संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीविधिमाधवशङ्करस्तुति:

श्रीविधिमाधवशङ्करस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


अखिललोकपतीन् सुरपूजितान् करुणयार्द्रहृद: प्रणतेष्टदान् ।
वचनसूकमलागिरिजाधवान् हृदि दधे द्रुहिणाच्युतशङ्करान् ॥१॥
इभमुखाखिलदान् वशसत्कलान् नतमुदब्धिविधून् विरतिप्रियान् ।
कमलभूफणिशाय्युडुनायकान् ( रांघ्ररान् ) हृदि दधे द्रुहिणाच्युतशङ्करान् ॥२॥
अमरकोटिनतान् सकलर्द्धिभाग् - भवविमोचनमुख्यपदार्थदान् ।
तनुजनारदमन्मथषण्मुखान् ( विघ्नपान् ) हृदि दधे द्रुहिणाच्युतशङ्करान् ॥३॥
नतकृपाञ्चितहृत्तनुलावणी - प्रमुखरम्यगुणालिजनिक्षिती: ।
कमलजाम्बुजदृङिटिलेक्षणान् हृदि दधे द्रुहिणाच्युतशङ्करान् ॥४॥
अधरकान्तिपराजितबिम्बमान् सुरसतीविनुतान्नयपूगदान् ।
तुहिनकृद्वदनान् स्थिरसौख्यदान् हृदि दधे द्रुहिणाच्युतशङ्करान् ॥५॥
प्रणवजापिपरान् ( रतान् ) प्रणवाकृतीन् विरतिमत्सुलभान् जगदीश्वरान् ।
जितसुवर्णधनेन्दुतनुच्छवीन् हृदि दधे द्रुहिणाच्युतशङ्करान् ॥६॥
त्रिजगती ( भुवनी ) सृजितरक्षणसंहृति - स्वकृतिचालितकर्म [ लोक ] रथाङ्गकान् ।
प्रणतसर्वशुभस्पृशितत्परान् हृदि दधे द्रुहिणाच्युतशङ्करान् ॥७॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP