संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीद्वारकाधीश्वरशारदाचन्द्रमौलीश्वरस्तुति:

श्रीद्वारकाधीश्वरशारदाचन्द्रमौलीश्वरस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भक्ताभीष्टकदम्बदापनविधिप्रह्रेपितस्वर्द्रुमान्
संसाराम्बुधिवाडवायितनिजाङ्घ्र्यम्भोजयुग्मार्चनान् ।
भृङ्गव्योमभवाशिनीरदकचॉंश्छ्रीशारदापीठगान्
नौमि द्वारवतीश्वराजरमणीचन्द्रार्धचूडान् भजे ॥१॥
नम्राभीतिदमुद्रिकामुखलसद्धस्तावधूताम्बुजान्
वस्त्रन्यवकृतशारदामृतधरव्राताखिलाहङ्कृतीन् ।
पादाम्भोजनतेप्सितस्पृशिरताञ्छ्रीशारदापीठगान्
नौमि द्वारवतीश्वराजरमणीचन्द्रार्धचूडान् भजे ॥२॥
क्षीराम्भोनिधिजाब्जयोनिगिरिजाकाम्याङ्गलावण्ययुग -
दीनानम्यगतिप्रणम्रकरुणारम्यस्वधीवृत्तिकान् ।
जन्मादिप्रमुखारिमुख्यदिविषन्नम्यस्वपादाम्बुजान्
नौमि द्वारवतीश्वराजरमणीचन्द्रार्धचूडान् भजे ॥३॥
श्रीकृष्णोभयभारतीक्षितिगुरुस्वाकारलीलावलीन्
कृत्ताशेषकृतान्तमुख्यभयभीप्राग्भारपारम्परीन् ।
कृत्स्नानम्रकपाम्बुराशितहृद: हृद्यान् सुपारम्परीन्
नौमि द्वारवतीश्वराजरमणीचन्द्रार्धचूडान् भजे ॥४॥
श्रीसच्चित्सुखतत्त्वपङ्कजजनु: श्रीजानकीधृत्करान्
श्रीकीलालजराभुवारुभवभूश्रीशौनकादीडितान् ।
श्रीभैमीधरफलनेत्रसहजाश्रीमेनकाजापतीन्
नौमि द्वारवतीश्वराजरमणीचन्द्रार्धचूडान् भजे ॥५॥
नीरश्राणकपारदाम्बुधिभवन्यक्कृत्स्ववर्ष्मच्छवीन्
संसाराम्बुधिपारदायकपदाम्भोजातधूलीस्मृतीन् ।
वेणीनिर्जितनीरदातृनिकराञ्छ्रीचन्द्रचूडान् भजे
नौमि द्वारवतीश्वराजरमणीचन्द्रार्धचूडान् भजे ॥६॥
लीलाजाण्डकपीनवक्षसिजनु: कीनाशविध्वंसकान्
सौभाग्यार्जितवाहनत्वविनतापुत्राच्छवर्होक्षपान् ।
पापव्रातविमोचिताङ्घ्रिविनताञ्छ्रीचन्द्रचूडान् भजे
नौमि द्वारवतीश्वराजरमणीचन्द्रार्धचूडान् भजे ॥७॥
पादाम्भोजरजोलवस्मृतिकृतान् काणादपातञ्जल -
मीमांसाश्रुतिशीर्षमुख्यनयदानेणाङ्कधिक्कृन्मुखान् ।
पाण्यम्भ:प्रभवोल्लसन्मुरलिकावीणाडवर्मादिमान्
नौमि द्वारवतीश्वराजरमणीचन्द्रार्धचूडान् भजे ॥८॥
कष्टव्रातनिकृन्तनैकनिपुणा सर्वेष्टविश्राणका:
तुष्टस्वान्तगभक्तित: प्रपठतां पद्याष्टकं निश्चिम् ।
साष्टाङ्गं प्रतिपादयेयुरखिलं सिद्ध्यष्टकं सत्वरं
नौमि द्वारवतीश्वराजरमणीचन्द्रार्धचूडान् भजे ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP