संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीरेणुकाम्बास्तोत्रम्

श्रीरेणुकाम्बास्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


कौटिब्रह्माण्डकोटिव्रजवसदखिलप्राणिसूस्वीयशक्तिं ( मायां )
श्रीहेरम्बाश्रयाशप्रभवमुखनुतस्वाङ्घ्रिपङ्केजयुग्माम् ।
निर्व्याजस्वीयचित्तप्रसृतमितितुलाहीनकारुण्यवाञ्छि -
कुक्षत्रोच्छेदकश्रौभृगुपतिजननीं रेणुकाम्बां भजेsहम् ॥१॥
पादाम्भोजप्रणम्राखिलजनहृदयाभीष्टपूगप्रदात्रीं
हस्त्यश्वाल्यादिसम्राडुचितसकलमास्पर्शसक्तस्वचित्ताम् ।
विश्वामित्राग्रजाताप्रभवनिजवपुर्भार्गवप्राणकान्तां
कुक्षत्रोच्छेदकश्रौभृगुपतिजननीं रेणुकाम्बां भजेsहम् ॥२॥
रागद्वेषादिशून्याशययमिजनताद्रागवाप्याङ्घ्रिपद्मां
स्वीयाङ्घ्रिद्वन्द्वरेणुप्रणतिपरमनोहर्षवाराशिसोमम् ।
ईशानीं सर्वरीतिप्रकृतिविषयकापारविद्यावलीनां
कुक्षत्रोच्छेदकश्रौभृगुपतिजननीं रेणुकाम्बां भजेsहम् ॥३॥
क्षीराम्भोराशिराजत्फणितनुरुचिरस्वीयशम्यानुजन्म -
क्षीराम्भोराशिमध्यप्रभवतनुकलोत्तंसजायास्वरूपाम् ।
सोद्धर्षिस्वीकृताङ्घ्रिप्रणतजनमनीsभीष्टपूर्त्तिव्रताढ्यां
कुक्षत्रोच्छेदकश्रौभृगुपतिजननीं रेणुकाम्बां भजेsहम् ॥४॥
स्वापाङ्गेक्षालवेच्छुत्रिदिवततिशिरोरत्नघृष्टाङ्घ्रिपद्मां
श्वेतद्वीपे विकुण्ठावसथसुतलयोर्लभ्यसवंर्द्धिदात्रीम् ।
गाधिक्षोणीशपुत्रीतनुजकृतपरीरम्भसंहर्षिताङ्गीं
कुक्षत्रोच्छेदकश्रौभृगुपतिजननीं रेणुकाम्बां भजेsहम् ॥५॥
अष्टस्वाङ्गाढ्ययोगद्रविणततिमुखाशेषभूतिप्रदात्रीं
श्रौविघ्नेट्कार्त्तिकेयप्रभृतिशिवजसूनव्यरूपाभिरामाम् ।
लक्ष्मीकान्तस्वकान्तद्रुहिणमुखसुरौत्तंसपूगार्चिताङ्घ्रिं
कुक्षत्रोच्छेदकश्रौभृगुपतिजननीं रेणुकाम्बां भजेsहम् ॥६॥
नि:सीमाव्याजदीनस्वपदनकृपासिन्धुनैजान्तरङ्गां
फालाक्षाक्षिप्रदग्धस्मरपुनरसुदस्वीयलौलाकटाक्षाम् ।
लाकिन्यादिस्वशक्तिव्रजकृतसकलाजाण्डसम्बद्धकार्या
कुक्षत्रोच्छेदकश्रीभृगुपतिजननीं रेणुकाम्बां भजेsहम् ॥७॥
श्रीसूनुप्लोषकोग्रस्वविरतिहृदयाकर्षिलावण्यकाष्ठाम्
एणाक्षीमेणचिह्नोल्लसितनिजशिरीवल्लभाकारधर्त्रीम् ।
काणादाक्षस्वपादप्रभृतिनयततिश्राणकस्वप्रसादां
कुक्षत्रोच्छेदकश्रौभृगुपतिजननीं रेणुकाम्बां भजेsहम् ॥८॥
बिम्बेन्द्वम्भोजनुर्धिक्क्रुतिविधिनिपुणस्वाधरस्वाङ्घ्रियुग्माम्
ऐहिक्यामुष्भिकी च प्रफलति सकला यत्स्मृतेर्द्राग्विभूति: ।
ॐकारं यत्स्वरूपं कथयति सततं वेदवेदान्तजालं
कुक्षत्रोच्छेदकश्रौभृगुपतिजननीं रेणुकाम्बां भजेsहम् ॥९॥
औदासीन्यादिनैजाखिलगुणविलसत्संयताक्ष्याप्यपादाम्
ॐकाराम्भोजभृङ्गस्वहृदयजनतानुग्रहोद्रेककर्त्रीम् ।
स्वर्णाशेषाभिमानप्रदलननिपुणच्छायकायाभिरामां
कुक्षत्रोच्छेदकश्रौभृगुपतिजननीं रेणुकाम्बां भजेsहम् ॥१०॥
स्वीयानम्रावतंसप्रशमनशमनस्पष्टभक्तानुकम्पां
क्रोधोद्रैकप्रदग्धप्रणतपुनरसुस्पर्शविद्यानुकम्पाम् ।
सर्वक्लेशप्रणाशाखिलशुभविततश्राणनासक्तचित्तां
कुक्षत्रोच्छेदकश्रौभृगुपतिजननीं रेणुकाम्बां भजेsहम् ॥११॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP