संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीनृसिंहस्तुति:

श्रीनृसिंहस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


मन:प्रभवतत्सहोद्भवसमूहरूपान्तरा -
र्यजिष्णुमतिदुर्लभस्वपदपाथसीसम्भवम् ।
विवेकिमतिसूतसंयमितमानसप्रग्रहा -
दृताप्यनिजपादवार्जनियुगं नृसिंहं भजे ॥१॥
पुलोमतनुसम्भवापतिमुखामराह्लादतत् -
सुतात्मजमुखासुरव्रजसमर्चिताङ्घ्र्ययम्बुजम् ।
प्रणम्रजनताजराकुमरणादिसर्वार्तिह -
स्वकीयचरणाम्बुजस्मृत्लवं नृसिंहं भजे ॥२॥
अकिञ्चनजनावलीक्षितिपजन्यमूका अपि
प्रण्त्यभिमुखाशयीभवनतोsङ्घ्रिपाथोजयो: ।
भवन्ति निजसम्पदा [ सम्भवा ] वचनवैखरीनिर्जिता -
स्त्रिविष्टपधवाङ्गिरसतनूभवा नृसिंहं भजे ॥३॥
सरस्वतिभवाभिधे भवांभिधे महर्णवे
पतनात्तदन्तर्गानुभूतिचयत: शुचार्दितम् ।
नतानुकम्पार्णवं महीधरप्रभवपूर्वज -
स्वकीयतनुनूतनाकृतिधरं नृसिंहं भजे ॥४॥
द्विपालितुरगावलीरथसमूहसेनाव्रज -
प्रभूतधनरूपमास्पृशिसमुद्धृतस्वानतम् ।
निजाङ्घ्रिसरसीरुहभ्रमरमानसानुष्ठिता -
खिलाघगजसन्ततेमृर्गपतिं नृसिंहं भजे ॥५॥
सरीसृपवसुन्धराधवसमस्तजिह्वा विना -
त्यतीतनिजपादवा:प्रभवशक्तिलेशोदितम् ।
निजाननसमुज्ज्वलच्छविलवावधूतस्फुरत् -
सहस्रकिरणाल्यहङ्कृतिभरं नृसिंहं भजे ॥६॥
विरोचनकलेवरप्रजनकाब्जजातोरुभू -
शुकोद्धवपराशरप्रभवमुख्यसम्पूजितम् ।
स्वमन्त्रलसदक्षरव्रजजपार्थसञ्चिन्तन -
प्रमुख्यसुलभीकृताक्षरपदं नृसिंहं भजे ॥७॥
सकामपदसन्नतव्रजमनोरथालीद्रुत -
प्रपूर्त्तिमुखसुन्दरव्रतचयातिहृद्याशयम् ।
स्वपादपयसीप्रभूप्रभवधूलिसक्ताशये
प्रकाशितपरापरस्वहृदयं नृसिंहं भजे ॥८॥
रथाङ्गमुखभीषणायुधततिस्फुरद्द्वादश -
स्वबाहुनखदारितक्षितिधराभदैत्योरसम् ।
प्रफुल्लवनसम्भवप्रभवरम्यपुष्पावली -
स्वकान्ततुलसीमुखार्चितपदं नृसिंहं भजे ॥९॥
अलङ्घ्यनिजशासनस्थितसमस्तलोकावली -
तलव्रजनिवासकृन्मितिविहीनसर्वप्रजम् ।
चतु:सरिदधीश्वरस्वरशनक्षितीशीकृत -
स्वकीयपदपङ्कभूनतिपरं नृसिंहं भजे ॥१०॥
नतव्रजशरीरगत्रिविधधातुवैषम्यस -
म्भवज्वरमुखार्त्तिसंयुतभवज्वराद्यौषधम् ।
किशोररक्षाकृते विदीर्णहृदयासुरक्षितिपतिं
विधानविहितासुरक्षितिपहं नृसिंहं भजे ॥११॥
असाधुजनभीकरायुधलसत्करालीधृत -
प्रणम्रजनभीहरेप्सितवितारिमुद्राद्वयम् ।
बिकारलववर्जितस्वहृदयामृतप्रोद्भव -
प्रगीतमहिमस्वपद्वनजनिं  नृसिंहं भजे ॥१२॥
समस्तवचनप्रसूतुहिणपर्वताधीशजा -
शशाङ्कशिशुशेखरप्रमुखदेवतामण्डलै: ।
अजामितमनारतं प्रकलिताब्धिवर्ष्मोद्भवा -
पदान्वितनिजाङ्घ्रिवार्भवयुगं नृसिंहं भजे ॥१३॥
कटाक्षलवसाधितप्रणतितत्पराल्याशयं
प्रशान्तिबहिरिन्द्रियव्रजदमाद्यभीष्टावली ।
भवर्तिततितत्पहृत्प्रणतशोकपारम्परी -
निकृन्तनपरायणस्वचरणं नृसिंहं भजे ॥१४॥
यमादिनिखिलाङ्गसन्ततिविराजियोगस्पृशि -
प्रमुख्यनिहतानमद्यममुखप्रमूसाध्वसम् ।
कृपामृततरङ्गितस्वहृदयाम्बुधिक्षान्तपत्
प्रणामविहिताखिलाघनिकरं नृसिंहं भजे ॥१५॥
अनामयचिरायुषी सकलविच्छिरोरत्नतां
सुसूनुसुकलत्रते मितिविहीनलक्ष्मीततिम् ।
अदभ्रकरुणार्णवो नरहरिर्ददाति द्रुतं
प्रणामलवपूर्वकं प्रपठतामिमां स्वस्तुतिम् ॥१६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP