतिकाङ्घ्रियुगम् ।
अनिलं भजामि भवमृत्युमुखाखिलसाध्वसप्रहृतिसक्तमतिम् ॥१॥
पवनाशनभ्रमरवारिधरप्रमुखाभिमानहरशीर्षभवम् ।
अभयेष्टदानलसदात्मकरच्छविनिर्जिताब्जमनिलं कलये ॥२॥
शरदम्बुवाहदधिकुन्दहिमद्युतिवस्त्रवेष्टितनिजावयवम् ।
वरणाम्बुजातनतवर्गवरव्रजदानतुष्टमनिलं कलये ॥३॥
निजपादनीरभवसन्नतहृत्कमलस्थकाम्यचयदानपटुम् ।
पवनं भजामि विनयेन जगत्त्रितयप्रणम्यचरणाम्बुजनिम् ॥४॥
शरणागतार्तजनवत्सलताचणवृत्तिरम्यनिजधीलसितम् ।
शरणं व्रजामि हरिसाह्यकृतेजनिताञ्जनासुतपृथातनयम् ॥५॥
कलिताङ्घ्रिसंश्रितकृतान्तभयप्रमुखाखिलार्त्ति [वि ] ततिप्रशमम् ।
मरुतं श्रयामि चरणाब्जरज: स्मृतिकर्तृलोककरुणाम्बुनिधिम् ॥६॥
सरसीजसम्भवसुधाशनराट्प्रभृतिस्तुतात्मपदमम्बरजम् ।
मतिनिर्जयोद्यमपरर्षियतिप्रमुखप्रसादकरमाकलये ॥७॥
अनिशं रुजादिलवहैन्यलसत्कनकाभगात्रमुखभव्यततिम् ।
वितरन्तमेमि शरणं कनकप्रमुखाखिलेष्टसहितं मरुतम् ॥८॥
भवनीरधिप्रपतितानतिकृज्जनपारदाननिरतस्वधियम् ।
गणनाविहीनजनुरालिकृताखिलपापहं हृदि दधे मरुतम् ॥९॥
परनिर्गुणत्वगुणचालकतानिजशक्तिकारितजगत्त्रियम् ।
विधिवीश वाहनशिवप्रमुखाकृतिमूलहेतुसलिलं कलये ॥१०॥
वरदानभीतिहरचिह्नलसन्निजदिव्यपाणिकमलप्रभवम् ।
कणभुग्दृगङ्घ्रि कपिलादिनयव्रजदानसक्तमनिलं कलये ॥११॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP