संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीयादवकुलप्रजातहरिस्तव:

श्रीयादवकुलप्रजातहरिस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


अमितकृपासुधाजलनिधिस्तवचित्तपाथोरुहं
चरणसरोजनम्रजनताखिलेष्टसंस्पर्शकम् ।
रथगजवाजिमुख्यकमलावितारकाङ्घ्रिस्मृतिं
हृदि कमयामि यादवकुलप्रजातकायं हरिम् ॥१॥
विजितमनोभवादिनिखिलान्तरारिलभ्येक्षणं
प्रणतजनप्रमोंदजलधिक्षपेश्वरानुग्रहम् ।
इहपरसौख्यसाधनकलाकदम्बविश्राणकं
हृदि कमयामि यादवकुलप्रजातकायं हरिम् ॥२॥
प्रणतजनालिवाञ्छितवरप्रदानदीक्षाधरं
द्रुतमखिलर्द्धिदानमुखव्रतालिचेतोहरम् ।
निखिलनिलिम्पकाङ्क्षितपदाम्वुजन्मधूलीलवं
हृदि कमयामि यादवकुलप्रजातकायं हरिम् ॥३॥
परिमितिहीनभूतिनिचयप्रदानशक्तिप्रदं
गिरिशविरिञ्चिविघ्नपग्रहप्रमुख्यदेवार्चितम् ।
अतुलकृपासुधाजनिधरास्वहृत्पय:सम्भवं
हृदि कमयामि यादवकुलप्रजातकायं हरिम् ॥४॥
कृतनितिलाक्षनीरजजनुर्मुखप्र्सादोत्करं
निजचरणापदानसततप्रगायकस्व:स्त्रियम् ।
स्मितहृतचन्द्रकोटिसकलाभिमानहासाननं
हृदि कमयामि यादवकुलप्रजातकायं हरिम् ॥५॥
कणभुगहीन्द्रगौतममुखाखिलोक्तशास्त्रप्रदं
प्रसभविधूतबिम्बनिविडाभिमाननैजाधरम् ।
इहपरलोकमङ्गलततिप्रदायिपादस्मृतिं
हृदि कमयामि यादवकुलप्रजातकायं हरिम् ॥६॥
विषयपराड्मुखस्वधिषणेन्द्रियादियोगीश्वरे -
र्बहुविधमन्त्रमुख्यकरणवर्जाप्यपादाम्बुजम् ।
निजतनुदिव्यकन्तिविजिताभिनूत्नकीलालदं
हृदि कमयामि यादवकुलप्रजातकायं हरिम् ॥७॥
निरुपमलावणीजनिमहीस्वकीयवर्ष्माशयं
प्रणतजनेप्सिताखिलशुभप्रदानदीक्षाधृतम् ।
श्रुतिततयो मुहु:प्रणवकं भणन्ति यस्याभिधां
हृदि कमयामि यादवकुलप्रजातकायं हरिम् ॥८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP