संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीरमाकमलालयास्तोत्रम्

श्रीरमाकमलालयास्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


नमस्तेsस्तु महामाये श्रीपीठे सुरपूजिते ।
शङ्खचक्रगदाहस्ते महालक्ष्मि नमोsस्तु ते ॥१॥
विष्णुपत्नि महामाये महापुरुषलक्षणे ।
प्रीयेथा मे महाभागे लोकमातर्नमोsस्तु ते ॥२॥
कटिसूत्रब्रह्मसूत्रकिरीटकटकाङ्गदै: ।
हारनूपुरमुद्राद्यै राजमानां भजे रमाम् ॥३॥
कम्बुकण्ठीं निम्ननाभिं त्रिवलीपल्लवोदराम् ।
अब्धिजातां भजे लक्ष्मीं सुकपोलारुणाधराम् ॥४॥
कौशेयाम्बरयुग्मेन परिवीतां सुमङ्गलाम् ।
अब्धिजातां भजे लक्ष्मीं तप्तहाटकवर्चसम् ॥५॥
चारुजानुयुगीं चारु - जङ्घयुगलसंयुताम् ।
चारुप्रसन्नवदनां चारुहसां भजे रमाम् ॥६॥
दिगिभै: पूर्णकलशै: सूक्तवाक्यैर्द्विजेरितै: ।
अभिषिक्तां भजे देवीं श्रियं पद्मकरां सतीम् ॥७॥
यया विलोकिता देवा: सप्रजापतय: प्रजा: ।
शीलादिगुणसम्पन्न निर्वव्रु: कलये रमाम् ॥८॥
यया xपेक्षिता दैत्या निरुद्योगा गतत्रपा: ।
नि:सत्वा लोलुपा आसन् वन्दे श्रीकमलालयाम् ॥९॥
तुङ्गगुल्फारुणनखव्रातदीधितिसंवृताम् ।
सुचारुसुन्दरग्रीवां वन्दे श्रीकमलालयाम् ॥१०॥
द्युमत्किरीटकटककटिसूत्राङ्गदान्विताम् ।
नूपुरैर्विलसत्पादां वन्दे श्रीकमलालयाम् ॥११॥
नवयौवननिर्वृत्तस्तनभारकृशोदरीम् ।
सर्वाङ्गसुन्दरीं हृद्यां वन्दे श्रीकमलालयाम् ॥१२॥
पुण्डरीकाभिरामाक्षीं नीलकुन्तलमण्डिताम् ।
प्रेक्षणीयां प्रसन्नास्यां वन्दे श्रीकमलालयाम् ॥१३॥
बिभ्रतीं केशभारेण मालामुत्फुल्लमल्लिकाम् ।
हेमाम्बरां पद्महस्तां वन्दे श्रीकमलालयाम् ॥१४॥
बृहत्कटितटश्रोणीकरभोरुद्वयाञ्चिताम् ।
प्रसादश्रिविशालाक्षीं वन्दे श्रीकमलालयाम् ॥१५॥
शङ्खचक्रगदापद्मरत्नमालाविभूषिताम् ।
सुभ्रून्नसां चारुकर्णां वन्दे श्रीकमलालयाम् ॥१६॥
समानकर्णविन्यस्तस्फुरन्मकरकुण्डलाम् ।
समां प्रशान्तां सुमुखीं वन्दे श्रीकमलालयाम् ॥१७॥
सुमहार्हमणिव्रातकिरीटकटकाङ्गदाम् ।
समां प्रशान्तां सुमखीं वन्दे श्रीकमलालयाम् ॥१८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP