संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीऐडविडेयस्तुति:

श्रीऐडविडेयस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


बहुपुण्यकपुण्यजनाधिपतिं
धरणीधरजाहृदयेट्सुह्रुदम् ।
पदसन्नदीनकृपाम्बुनिधिं
भज ऐडविडेय ( नलकूबरतात ) महं कलये ॥१॥
गजसप्तिमुखाखिलनम्रमनो -
रथसाधनतत्परनैजहृदम् ।
तुहिनाचलजापतिपादपरं
भज ऐडविडेयमहं कलये ॥२॥
स्मररुण्मुखशास्त्रवजित्सुलभं
प्रणतप्रमदाब्धिसुधाकिरणम् ।
बहुरम्यकलाकरणैजमतिं
भज ऐडविडेयमहं कलये ॥३॥
हरिदास्यघटश्रुतिपूर्वभवम्
उडुराजकलाग्रहभाग्ययुतम् ।
नतकाङ्क्षितसंस्पृशिकल्पतरुं
भज ऐडविडेयमहं कलये ॥४॥
मनुमुख्यसमीडितपादयुगं
रजताचलभास्यलकापुरपम् ।
सकलेप्सितभूतिकदम्बकदं
भज ऐडविडेयमहं कलये ॥५॥
मनुवंशजवाह्यविमानगतं
नलकूबररत्नगलादिगुरुम् ।
करुणाजलशेवधिनैजहृदं
भज ऐडविडेयमहं कलये ॥६॥
गिरिजानिटिलाक्षपदाब्जपरं
दिविभूललनाव्र्जगोतपदम् ।
रजनीशविजिष्णुमुखाम्बुरुहं
भज ऐडविडेयमहं कलये ॥७॥
बहुशास्त्रनिकायदपादनतिं
करपादजितारुणपङ्करुहम् ।
सुलभीविहितेष्टसुखप्रचयं
भज ऐडविडेयमहं कलये ॥८॥
प्रणवादिजपप्रियतुष्टधियं
विषयाल्यनभीप्सुजनाप्यपदम् ।
शशिशङ्खहिमच्छविनैजतनुं
भज ऐडविडेयमहं कलये ॥९॥
शमनत्रिपुराङ्गभवघ्नसखं
कलिकल्मषकृन्तनसक्तमतिम् ।
कलितानतकाङ्क्षितभव्यचयं
भज ऐडविडेयमहं कलये ॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP